पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥
प्रार्थनाः समर्पयामि।
❀
प्रधान-पूजा — श्री-व्यास-पूजा
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने ग्रीष्म-ऋतौ कटक-आषाढ-मासे शुक्लपक्षे पौर्णमास्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
पौर्णमास्यां शुभतिथौ
उत्तराषाढा-नक्षत्रे धनूराशौ आविर्भूतानां श्रीमत्-शङ्कर-विजयेन्द्र-सरस्वती-श्रीपादानां, शतभिषङ्-नक्षत्रे कुम्भ-राशौ आविर्भूतानां श्रीमत्-सत्य-चन्द्रशेखरेन्द्र-सरस्वती-श्रीपादानाम् अस्माकं जगद्गुरूणां दीर्घ-आयुः-आरोग्य-सिद्ध्यर्थं,
तैः सङ्कल्पितानां सर्वेषां लोक-क्षेमार्थ-कार्याणां वेद-शास्त्रादि-सम्प्रदाय-पोषण-कार्याणां विविध-क्षेत्र-यात्रायाश्च अविघ्नतया सम्पूर्त्यर्थं
कामकोटि-गुरु-परम्परायां कामकोटि-भक्त-जनानाम् अचञ्चल-भावशुद्ध-दृढतर-भक्ति-सिद्ध्यर्थं, परस्पर-ऐकमत्य-सिद्ध्यर्थं
भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा ऐहिक-आमुष्मिक-अभ्युदय-प्राप्त्यर्थम्, असत्कार्येभ्यः निवृत्त्यर्थं
भारतीयानां सन्ततेः सनातन-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
सर्वेषां द्विपदां चतुष्पदाम् अन्येषां च प्राणि-वर्गाणाम् आरोग्य-युक्त-सुख-जीवन-अवाप्त्यर्थम्
अस्माकं सह-कुटुम्बानां धर्म-अर्थ-काम-मोक्ष-रूप-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं विवेक-वैराग्य-सिद्ध्यर्थं
श्री-व्यासाचार्य-प्रीत्यर्थं व्यास-पूर्णिमा-महोत्सवे यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-व्यासाचार्य-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥
घण्टा-पूजा
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
ध्यानम्
अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः
प्रांशुर्दण्डी कृष्णमृग-त्वक्-परिधानः।
सर्वान् लोकान् पावयमानः कवि-मुख्यः
पाराशर्यः पर्व-सुरूपं विवृणोतु॥
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुक-तातं तपोनिधिम्॥१॥
कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हिते रतम्।
वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम्॥२॥
विश्वरूपं च विश्वेशं विश्व-सत्ता-प्रदं शिवम्।
वेदयोनिमहं वन्दे व्यासं वेदार्थ-सिद्धिदम्॥३॥
अस्मिन् चित्रपटे/पुस्तके/कलशे श्री-व्यासाचार्यान् ध्यायामि। श्री-व्यासाचार्यान् आवाहयामि।
श्री-व्यासाचार्येभ्यो नमः, आसनं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, स्वागतं व्याहरामि। पूर्णकुम्भं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, पाद्यं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, अर्घ्यं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, मधुपर्कं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, स्नपयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, वस्त्रं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, यज्ञोपवीतं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, अक्षतान् समर्पयामि। पुष्पैः पूजयामि।
श्रीव्यासाचार्याष्टोत्तरशतनामावलिः
ॐ नारायणकुलोद्भूताय नमःॐ नारायणपराय नमःॐ वराय नमःॐ नारायणावताराय नमःॐ नारायणवशंवदाय नमःॐ स्वयम्भूवंशसम्भूताय नमःॐ वसिष्ठकुलदीपकाय नमःॐ शक्तिपौत्राय नमःॐ पापहन्त्रे नमःॐ पराशरसुताय नमः१०ॐ अमलाय नमःॐ द्वैपायनाय नमःॐ मातृभक्ताय नमःॐ शिष्टाय नमःॐ सत्यवतीसुताय नमःॐ स्वयमुद्भूतवेदाय नमःॐ चतुर्वेदविभागकृते नमःॐ महाभारतकर्त्रे नमःॐ ब्रह्मसूत्रप्रजापतये नमःॐ अष्टादशपुराणानां कर्त्रे नमः२०ॐ श्यामाय नमःॐ प्रशिष्यकाय नमःॐ शुकताताय नमःॐ पिङ्गजटाय नमःॐ प्रांशवे नमःॐ दण्डिने नमःॐ मृगाजिनाय नमःॐ वश्यवाचे नमःॐ ज्ञानदात्रे नमःॐ शङ्करायुःप्रदाय नमः३०ॐ शुचये नमःॐ मातृवाक्यकराय नमःॐ धर्मिणे नमःॐ कर्मिणे नमःॐ तत्त्वार्थदर्शकाय नमःॐ सञ्जयज्ञानदात्रे नमःॐ प्रतिस्मृत्युपदेशकाय नमःॐ सर्वधर्मोपदेष्ट्रे नमःॐ मृतदर्शनपण्डिताय नमःॐ विचक्षणाय नमः४०ॐ प्रहृष्टात्मने नमःॐ पर्वपूज्याय नमःॐ प्रभवे नमःॐ मुनये नमःॐ वीराय नमःॐ विश्रुतविज्ञानाय नमःॐ प्राज्ञाय नमःॐ अज्ञाननाशनाय नमःॐ ब्राह्मकृते नमःॐ पाद्मकृते नमः५०ॐ धीराय नमःॐ विष्णुकृते नमःॐ शिवकृते नमःॐ श्रीभागवतकर्त्रे नमःॐ भविष्यरचनादराय नमःॐ नारदाख्यस्य कर्त्रे नमःॐ मार्कण्डेयकराय नमःॐ अग्निकृते नमःॐ ब्रह्मवैवर्तकर्त्रे नमःॐ लिङ्गकृते नमः६०ॐ वराहकृते नमःॐ स्कान्दकर्त्रे नमःॐ वामनकृते नमःॐ कूर्मकर्त्रे नमःॐ मत्स्यकृते नमःॐ गरुडाख्यस्य कर्त्रे नमःॐ ब्रह्माण्डाख्यपुराणकृते नमःॐ उपपुराणानां कर्त्रे नमःॐ पुराणाय नमःॐ पुरुषोत्तमाय नमः७०ॐ काशिवासिने नमःॐ ब्रह्मनिधये नमःॐ गीतादात्रे नमःॐ महामतये नमःॐ सर्वज्ञाय नमःॐ सर्वसिद्धये नमःॐ सर्वशास्त्रप्रवर्तकाय नमःॐ सर्वाश्रयाय नमःॐ सर्वहिताय नमःॐ सर्वस्मै नमः८०ॐ सर्वगुणाश्रयाय नमःॐ विशुद्धाय नमःॐ शुद्धिकृते नमःॐ दक्षाय नमःॐ विष्णुभक्ताय नमःॐ शिवार्चकाय नमःॐ देवीभक्ताय नमःॐ स्कन्दरुचये नमःॐ गणेशादृते नमःॐ योगविदे नमः९०ॐ पैलाचार्याय नमःॐ ऋचः कर्त्रे नमःॐ शाकल्यार्याय नमःॐ याजुषाय नमःॐ जैमिन्यार्याय नमःॐ सामकर्त्रे नमःॐ सुमन्त्वार्याय नमःॐ अथर्वकृते नमःॐ रोमहर्षणसूतार्याय नमःॐ लोकाचार्याय नमः१००ॐ महामुनये नमःॐ व्यासकाशीरतये नमःॐ विश्वपूज्याय नमःॐ विश्वेशपूजकाय नमःॐ शान्ताय नमःॐ शान्ताकृतये नमःॐ शान्तचित्ताय नमःॐ शान्तिप्रदाय नमः१०८
॥इति श्री-व्यासाष्टोत्तरशतनामावलिः सम्पूर्णा॥
श्री-व्यासाचार्येभ्यो नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, धूपमाघ्रापयामि।
श्री-व्यासाचार्येभ्यो नमः, दीपं दर्शयामि।
श्री-व्यासाचार्येभ्यो नमः, अमृतं महानैवेद्यं पानीयं च निवेदयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, मङ्गलनीराजनं दर्शयामि।
श्री-व्यासाचार्येभ्यो नमः, प्रदक्षिणनमस्कारान् समर्पयामि।
श्री-व्यासाचार्येभ्यो नमः, प्रार्थनाः समर्पयामि।
जयति पराशरसूनुः
सत्यवतीहृदयनन्दनो व्यासः।
यस्याऽऽस्यकमलगलितं
वाङ्मयममृतं जगत् पिबति॥
व्यास-पूजा-चक्र-देवता-स्मरणम्
कृष्णाय शुद्धचैतन्याय नमः
वासुदेवाय नमः
सङ्कर्षणाय नमः
प्रद्युम्नाय नमः
अनिरुद्धाय नमः
ब्रह्मणे नमः
सरस्वत्यै नमः
सनकाय नमः
सनन्दनाय नमः
सनातनाय नमः
सनत्कुमाराय नमः
सनत्सुजाताय नमः
नारदाय नमः
वेदव्यासाय नमः
शुकाय नमः
पैलाय नमः
वैशम्पायनाय नमः
जैमिनये नमः
सुमन्तवे नमः
द्रविडाचार्येभ्यो नमः
गौडपादाचार्येभ्यो नमः
गोविन्दभगवत्पादाचार्येभ्यो नमः
शङ्कराचार्येभ्यो नमः
पद्मपादाचार्येभ्यो नमः
सुरेश्वराचार्येभ्यो नमः
हस्तामलकाचार्येभ्यो नमः
तोटकाचार्येभ्यो नमः
संक्षेपकाचार्येभ्यो नमः
विवरणाचार्येभ्यो नमः
परात्परगुरुभ्यो नमः
परमेष्ठिगुरुभ्यो नमः
परमगुरुभ्यो नमः
गुरुभ्यो नमः
अन्येभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्य आचार्येभ्यो नमः
निगमानपि योऽन्वशाच्चतुर्धा
व्यधिताष्टादशधाऽपि यः पुराणम्।
स च सात्यवतेय ईप्सितं मे
सकलाम्नायशिरोगुरुर्विधत्ताम्॥१॥
शङ्करं शङ्कराचार्यं केशवं बादरायणम्।
सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥२॥
व्यासाष्टकम्
नमो ज्ञानानलशिखापुञ्जपिङ्गजटाभृते।
कृष्णायाकृष्णमहसे कृष्णद्वैपायनाय ते॥१॥
नमस्तेजोमयश्मश्रुप्रभाशबलितत्विषे।
वक्त्रवागीश्वरीपद्मरजसेवोदितश्रिये॥२॥
नमः सन्ध्यासमाधाननिष्पीतरवितेजसे।
त्रैलोक्यतिमिरोच्छेददीपप्रतिमचक्षुषे॥३॥
नमः सहस्रशाखाय धर्मोपवनशाखिने।
सत्त्वप्रतिष्ठापुष्पाय निर्वाणफलशालिने॥४॥
नमः कृष्णाजिनजुषे बोधनन्दनवासिने।
व्याप्तायेवालिजालेन पुण्यसौरभलिप्सया॥५॥
नमः शशिकलाकारब्रह्मसूत्रांशुशोभिने।
श्रिताय हंसकान्त्येव सम्पर्कात् कमलौकसः॥६॥
नमो विद्यानदीपूर्णशास्त्राब्धिसकलेन्दवे।
पीयूषरससाराय कविव्यापारवेधसे॥७॥
नमः सत्यनिवासाय स्वविकाशविलासिने।
व्यासाय धाम्ने तपसां संसारायासहारिणे॥८॥
॥इति काश्मीरिकेण क्षेमेन्द्रकविना कृतायां भारतमञ्जर्याम् उपसंहारे पठितं व्यासाष्टकं सम्पूर्णम्॥
श्रीकाञ्चीकामकोटिपीठजगद्गुरुपरम्परास्तवः
(पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः)
नारायणं पद्मभुवं वसिष्ठं
शक्तिं च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपदं महान्तं
गोविन्दयोगीन्द्रमथास्य शिष्यम्॥१॥
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम्।
तं तोटकं वार्तिककारमन्यान् अस्मद्गुरून् सन्ततमानतोऽस्मि॥२॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥३॥
सर्वतन्त्रस्वतन्त्राय सदाऽऽत्माद्वैतवेदिने।
श्रीमते शङ्करार्याय वेदान्तगुरवे नमः॥४॥
अविप्लुतब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन्।
आत्तमिथ्यावारपथान् अद्वैताचार्यसङ्कथान्॥५॥
आसेतुहिमवच्छैलं सदाचारप्रवर्तकान्।
जगद्गुरून् स्तुमः काञ्चीशारदामठसंश्रयान्॥६॥
पवित्रितेतराद्वैतमठपीठीशिरोभुवे।
श्रीकाञ्चीशारदापीठगुरवे भवभीरवे॥७॥
वार्तिकादिब्रह्मविद्याकर्त्रे ब्रह्मावतारिणे।
सुरेश्वराचार्यनाम्ने योगीन्द्राय नमो नमः॥८॥
अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषमाच्छिनत्।
शिशुमाचार्यवाग्वेणीरयरोधिमहोबलम्॥९॥
सङ्क्षेपशारीरमुखप्रबन्धविवृताद्वयम्।
ब्रह्मस्वरूपार्यभाष्यशान्त्याचार्यकपण्डितम्॥१०॥
सर्वज्ञचन्द्रनाम्ना च सर्वतो भुवि विश्रुतम्।
सर्वज्ञसद्गुरुं वन्दे सर्वज्ञमिव भूगतम्॥११॥
मेधाविनं सत्यबोधं व्याधूतविमतोच्चयम्।
प्राच्यभाष्यत्रयव्याख्याप्रवीणं प्रभुमाश्रये॥१२॥
ज्ञानानन्दमुनीन्द्रार्यं ज्ञानोत्तमपराभिधम्।
चन्द्रचूडपदासक्तं चन्द्रिकाकृतमाश्रये॥१३॥
शुद्धानन्दमुनीन्द्राणां विद्धार्हतमतत्विषाम्।
आनन्दज्ञानसेव्यानाम् आलम्बे चरणाम्बुजम्॥१४॥
सर्वशाङ्करभाष्यौघभाष्यकर्तारमद्वयम्।
सर्ववार्तिकसद्वृत्तिकृतं श्रीशैलगं भजे॥१५॥
कैवल्यानन्दयोगीन्द्रान् केवलं राजयोगिनः।
कैवल्यमात्रनिरतान् कलयेम जगद्गुरून्॥१६॥
श्रीकृपाशङ्करार्याणां मर्यादातीततेजसाम्।
षण्मताचार्यकजुषाम् अङ्घ्रिद्वन्द्वमहं श्रये॥१७॥
महिष्ठाय नमस्तस्मै महादेवाय योगिने।
सुरेश्वरापराख्याय गुरवे दोषभीरवे॥१८॥
स्तुमः सदा शिवानन्दचिद्घनेन्द्रसरस्वतीन्।
कामाक्षीचन्द्रमौल्यर्चाकलनैकलसन्मतीन्॥१९॥
सार्वभौमाभिधमहाव्रतचर्यापरायणान्।
वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्रसरस्वतीन्॥२०॥
समाद्वात्रिंशदत्युग्रकाष्ठमौनसमाश्रयान्।
जितमृत्यून् महालिङ्गभूतान् सच्चिद्घनान् नुमः॥२१॥
महाभैरवदुस्तन्त्रदुर्दान्तध्वान्तभास्करान्।
विद्याघनान् नमस्यामि सर्वविद्याविचक्षणान्॥२२॥
आचार्यपदपाथोजपरिचर्यापरायणम्।
गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम्॥२३॥
जगज्जयिसुसौराष्ट्रजरदृष्टिमदापहान्।
शकसिल्हकदर्पघ्नान् ईडीमहि महायतीन्॥२४॥
चतुस्समुद्रीक्रोडस्थवर्णाश्रमविचारकान्।
श्रितविप्रव्रजस्कन्धसुवर्णान्दोलिकाचरान्॥२५॥
प्रत्यहं ब्रह्मसाहस्रसन्तर्पणधृतव्रतान्।
सदाशिवसमाह्वानान् स्मरामः सद्गुरून् सदा॥२६॥
मायालोकायतीभूतबृहस्पतिमदापहान्।
वन्दे सुरेन्द्रवन्द्याङ्घ्रीन् श्रीसुरेन्द्रसरस्वतीन्॥२७॥
श्रीविद्याकरुणालब्धब्रह्मविद्याहृतामयान्।
वन्दे वशंवदप्राणान् मुनीन् विद्याघनान् मुहुः॥२८॥
विद्याघनकृपालब्धसर्ववेदान्तविस्तरम्।
कौतस्कुतोत्पातकेतुं निश्शङ्कं नौमि शङ्करम्॥२९॥
चन्द्रचूडपदध्यानप्राप्तानन्दमहोदधीन्।
यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा॥३०॥
नमामि परिपूर्णश्रीबोधान् ग्रावाभिलापकान्।
यदीक्षणात् पलायन्त प्राणिनामामयाधयः॥३१॥
सच्चित्सुखान् प्रपद्येऽहं सुखम् आप्तगुहास्थितीन्।
चित्सुखाचार्यमीडेऽहं सत्सुखं कोङ्कणाश्रयम्॥३२॥
भजे श्रीसच्चिदानन्दघनेन्द्रान् रससाधनात्।
लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते॥३३॥
भगवत्पादपादाब्जासक्तिनिर्णिक्तमानसान्।
प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम्॥३४॥
पूर्णबोधं च बोधं च भक्तियोगप्रवर्तकम्।
ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः॥३५॥
चिदानन्दघनेन्द्राणां लम्बिकायोगसेविनाम्।
जीर्णपर्णाशिनां पादौ प्रपद्ये मनसा सदा॥३६॥
सच्चिदानन्दनामानं शिवार्चनपरायणम्।
भाषापञ्चदशीप्राज्ञं भावयामि सदा मुदा॥३७॥
भूप्रदक्षिणकर्मैकसक्तं श्रीचन्द्रशेखरम्।
त्रातदावाग्निसन्दग्धकिशोरकमुपास्महे॥३८॥
चित्सुखेन्द्रं सुखेनैव क्रान्तसह्यगुहागृहम्।
कामरूपचरं नानारूपवन्तमुपास्महे॥३९॥
निर्दोषसंयमधरान् चित्सुखानन्दतापसान्।
विद्याघनेन्द्रान् श्रीविद्यावशीकृतजनान् स्तुमः॥४०॥
शङ्करेन्द्रयतीन्द्राणां पादुके ब्रह्मसम्भृते।
नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः॥४१॥
सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रमुज्ज्वलम्।
गङ्गाधरेन्द्रमप्येतान् नौमि वादिशिरोमणीन्॥४२॥
ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि।
पूर्णबोधमहर्षींश्च ज्ञाननिष्ठानुपास्महे॥४३॥
वृत्त्याऽऽजगर्या श्रीशैलगुहागृहकृतस्थितीन्।
श्रीमत्परशिवाभिख्यान् सर्वातीतान् श्रये सदा॥४४॥
अन्योन्यसदृशान्योन्यौ बोधश्रीचन्द्रशेखरौ।
प्रणवोपासनासक्तमानसौ मनसा श्रये॥४५॥
मुक्तिलिङ्गार्चनानन्दविस्मृताशेषवृत्तये।
चिदम्बररहस्यन्तर्लीनदेहाय योगिने॥४६॥
अद्वैतानन्दसाम्राज्यविद्रुताशेषपाप्मने।
अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे॥४७॥
श्रये महादेवचन्द्रशेखरेन्द्रमहामुनी।
महाव्रतसमारब्धकोटिहोमान्तगामिनौ॥४८॥
विद्यातीर्थसमाह्वानान् श्रीविद्यानाथयोगिनः।
विद्यया शङ्करप्रख्यान् विद्यारण्यगुरून् भजे॥४९॥
सच्चिद्घनेन्द्रान् अद्वैतब्रह्मानन्दमुनीनपि।
सान्द्रानन्दयतीन्द्रांश्च तथाप्यद्वैतशेवधीन्॥५०॥
महादेवशिवाद्वैतसुखानन्दयतीश्वरौ।
मनसा भावये नित्यं महासंयमधारिणौ॥५१॥
वीक्षणात् सर्वभूतानां विषव्याधिनिबर्हणम्।
शिवयोगीश्वरं साक्षाच्चिन्तयामि सदा मुदा॥५२॥
प्रत्यग्ज्योतिःप्रकाशेन्द्रान् प्रत्यग्ज्योतिरुपासिनः।
न्यक्कृताशेषदुस्तर्ककार्कश्यान् सततं स्तुमः॥५३॥
शङ्करानन्दयोगीन्द्रपदपङ्कजयोर्युगम्।
बुक्कभूपशिरोरत्नं स्मरामि सततं हृदा॥५४॥
श्रीपूर्णानन्दमौनीन्द्रं नेपालनृपदेशिकम्।
अव्याहतस्वसञ्चारं संश्रयामि जगद्गुरुम्॥५५॥
महादेवश्च तच्छिष्यश्चन्द्रशेखरयोग्यपि।
स्तां मे हृदि सदा धीरावद्वैतमतदेशिकौ॥५६॥
प्रवीरसेतुभूपालसेविताङ्घ्रिसरोरुहान्।
भजे सदाशिवेन्द्रश्रीबोधेश्वरगुरून् सदा॥५७॥
सदाशिवश्रीब्रह्मेन्द्रधृतस्वपदपादुकान्।
धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि॥५८॥
आत्मबोधयतीन्द्राणाम् आशीताचलचारिणाम्।
अन्यश्रीशङ्कराचार्यधीकृतामङ्घ्रिमाश्रये॥५९॥
भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहान्।
श्रीमद् बोधेन्द्रयोगीन्द्रदेशिकेन्द्रानुपास्महे॥६०॥
अद्वैतात्मप्रकाशाय सर्वशास्त्रार्थवेदिने।
विधूतसर्वभेदाय नमो विश्वातिशायिने॥६१॥
आ सप्तमाज्जीर्णपर्णजलवातारुणांशुभिः।
कृतस्वप्राणयात्राय महादेवाय सन्नतिः॥६२॥
चोलकेरलचेरौड्रपाण्ड्यकर्णाटकोङ्कणान्।
महाराष्ट्रान्ध्रसौराष्ट्रमगधादींश्च भूभुजः॥६३॥
शिष्यान् आसेतुशीताद्रि शासते पुण्यकर्मणे।
श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः॥६४॥
निष्पापवृत्तये नित्यनिर्धूतभवकॢप्तये।
महादेवाय सततं नमोऽस्तु नतरक्षिणे॥६५॥
श्रीविद्योपासनादार्ढ्यवशीकृतचराचरान्।
श्रीचन्द्रशेखरेन्द्रार्यान् शङ्करप्रतिमान् नुमः॥६६॥
श्रीकाञ्चीशारदापीठसंस्थितानाम् इमां क्रमात्।
स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग् भवेत्॥६७॥
॥परिशिष्टम् - १॥
(अत्र १-४ पद्यानि पोलहग्रामाभिजनैः श्रीरामशास्त्रिभिः प्रकाशितानि। ५ पद्यं नवषष्टितमैः पीठाधिपतिभिः श्रीमज्जयेन्द्रसरस्वतीश्रीपादैः रचितम्। ६-७ पद्ये शिमिलिग्रामाभिजनैः राधाकृष्णशास्त्रिभिः विरचिते।)
कलानन्दपरब्रह्मानन्दानुभवतुन्दिलान्।
महादेवेन्द्रयमिनः सततं संश्रये हृदा॥६८॥
प्रतिदिनविहितश्रीचन्द्रमौलीश्वरार्चा-
प्रसितसकलदेहः प्रौढपुण्यानुभावः।
मनसि सततमास्तां श्रीमहादेवनामा
मम गुरुरितकाञ्चीशारदापीठसीमा॥६९॥
अतिबाल्यविधृतसंयमविमलमनःसेवितेशचरणयुगान्।
श्रीचन्द्रशेखरेन्द्रान् साम्प्रतमाचार्यशेखरान् प्रणुमः॥७०॥
लक्ष्मीनारायण इति पूर्वाश्रमनामभूषितं शान्तम्।
ऋग्वेदे सम्यगधीतिनं महादेवमाश्रयामि गुरुम्॥७१॥
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम्।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम्॥७२॥
परित्यज्य मौनं वटाधःस्थितिं च
व्रजन् भारतस्य प्रदेशात् प्रदेशम्।
मधुस्यन्दिवाचा जनान् धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते॥७३॥
नमामः शङ्करान्वाख्यविजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥७४॥
देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम्।
बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम्॥
नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम्।
श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम्॥
सत्यनारायणक्षेत्रात् सत्यव्रतमुपागतम्।
आश्रये कामकोटीशं सत्यश्रीचन्द्रशेखरम्॥
जय जय शङ्कर हर हर शङ्कर
जय जय शङ्कर हर हर शङ्कर।
काञ्चीशङ्कर कामकोटिशङ्कर
हर हर शङ्कर जय जय शङ्कर॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
अनेन पूजनेन श्री-व्यासाचार्याः प्रीयन्ताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।
❀ ❀ ❀