Stotra · Rāma
जनककृत-रामस्तुतिः
Janakakṛta-rāmastutiḥ
Script
जनक उवाच
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः।
बलिस्त्वत्पादसलिलं धृत्वाऽभूद्दिविजाधिपः॥७३॥
त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः।
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता॥७४॥
यत्पादपङ्कजपरागसुरागयोगि-
वृन्दैर्जितं भवभयं जितकालचक्रैः।
यन्नामकीर्तनपरा जितदुःखशोका
देवास्तमेव शरणं सततं प्रपद्ये॥७५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे षष्ठे सर्गे
जनककृत-रामस्तुतिः सम्पूर्णा॥