भरद्वाजकृत-रामस्तुतिः
श्री-महादेव उवाच
त्वं ब्रह्म परमं साक्षादादिमध्यान्तवर्जितः।
त्वमग्रे सलिलं सृष्ट्वा तत्र सुप्तोऽसि भूतकृत्॥१०॥
नारायणोऽसि विश्वात्मन्नराणामन्तरात्मकः।
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः॥११॥
अतस्त्वं जगतामीशः सर्वलोकनमस्कृतः।
त्वं विष्णुर्जानकी लक्ष्मीः शेषोऽयं लक्ष्मणाभिधः॥१२॥
आत्मना सृजसीदं त्वमात्मन्येवाऽऽत्ममायया।
न सज्जसे नभोवत् त्वं चिच्छक्त्या सर्वसाक्षिकः॥१३॥
बहिरन्तश्च भूतानां त्वमेव रघुनन्दन।
पूर्णोऽपि मूढदृष्टीनां विच्छिन्न इव लक्ष्यसे॥१४॥
जगत् त्वं जगदाधारस्त्वमेव परिपालकः।
त्वमेव सर्वभूतानां भोक्ता भोज्यं जगत्पते॥१५॥
दृश्यते श्रूयते यद्यत् स्मर्यते वा रघूत्तम।
त्वमेव सर्वमखिलं त्वद्विनाऽन्यन्न किञ्चन॥१६॥
माया सृजति लोकांश्च स्वगुणैरहमादिभिः।
त्वच्छक्तिप्रेरिता राम तस्मात् त्वय्युपचर्यते॥१७॥
यथा चुम्बकसान्निध्याच्चलन्त्येवायसादयः।
जडास्तथा त्वया दृष्टा माया सृजति वै जगत्॥१८॥
देहद्वयमदेहस्य तव विश्वं रिरक्षिषोः।
विराट् स्थूलं शरीरं ते सूत्रं सूक्ष्ममुदाहृतम्॥१९॥
विराजः सम्भवन्त्येते अवताराः सहस्रशः।
कार्यान्ते प्रविशन्त्येव विराजं रघुनन्दन॥२०॥
अवतारकथां लोके ये गायन्ति गृणन्ति च।
अनन्यमनसो मुक्तिस्तेषामेव रघूत्तम॥२१॥
त्वं ब्रह्मणा पुरा भूमेर्भारहाराय राघव।
प्रार्थितस्तपसा तुष्टस्त्वं जातोऽसि रघोः कुले॥२२॥
देवकार्यमशेषेण कृतं ते राम दुष्करम्।
बहुवर्षसहस्राणि मानुषं देहमाश्रितः॥२३॥
कुर्वन् दुष्करकर्माणि लोकद्वयहिताय च।
पापहारीणि भुवनं यशसा पूरयिष्यसि॥२४॥
प्रार्थयामि जगन्नाथ पवित्रं कुरु मे गृहम्।
स्थित्वाऽद्य भुक्त्वा सबलः श्वो गमिष्यसि पत्तनम्॥२५॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे चतुर्दशे सर्गे
भरद्वाजकृत-रामस्तुतिः सम्पूर्णा॥