श्री-व्यास-पूर्णिमा-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्री-व्यास-पूजा
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने ग्रीष्म-ऋतौ कटक-आषाढ-मासे शुक्लपक्षे पौर्णमास्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
पौर्णमास्यां शुभतिथौ
उत्तराषाढा-नक्षत्रे धनूराशौ आविर्भूतानां श्रीमत्-शङ्कर-विजयेन्द्र-सरस्वती-श्रीपादानां, शतभिषङ्-नक्षत्रे कुम्भ-राशौ आविर्भूतानां श्रीमत्-सत्य-चन्द्रशेखरेन्द्र-सरस्वती-श्रीपादानाम् अस्माकं जगद्गुरूणां दीर्घ-आयुः-आरोग्य-सिद्ध्यर्थं,
तैः सङ्कल्पितानां सर्वेषां लोक-क्षेमार्थ-कार्याणां वेद-शास्त्रादि-सम्प्रदाय-पोषण-कार्याणां विविध-क्षेत्र-यात्रायाश्च अविघ्नतया सम्पूर्त्यर्थं
कामकोटि-गुरु-परम्परायां कामकोटि-भक्त-जनानाम् अचञ्चल-भावशुद्ध-दृढतर-भक्ति-सिद्ध्यर्थं, परस्पर-ऐकमत्य-सिद्ध्यर्थं
भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा ऐहिक-आमुष्मिक-अभ्युदय-प्राप्त्यर्थम्, असत्कार्येभ्यः निवृत्त्यर्थं
भारतीयानां सन्ततेः सनातन-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
सर्वेषां द्विपदां चतुष्पदाम् अन्येषां च प्राणि-वर्गाणाम् आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
अस्माकं सह-कुटुम्बानां धर्म-अर्थ-काम-मोक्ष-रूप-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं विवेक-वैराग्य-सिद्ध्यर्थं
श्री-व्यासाचार्य-प्रीत्यर्थं व्यास-पूर्णिमा-महोत्सवे यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-व्यासाचार्य-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
ध्यानम्
अस्मिन् चित्रपटे/पुस्तके/कलशे श्री-व्यासाचार्यान् ध्यायामि। श्री-व्यासाचार्यान् आवाहयामि।
श्री-व्यासाचार्येभ्यो नमः, आसनं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, स्वागतं व्याहरामि। पूर्णकुम्भं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, पाद्यं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, अर्घ्यं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, मधुपर्कं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, स्नपयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, वस्त्रं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, यज्ञोपवीतं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
श्री-व्यासाचार्येभ्यो नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, धूपमाघ्रापयामि।
श्री-व्यासाचार्येभ्यो नमः, दीपं दर्शयामि।
श्री-व्यासाचार्येभ्यो नमः, अमृतं महानैवेद्यं पानीयं च निवेदयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, मङ्गलनीराजनं दर्शयामि।
श्री-व्यासाचार्येभ्यो नमः, प्रदक्षिणनमस्कारान् समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, प्रार्थनाः समर्पयामि।
व्यास-पूजा-चक्र-देवता-स्मरणम्
कृष्णाय शुद्धचैतन्याय नमः
वासुदेवाय नमः
सङ्कर्षणाय नमः
प्रद्युम्नाय नमः
अनिरुद्धाय नमः
ब्रह्मणे नमः
सरस्वत्यै नमः
सनकाय नमः
सनन्दनाय नमः
सनातनाय नमः
सनत्कुमाराय नमः
सनत्सुजाताय नमः
नारदाय नमः
वेदव्यासाय नमः
शुकाय नमः
पैलाय नमः
वैशम्पायनाय नमः
जैमिनये नमः
सुमन्तवे नमः
द्रविडाचार्येभ्यो नमः
गौडपादाचार्येभ्यो नमः
गोविन्दभगवत्पादाचार्येभ्यो नमः
शङ्कराचार्येभ्यो नमः
पद्मपादाचार्येभ्यो नमः
सुरेश्वराचार्येभ्यो नमः
हस्तामलकाचार्येभ्यो नमः
तोटकाचार्येभ्यो नमः
संक्षेपकाचार्येभ्यो नमः
विवरणाचार्येभ्यो नमः
परात्परगुरुभ्यो नमः
परमेष्ठिगुरुभ्यो नमः
परमगुरुभ्यो नमः
गुरुभ्यो नमः
अन्येभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्य आचार्येभ्यो नमः
अनेन पूजनेन श्री-व्यासाचार्याः प्रीयन्ताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।