यजुर्वेद-उपाकर्म
\pujainfobox
यजुर्वेद-उपाकर्म
श्रावण-पौर्णमासी
( )
( )
कामोऽकार्षीन्मन्त्र-जपः
आचमनम्। पवित्रपाणिः। दर्भेष्वासीनः। दर्भान् धारयमाणः।
शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये
क्रोधि-नाम-संवत्सरे दक्षिणायने वर्ष-ऋतौ सिंह-श्रावण-मासे शुक्ल-पक्षे पौर्णमास्यां शुभतिथौ इन्दुवासरयुक्तायां श्रवण-नक्षत्र (०८:०८; श्रविष्ठा-नक्षत्र)युक्तायां शोभन-योगयुक्तायां भद्रा-करण (१३:३२; बव-करण)युक्तायाम् एवं-गुण-विशेषण-विशिष्टायाम् अस्यां पौर्णमास्यां
तैष्यां पौर्णमास्याम् अध्यायोत्सर्जन-अकरण- प्रायश्चित्तार्थम् अष्टोत्तर (शत/सहस्र) सङ्ख्यया कामोऽकार्षीन्मन्युरकार्षीदिति महामन्त्रजपं करिष्ये।
\instructइति सङ्कल्प्य दर्भान्निरस्य अप उपस्पृश्य।Having thus made the sankalpa, discard the darbha grass and touch water.என்று ஸங்கல்பம் செய்து கொண்டு தர்பைகளை கீழே போட்டுவிட்டு ஜலத்தை தொடவும்.
\instructकामोऽकार्षीन्मन्युरकार्षी᳚न्नमो॒ नमः इति जपं कृत्वा पवित्रं विसृज्य आचामेत्।Having recited the japa of "kamo'karshin manyurakarshin namo namah", discard the pavitra (grass ring) and sip water (achamana).காமோகார்ஷீத் மன்யுரகார்ஷீன்னமோ நம: என்று ஜபித்து முடிவில் ப்ராணாயாமம் செய்து உபஸ்தானம் செய்யவும். பவித்ரத்தை விஸர்ஜனம் செய்து ஆசமனம் செய்யவும்.
महा-सङ्कल्पः
आचम्य, दर्भेषु आसीनः, दर्भान् धारयमाणः। शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्
श्रीराम राम राम।
श्रीगोविन्द गोविन्द गोविन्द।
अद्य श्री-भगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये
परिभ्रममाणानाम् अनेककोटिब्रह्माण्डानाम् एकतमे अव्यक्त-महदहङ्कार-पृथिव्यप्तेजो-वाय्वाकाशाद्यैः आवरणैः
आवृतेऽस्मिन् महति ब्रह्माण्डकरण्डमण्डले आधारशक्ति आदिकूर्मादि अनन्तादि अष्टदिग्गजोपरि
प्रतिष्ठितानाम् अतल-वितल-सुतल-तलातल-रसातल-महातल-पातालाख्यानां सप्त-लोकानाम् उपरितले
पुण्यकृताम् निवासभूते
भुवर्लोक-सुवर्लोक-महोलोक-जनोलोक-तपोलोक-सत्यलोकाख्य-लोकषट्कस्य अधोभागे महानालायमानफणिराजशेषस्य
सहस्रफणामणि-मण्डल-मण्डिते दिग्दन्ति-शुण्डादण्ड-उत्तम्भिते
लवणेक्षु-सुरासर्पि-दधि-क्षीर-शुद्धोदकार्णवैः परिवृते
जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कराख्य-सप्तद्वीपानां मध्ये जम्बूद्वीपे
भारत-किम्पुरुष-हरि-इलावृत-भद्राश्व-केतुमाल-हिरण्मय-रमणक-कुरु-वर्षाख्य नववर्षाणां मध्ये भारतवर्षे
इन्द्र-कशेरु-ताम्र-गभस्ति-पुन्नाग-गन्धर्व-सौम्य-वरुण-भरत-खण्डानां मध्ये भरतखण्डे
सुमेरु-निषध-हेमकूट-हिमाचल-माल्यवत्-पारियात्रक-गन्धमादन-कैलास-विन्ध्याचलादि-महाशैलमध्ये
दण्डकारण्य-चम्पकारण्य-विन्ध्यारण्य-वीक्षारण्य-श्वेतारण्य-वेदारण्यादि अनेकपुण्यारण्यानां मध्ये
कर्मभूमौ दण्डकारण्ये समभूमिरेखायाः दक्षिणदिग्भागे श्रीशैलस्य आग्नेयदिग्भागे रामसेतोः उत्तरदिग्भागे
गङ्गा-यमुना-सरस्वती-भीमरथी-गौतमी-नर्मदा-गण्डकी-कृष्णवेणी-तुङ्गभद्रा-चन्द्रभागा-मलापहा-कावेरी-कपिला-ताम्रपर्णी-वेगवती-पिनाकिनी-क्षीरनद्यादि
अनेक-महानदी-विराजिते
इन्द्रप्रस्थ-यमप्रस्थ-अवन्तिकापुरी-हस्तिनापुरी-अयोध्यापुरी-मथुरापुरी-मायापुरी-काशीपुरी-काञ्चीपुरी-द्वारकादि अनेकपुण्यपुरी-विराजिते
वाराणसी-चिदम्बर-श्रीशैल-अहोबिल-वेङ्कटाचल-रामसेतु-जम्बुकेश्वर-कुम्भघोण-हालास्य-गोकर्ण-अनन्तशयन-गया-प्रयागादि
अनेकपुण्यक्षेत्र-परिवृते सकलजगत्स्रष्टुः परार्धद्वयजीविनः ब्रह्मणः प्रथमे परार्धे पञ्चाशत्
अब्दात्मके अतीते द्वितीये परार्धे पञ्चाशद्-अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे
दिवसे अह्नि द्वितीये यामे तृतीये मुहूर्ते
पार्थिव-कूर्म-प्रलयानन्त-श्वेतवराह-ब्राह्म-सावित्र्याख्य-सप्त-कल्पानां मध्ये श्वेतवराहकल्पे
स्वायम्भुव-स्वारोचिष-उत्तम-तामस-रैवत-चाक्षुषाख्येषु षट्सु मनुषु अतीतेषु सप्तमे वैवस्वतमन्वन्तरे
अष्टाविंशतितमे कलियुगे प्रथमे पादे युधिष्ठिर-विक्रम-शालिवाहन-विजय-अभिनन्दन-नागार्जुन-कलिभूपाख्य
शकपुरुष मध्यपरिगणितेन शालिवाहनशके बौद्धावतारे ब्राह्म-दैव-पित्र्य-प्राजापत्य-बार्हस्पत्य-सौर-चान्द्र
सावन-नक्षत्राख्य-नवमान-मध्य-परिगणितेन सौर-चान्द्रमान-द्वयेन प्रवर्तमाने प्रभवादीनां षष्ट्याः
संवत्सराणां मध्ये
क्रोधि-नाम-संवत्सरे दक्षिणायने वर्ष-ऋतौ सिंह-श्रावण-मासे शुक्ल-पक्षे पौर्णमास्यां शुभतिथौ इन्दुवासरयुक्तायां श्रवण-नक्षत्र (०८:०८; श्रविष्ठा-नक्षत्र)युक्तायां शोभन-योगयुक्तायां भद्रा-करण (१३:३२; बव-करण)युक्तायाम् एवं-गुण-विशेषण-विशिष्टायाम् अस्यां पौर्णमास्यां
अनादि-अविद्या-वासनया प्रवर्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः
कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा केनापि पुण्यकर्मविशेषेण
इदानीन्तन-मानुष-द्विजजन्मविशेषं प्राप्तवतः मम जन्माभ्यासात् जन्मप्रभृति एतत्क्षणपर्यन्तं बाल्ये वयसि
कौमारे यौवने वार्धके च जागृत्-स्वप्न-सुषुप्ति-अवस्थासु मनो-वाक्-कायैः
कर्मेन्द्रिय-ज्ञानेन्द्रिय-व्यापारैश्च सम्भावितानां रहस्यकृतानां प्रकाशकृतानां ब्रह्महनन-सुरापान-स्वर्णस्तेय-गुरुदारगमन-तत्संसर्गाख्यानां महापातकानां, महापातक-अनुमन्तृत्वादीनाम् अतिपातकानां,
सोमयागस्थ-क्षत्रिय-वैश्यवधादीनां समपातकानां, गोवधादीनाम् उपपातकानां मार्जारवधादीनां सङ्कलीकरणानां,
कृमिकीटवधादीनां मलिनीकरणानां, निन्दित-धनादान-उपजीवनादीनाम् अपात्रीकरणानां, मद्याघ्राणनादीनां जातिभ्रंशकराणां विहितकर्मत्यागादीनां
प्रकीर्णकानां, ज्ञानतः सकृत्कृतानां, अज्ञानतः असकृत्कृतानां, अत्यन्ताभ्यस्तानां निरन्तराभ्यस्तानां
चिरकालाभ्यस्तानां नवानां नवविधानां बहूनां बहुविधानां सर्वेषां पापानां सद्यः अपनोदनार्थं
भास्करक्षेत्रे विनायकादिसमस्तहरिहरदेवतासन्निधौ ... पौर्णमास्याम् अध्यायोपाकर्म करिष्ये। तदङ्गम्
अवगाह्य महानदीस्नानं करिष्ये।
\instructइति सङ्कल्प्य दर्भान्निरस्य अप उपस्पृश्यHaving thus made the sankalpa, discard the darbha grass and touch water.என்று ஸங்கல்பம் செய்து கொண்டு தர்பைகளை கீழே போட்டுவிட்டு ஜலத்தை தொடவும்.
\instructस्नात्वा धौतवस्त्रं धृत्वा कुलाचारवत् पुण्ड्रधारणं च कृत्वा आचम्य यज्ञोपवीतं धारयेत्।Having bathed and worn madi vastram, applied the pundra/tilaka marks according to one's family tradition, and performed achamana, one should then wear the sacred thread (yajnopavita).ஸ்நானம் செய்து மடி வஸ்த்ரம் அணிந்து குலாசாரத்தின் படி புண்ட்ரதாரணம் செய்து பிறகு ஆசமனம் செய்து யஜ்ஞோபவீததாரணம் செய்ய வேண்டும்.
यज्ञोपवीत-धारणम्
शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् श्रावण्यां पौर्णमास्याम् अध्यायोपाकर्मणि
श्रौत-स्मार्त-विहित-नित्यकर्मानुष्ठान-सदाचार-योग्यता-सिद्ध्यर्थं
ब्रह्मतेजोऽभिवृद्ध्यर्थं यज्ञोपवीत-धारणं करिष्ये।
अस्य श्री-यज्ञोपवीत-धारण-महामन्त्रस्य परब्रह्म ऋषिः, त्रिष्टुप् छन्दः, परमात्मा देवता।
यज्ञोपवीत-धारणे विनियोगः।
य॒ज्ञो॒प॒वी॒तं ॰ प॒र॒मं ॰ प॒वित्रं॑ ॰ प्र॒जाप॑तेः ॰ यत् ॰ स॒ह॒जं ॰ पु॒रस्ता᳚त्। आ॒यु॒ष्यं॑ ॰ अ॒ग्र्यं॑ ॰ प्रति॑मुञ्च-शु॒भ्रं ॰ य॒ज्ञो॒प॒वी॒तं ॰ बल॑मस्तु ॰ तेजः॑॥
इति यज्ञोपवीतं धृत्वा, ॐ। आचम्य।
उपवीतं भिन्नतन्तुं जीर्णं कश्मलदूषितम्। विसृजामि जले ब्रह्मन् वर्चो दीर्घायुरस्तु मे।
\instructइति जीर्णम् उपवीतं विसृज्य पुनराचमनं कुर्यात्।Having thus discarded the old sacred thread, perform achamana again.என்று கூறி பழைய பூணூலை விஸர்ஜனம் செய்து மீண்டும் ஆசமனம் செய்யவும்.
ब्रह्मचारिणां मौञ्जी-बन्धनम्
इ॒यं ॰ दुरु॑क्तात् ॰ प॒रि॒बाध॑माना ॰ शर्म॑ ॰ वरू॑थं ॰ पु॒न॒ती ॰ नः॑ ॰ आगा᳚त्।
प्रा॒णा॒पा॒नाभ्यां᳚ ॰ बलं॑ ॰ आ॒भर॑न्ती ॰ प्रि॒या ॰ दे॒वानां᳚ ॰ सु॒भगा᳚ ॰ मेख॑ला ॰ इ॒यम्॥
ऋ॒तस्य॑ ॰ गो॒प्त्री ॰ तप॑सः ॰ प॒र॒स्पी ॰ घ्न॒ती ॰ रक्षः॑ ॰ सह॑माना ॰ अरा॑तीः।
सा नः॑ ॰ स॒म॒न्तं ॰ अनु॑ ॰ परी॑हि ॰ भ॒द्रया᳚ ॰ भ॒र्तारः॑ ॰ ते॒ ॰ मे॒ख॒ले॒ ॰ मा रि॑षाम॥
ब्रह्मचारिणां कृष्णाजिन-धारणम्
मि॒त्रस्य॑ ॰ चक्षुः॑ ॰ धरु॑णं ॰ बली॑यः ॰ तेजः॑ ॰ य॒श॒स्वि ॰ स्थवि॑रं ॰ समि॑द्धम्।
अ॒ना॒ह॒न॒स्यं ॰ वस॑नं ॰ ज॒रि॒ष्णु ॰ परी॒दं ॰ वा॒जि ॰ अ॒जिनं᳚ ॰ द॒धे॒ऽहम्॥
ब्रह्मचारिणां दण्ड-धारणम्
सु॒श्रवः॑ ॰ सु॒श्रव॑सं ॰ मा॒ कु॒रु॒ ॰ यथा॒ त्वं ॰ सु॒श्रवः॑ ॰ सु॒श्रवाः᳚ ॰ अ॒सि॒ ॰ ए॒वम॒हं ॰ सु॒श्रवः॑ ॰ सु॒श्रवाः᳚ ॰ भू॒या॒सं॒ ॰ यथा॒ त्वं ॰ सु॒श्रवः॑ ॰ दे॒वानां᳚ ॰
नि॒धि॒गो॒पः ॰ अ॒सि॒ ॰ ए॒वम॒हं ॰ ब्रा॒ह्म॒णानां᳚ ॰ ब्रह्मा॑णः ॰ नि॒धि॒गो॒पः ॰ भू॒या॒स॒म्॒ ॥
काण्डऋषि-तर्पणम्
आचम्य। शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्
अद्यपूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम्
अस्यां श्रावण्यां पौर्णमास्याम् अध्यायोपाकर्माङ्गं काण्डऋषि-तर्पणं करिष्ये।
\instructनिवीती। उपवीतमङ्गुष्ठयोः सक्तं कृत्वा। सतिलाक्षताभिः अद्भिः ऋषितीर्थेन त्रिस्त्रिः।Wearing the sacred thread as a garland around the neck (niviti), looped over both thumbs; offer water mixed with sesame and akshata three times each, using the rishi-tirtha (the tips of the fingers).பூணூலை மாலையாக தரித்துக் கொண்டு வலது கட்டை விரலில் பிடித்துகொண்டு எள் அக்ஷதை சேர்த்து சுண்டுவிரல் பக்கமாக மும்மூன்று முறை ஜலம் விடவும்.
प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान् देवान् काण्डऋषीꣴस्तर्पयामि।
साꣳहितीर्देवताः उपनिषदस्तर्पयामि।
याज्ञिकीर्देवताः उपनिषदस्तर्पयामि।
वारुणीर्देवताः उपनिषदस्तर्पयामि।
ब्रह्माणं स्वयम्भुवं तर्पयामि।
\instructब्रह्मतीर्थेन।Using the brahma-tirtha (the base of the fingers, near the wrist) -- for this mantra only, let the water fall from the palms down past the elbows, three times.இந்த மந்த்ரத்திற்கு மட்டும் ஜலம் மூன்று முறை உள்ளம் கைகளிருந்து முழங்கைகள் வழியாக கீழே விழும்படி விட வெண்டும்.
सदसस्पतिं तर्पयामि।
\instructउपवीती।Wear the sacred thread over the left shoulder in the usual manner (upaviti).பூணூலை உபவீதமாக போட்டுக் கொள்ளவும்.
आचम्य।
वेदारम्भः
शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्
श्रावण्यां पौर्णमास्याम् अध्यायोपाकर्मणि वेदारम्भं करिष्ये।
\instructइति सङ्कल्प्य। अप उपस्पृश्य।Having thus made the sankalpa, touch water.என்று ஸங்கல்பம் செய்து கொண்டு ஜலத்தை தொடவும்.
ॐ श्री॒गु॒रु॒भ्यो॒ न॒मः॒। हरिः ओ(४)म्।
इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ माऽघशꣳ॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि॥ (१)
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आव॑हन्ति क॒वयः॑ पु॒रस्ता᳚द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानां᳚ परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राध्यासमाच्छे॒त्ता ते॒ मा रि॑षं॒ देव॑बर्हिः श॒तव॑ल्शं॒ वि रो॑ह स॒हस्र॑वल्शा॒ (२)
वि व॒यꣳ रु॑हेम पृथि॒व्याः स॒म्पृचः॑ पाहि सुस॒म्भृता᳚ त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नं पू॒षा ते᳚ ग्र॒न्थिं ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚र्मू॒र्ध्ना ह॑राम्यु॒र्व॑न्तरि॑क्ष॒मन्वि॑हि देवङ्ग॒मम॑सि॥ (३)
शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृꣳह॑स्व॒ मा ह्वा॒र्वसू॑नां प॒वित्र॑मसि श॒तधा॑रं॒ वसू॑नां प॒वित्र॑मसि स॒हस्र॑धारꣳ हु॒तः स्तो॒को हु॒तो द्र॒फ्सो᳚ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣳ॒ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यꣳ र॑क्षस्व॥ (४)
कर्म॑णे वां दे॒वेभ्यः॑ शकेयं॒ वेषा॑य त्वा॒ प्रत्यु॑ष्ट॒ꣳ॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो᳚ऽस्मान्धूर्व॑ति॒ तं धू᳚र्व॒ यं व॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धानं॒ दृꣳह॑स्व॒ मा ह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सं वि॑क्था॒ मा त्वा॑ (५)
हिꣳसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याम॒ग्नये॒ जुष्टं॒ निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दं दे॒वाना॑मि॒दमु॑ नः स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षं वैश्वान॒रं ज्योति॒र्दृꣳह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑क्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यꣳ र॑क्षस्व॥ (६) ॐ॥
ॐ॥ ब्रह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
क्ष॒त्रꣳ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्।
इष॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
ऊर्ज॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
र॒यिꣳ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
पुष्टि॒ꣳ॒ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
प्र॒जाꣳ सन्ध॑त्तं॒ तां मे॑ जिन्वतम्।
प॒शून्थ्सन्ध॑त्तं॒ तान्मे॑ जिन्वतम्। ॐ॥
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒ यदायुः॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ॥
ॐ॥ सं॒ज्ञानं॑ वि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत्।
स॒ङ्कल्प॑मानं प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑कॢप्तं कॢ॒प्तम्।
श्रेयो॒ वसी॑य आ॒यत्सम्भू॑तं भू॒तम्।
चि॒त्रः के॒तुः प्र॒भाना॒भान्थ्स॒म्भान्।
ज्योति॑ष्मा॒ꣴ॒स्तेज॑स्वाना॒तप॒ꣴ॒स्तप॑न्नभि॒तपन्॑।
रो॒च॒नो रोच॑मानः शोभ॒नः शोभ॑मानः क॒ल्याणः॑।
दर्शा॑ दृ॒ष्टा द॑र्श॒ता वि॒श्वरू॑पा सुदर्श॒ना।
आ॒प्याय॑माना॒ प्याय॑माना॒ प्याया॑ सू॒नृतेरा᳚।
आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी। ॐ॥
ॐ॥ प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रेभि॑र्व॒राꣳ अ॒भि षु॒ प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑
जुजोषति॒ यथ्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति । अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो
वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒थ्सञ्जा᳚स्प॒त्यꣳ सु॒यम॑मस्तु देवाः। ॐ॥
ॐ॥ अथातः दर्शपूर्णमासौ व्याख्यास्यामः। प्रातरग्निहोत्रं हुत्वा। अन्यमाहवनीयं प्रणीय।
अग्नीनन्वादधाति। नगतश्रियोऽन्यमग्निं प्रणयति॥ ॐ॥
ॐ॥ अथ कर्माणि — आचारात् — यानि गृह्यन्ते॥ ॐ॥
ॐ॥ अथातः — सामयाचारिकान् धर्मान् व्याख्यास्यामः॥ ॐ॥
ॐ॥ अथ शिक्षां प्रवक्ष्यामि — पाणिनीयं मतं यथा॥ ॐ॥
ॐ॥ पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्॥ ॐ॥
ॐ॥ मयरसतजभन लगसम्मितं भ्रमति वाङ्मयं जगति यस्य॥ ॐ॥
ॐ॥ गौः। ग्मा। ज्मा। क्ष्मा। क्षा। क्षमा। क्षोणी। क्षितिः। अवनिः। ॐ॥
ॐ॥ अ इ उ ण्। ऋ ऌ क्। ए ओ ङ्। ऐ औ च्। ह य व र ट्। ल ण्। ञ म ङ् ण न म्।
झ भ ञ्। घ ढ ध ष्। ज ब ग ड द श्। ख फ छ ठ थ च ट त व्।
क प य्। श ष स र्। ह ल्। इति माहेश्वराणि सूत्राणि॥ ॐ॥
ॐ॥ वृद्धिरादैच्। अदेङ्गुणः॥ ॐ॥
ॐ॥ अथातश्छन्दसां विवृतिं व्याख्यास्यामः॥ ॐ॥
ॐ॥ गीर्नः श्रेयः। धेनवः श्रीः। रुद्रस्तु नम्यः। भवो हि याज्यः। धन्येयं नारी। धनवान् पुत्रः॥ ॐ॥
ॐ॥ अथ वर्णसमाम्नायः॥ ॐ॥
ॐ॥ अथातो धर्मजिज्ञासा॥ ॐ॥
ॐ॥ अथातो ब्रह्मजिज्ञासा॥ ॐ॥
ॐ॥ अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚। होता᳚रं रत्न॒-धात॑मम्॥ ॐ॥
ॐ॥ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। नि होता॑ सत्सि ब॒र्हिषि॑॥ ॐ॥
ॐ॥ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शं योर॒भिस्र॑वन्तु नः॥ हरिः॑ ॐ॥
ॐ॥ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि॥ (त्रिः)
ॐ तत्सत्॥
गायत्री-जपः
आचमनम्। पवित्रपाणिः। दर्भेष्वासीनः। दर्भान् धारयमाणः।
शुक्लाम्बरधरं + शान्तये। प्राणायामः।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिके
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये
क्रोधि-नाम-संवत्सरे दक्षिणायने वर्ष-ऋतौ सिंह-श्रावण-मासे कृष्ण-पक्षे प्रथमायां शुभतिथौ भौमवासरयुक्तायां शतभिषङ्-नक्षत्रयुक्तायाम् अतिगण्ड-योगयुक्तायां बालव-करण (१०:१५; कौलव-करण)युक्तायाम् एवं-गुण-विशेषण-विशिष्टायाम् अस्यां प्रथमायां
मिथ्याधीत-दोष-प्रायश्चितार्थं दोषवत्सु अपतनीय-प्रायश्चितार्थं संवत्सरप्रायश्चित्तार्थं च
अष्टोत्तरसहस्रसङ्ख्यया सावित्रीं समिधम् आधास्ये (अथवा अष्टोत्तरसहस्रसङ्ख्यया गायत्रीमहामन्त्रजपं करिष्ये)।
\instructइति सङ्कल्प्य दर्भान्निरस्य अप उपस्पृश्यHaving thus made the sankalpa, discard the darbha grass and touch water.என்று ஸங்கல்பம் செய்து கொண்டு தர்பைகளை கீழே போட்டுவிட்டு ஜலத்தை தொடவும்.
\instructप्रणवस्य ऋषिर्ब्रह्मा इत्याद्यारभ्य अष्टोत्तरसहस्रगायत्रीजपं कृत्वा प्राणायामं कृत्वा उपस्थानं कृत्वा पवित्रं
विसृज्य आचामेत्।Beginning with "pranavasya rishir brahma...", recite the Gayatri mantra 1008 times, perform pranayama, offer the upasthana prayers, then discard the pavitra and perform achamana.ப்ரணவஸ்ய ரிஷி ப்ரஹ்மா என்று தொடங்கி காயத்ரி ஜபம் வரையில் செய்து உத்தமே ஶிக^2ரே என்ற மந்த்ரத்தை உபஸ்தானமாக கூறி விட்டு பவித்ரவிஸர்ஜனம் செய்து ஆசமனம் செய்யவும்.
\instructयद्वा—सत्यां शक्तौ समिदाहुतिं कुर्यात्।Alternatively, if one is able, offer the samidahuti oblations into the sacred fire instead.முடிந்த வரையில் காயத்ரியை ஹோமமாக செய்ய வேண்டும்.
\instructश्रोत्रियागारादाहृतेऽग्नौ यथाविधिप्रतिष्ठापिते परिस्तीर्णे परिषिक्ते घृतेनाभ्युज्य एकैकशः प्रणवव्याहृतिपूर्वया गायत्र्या समित्सहस्रमादध्यात्। न स्वाहाकारः। परिषिच्य उपतिष्ठेत।In fire brought from a learned brahmana's house and duly consecrated, with the paristarana (encircling grass) laid and the parishechana (sprinkling) done, smear each stick with ghee and offer a thousand sticks one by one, each preceded by the pranava and vyahritis, with the Gayatri mantra -- without uttering "svaha". Then perform the parishechana again and recite the upasthana prayers.லௌகிக அக்னியை பிரதிஷ்ட்டை செய்து பரிஸ்தரணம் அமைத்து பரிஷேசனம் செய்து ஒவ்வொரு ஸமித்தாக நெய்யில் தொட்டு ப்ரணவ வ்யாஹ்ரு'தி பூர்வமாக காயத்ரி மந்த்ரத்தினால் ஸ்வஹா என்ற பதம் சொல்லாமல் ஹோமம் செய்யவும். பரிஷேசனம் செய்து உத்தமே ஶிக^2ரே என்ற மந்த்ரத்தை உபஸ்தானமாக கூறி விட்டு பவித்ரவிஸர்ஜனம் செய்து ஆசமனம் செய்யவும்.