अगस्त्यद्वारा रामस्वरूपकथनम्
अगस्त्य उवाच
भवान्नारायणः साक्षाज्जगतामादिकृद्विभुः।
त्वत्स्वरूपमिदं सर्वं जगत् स्थावरजङ्गमम्॥६३॥
त्वन्नाभिकमलोत्पन्नो ब्रह्मा लोकपितामहः।
अग्निस्ते मुखतो जातो वाचा सह रघूत्तम॥६४॥
बाहुभ्यां लोकपालौघाश्चक्षुर्भ्यां चन्द्रभास्करौ।
दिशश्च विदिशश्चैव कर्णाभ्यां ते समुत्थिताः॥६५॥
घ्राणात्प्राणः समुत्पन्नश्चाश्विनौ देवसत्तमौ।
जङ्घाजानूरुजघनाद्भुवर्लोकादयोऽभवन्॥६६॥
कुक्षिदेशात् समुत्पन्नाश्चत्वारः सागरा हरे।
स्तनाभ्यामिन्द्रवरुणौ वालखिल्याश्च रेतसः॥६७॥
मेढ्राद्यमो गुदान्मृत्युर्मन्यो रुद्रस्त्रिलोचनः।
अस्थिभ्यः पर्वता जाताः केशेभ्यो मेघसंहतिः॥६८॥
ओषध्यस्तव रोमेभ्यो नखेभ्यश्च खरादयः।
त्वं विश्वरूपः पुरुषो मायाशक्तिसमन्वितः॥६९॥
नानारूप इवाऽऽभासि गुणव्यतिकरे सति।
त्वामाश्रित्यैव विबुधाः पिबन्त्यमृतमध्वरे॥७०॥
त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम्।
त्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः॥७१॥
त्वद्युक्तमखिलं वस्तु व्यवहारेऽपि राघव।
क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलं पयः॥७२॥
त्वद्भासा भासतेऽर्कादि न त्वं तेनावभाससे।
सर्वगं नित्यमेकं त्वां ज्ञानचक्षुर्विलोकयेत्॥७३॥
नाज्ञानचक्षुस्त्वां पश्येदन्धदृग् भास्करं यथा।
योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम्॥७४॥
अतन्निरसनमुखैर्वेदशीर्षैरहर्निशम्।
त्वत्पादभक्तिलेशेन गृहीता यदि योगिनः॥७५॥
विचिन्वन्तो हि पश्यन्ति चिन्मात्रं त्वां न चान्यथा।
मया प्रलपितं किञ्चित् सर्वज्ञस्य तवाग्रतः।
क्षन्तुमर्हसि देवेश तवानुग्रहभागहम्॥७६॥
दिग्देशकालपरिहीनमनन्यमेकं
चिन्मात्रमक्षरमजं चलनादिहीनम्।
सर्वज्ञमीश्वरमनन्तगुणं व्युदस्त-
मायं भजे रघुपतिं भजतामभिन्नम्॥७७॥
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे द्वितीये सर्गे
अगस्त्यद्वारा रामस्वरूपकथनं सम्पूर्णम्॥