ज्ञान-विज्ञानोपदेशः
श्री-राम उवाच
शृणु वक्ष्यामि ते वत्स गुह्याद्गुह्यतरं परम्।
यद्विज्ञाय नरो जह्यात् सद्यो वैकल्पकं भ्रमम्॥१९॥
आदौ मायास्वरूपं ते वक्ष्यामि तदनन्तरम्।
ज्ञानस्य साधनं पश्चाज्ज्ञानविज्ञानसंयुतम्॥२०॥
ज्ञेयं च परमात्मानं यज्ज्ञात्वा मुच्यते भयात्।
अनात्मनि शरीरादावात्मबुद्धिस्तु या भवेत्॥२१॥
सैव माया तयैवासौ संसारः परिकल्प्यते।
रूपे द्वे निश्चिते पूर्वे मायायाः कुलनन्दन॥२२॥
विक्षेपावरणे तत्र प्रथमं कल्पयेज्जगत्।
लिङ्गाद्यब्रह्मपर्यन्तं स्थूलसूक्ष्मविभेदतः॥२३॥
अपरं त्वखिलं ज्ञानरूपमावृत्य तिष्ठति।
मायया कल्पितं विश्वं परमात्मनि केवले॥२४॥
रज्जौ भुजङ्गवद्भ्रान्त्या विचारे नास्ति किञ्चन।
श्रूयते दृश्यते यद्यत् स्मर्यते वा नरैः सदा॥२५॥
असदेव हि तत् सर्वं यथा स्वप्नमनोरथौ।
देह एव हि संसारवृक्षमूलं दृढं स्मृतम्॥२६॥
तन्मूलः पुत्रदारादिबन्धः किं तेऽन्यथाऽऽत्मनः॥२७॥
देहस्तु स्थूलभूतानां पञ्च तन्मात्रपञ्चकम्।
अहङ्कारश्च बुद्धिश्च इन्द्रियाणि तथा दश॥२८॥
चिदाभासो मनश्चैव मूलप्रकृतिरेव च।
एतत्क्षेत्रमिति ज्ञेयं देह इत्यभिधीयते॥२९॥
एतैर्विलक्षणो जीवः परमात्मा निरामयः।
तस्य जीवस्य विज्ञाने साधनान्यपि मे शृणु॥३०॥
जीवश्च परमात्मा च पर्यायो नात्र भेदधीः।
मानाभावस्तथा दम्भहिंसादिपरिवर्जनम्॥३१॥
पराक्षेपादिसहनं सर्वत्रावक्रता तथा।
मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम्॥३२॥
बाह्याभ्यन्तरसंशुद्धिः स्थिरता सत्क्रियादिषु।
मनोवाक्कायदण्डश्च विषयेषु निरीहता॥३३॥
निरहङ्कारता जन्मजराद्यालोचनं तथा।
असक्तिः स्नेहशून्यत्वं पुत्रदारधनादिषु॥३४॥
इष्टानिष्टागमे नित्यं चित्तस्य समता तथा।
मयि सर्वात्मके रामे ह्यनन्यविषया मतिः॥३५॥
जनसम्बाधरहितशुद्धदेशनिषेवणम्।
प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत्॥३६॥
आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम्।
उक्तैरेतैर्भवेज्ज्ञानं विपरीतैर्विपर्ययः॥३७॥
बुद्धिप्राणमनोदेहाहङ्कृतिभ्यो विलक्षणः।
चिदात्माऽहं नित्यशुद्धो बुद्ध एवेति निश्चयम्॥३८॥
येन ज्ञानेन संवित्ते तज्ज्ञानं निश्चितं च मे।
विज्ञानं च तदैवैतत् साक्षादनुभवेद्यदा॥३९॥
आत्मा सर्वत्र पूर्णः स्याच्चिदानन्दात्मकोऽव्ययः।
बुद्ध्याद्युपाधिरहितः परिणामादिवर्जितः॥४०॥
स्वप्रकाशेन देहादीन् भासयन्ननपावृतः।
एक एवाद्वितीयश्च सत्यज्ञानादिलक्षणः॥४१॥
असङ्गः स्वप्रभो द्रष्टा विज्ञानेनावगम्यते।
आचार्यशास्त्रोपदेशाद्यैक्यज्ञानं यदा भवेत्॥४२॥
आत्मनोर्जीवपरयोर्मूलाविद्या तदैव हि।
लीयते कार्यकरणैः सहैव परमात्मनि॥४३॥
सावस्था मुक्तिरित्युक्ता ह्युपचारोऽयमात्मनि।
इदं मोक्षस्वरूपं ते कथितं रघुनन्दन॥४४॥
ज्ञानविज्ञानवैराग्यसहितं मे परात्मनः।
किन्त्वेतद्दुर्लभं मन्ये मद्भक्तिविमुखात्मनाम्॥४५॥
चक्षुष्मतामपि तथा रात्रौ सम्यङ् न दृश्यते।
पदं दीपसमेतानां दृश्यते सम्यगेव हि॥४६॥
एवं मद्भक्तियुक्तानामात्मा सम्यक् प्रकाशते।
मद्भक्तेः कारणं किञ्चिद् वक्ष्यामि शृणु तत्त्वतः॥४७॥
मद्भक्तसङ्गो मत्सेवा मद्भक्तानां निरन्तरम्।
एकादश्युपवासादि मम पर्वानुमोदनम्॥४८॥
मत्कथाश्रवणे पाठे व्याख्याने सर्वदा रतिः।
मत्पूजापरिनिष्ठा च मम नामानुकीर्तनम्॥४९॥
एवं सततयुक्तानां भक्तिरव्यभिचारिणी।
मयि सञ्जायते नित्यं ततः किमवशिष्यते॥५०॥
अतो मद्भक्तियुक्तस्य ज्ञानं विज्ञानमेव च।
वैराग्यं च भवेच्छीघ्रं ततो मुक्तिमवाप्नुयात्॥५१॥
कथितं सर्वमेतत्ते तव प्रश्नानुसारतः।
अस्मिन्मनः समाधाय यस्तिष्ठेत् स तु मुक्तिभाक्॥५२॥
न वक्तव्यमिदं यत्नान्मद्भक्तिविमुखाय हि।
मद्भक्ताय प्रदातव्यमाहूयापि प्रयत्नतः॥५३॥
य इदं तु पठेन्नित्यं श्रद्धाभक्तिसमन्वितः।
अज्ञानपटलध्वान्तं विधूय परिमुच्यते॥५४॥
भक्तानां मम योगिनां सुविमलस्वान्तातिशान्तात्मनां
मत्सेवाभिरतात्मनां च विमलज्ञानात्मनां सर्वदा।
सङ्गं यः कुरुते सदोद्यतमतिस्तत् सेवनानन्यधीः
मोक्षस्तस्य करे स्थितोऽहमनिशं दृश्यो भवे नान्यथा॥५५॥
॥इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
अरण्यकाण्डे चतुर्थः सर्गः॥