श्री-उमा-महेश्वर-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्री-उमा-महेश्वर-पूजा
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे ( ) ( )-ऋतौ ( )-मासे (शुक्ल / कृष्ण)पक्षे ( ) शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
( ) शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-उमामहेश्वर-प्रसादसिद्ध्यर्थं यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-उमामहेश्वरपूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
देवैर्वेदैश्च वेदान्तैः स्तूयमानात्मवैभवाम्।
ध्यायामि। ॐ उमामहेश्वराभ्यां नमः।
उमामहेश्वरौ इहागच्छतं इह तिष्ठतम्।
इदमासनम्। ॐ उमामहेश्वराभ्यां नमः।
हस्तयोः इदम् अर्घ्यम्। ॐ उमामहेश्वराभ्यां नमः।
पादयोः इदं पाद्यम्। ॐ उमामहेश्वराभ्यां नमः।
मुखे इदम् आचमनीयम्। ॐ उमामहेश्वराभ्यां नमः।
अयं मधुपर्कः। ॐ उमामहेश्वराभ्यां नमः।
इदं पञ्चामृतस्नानम्। ॐ उमामहेश्वराभ्यां नमः।
इदं शुद्धोदकस्नानम्। ॐ उमामहेश्वराभ्यां नमः।
इमे वस्त्रोपवस्त्रे। ॐ उमामहेश्वराभ्यां नमः।
इमे यज्ञोपवीते। ॐ उमामहेश्वराभ्यां नमः।
अयं गन्धः, ॐ उमामहेश्वराभ्यां नमः।
इदं आभूषणं ॐ उमामहेश्वराभ्यां नमः।
इमानि पुष्पाणि। ॐ उमामहेश्वराभ्यां नमः।
एतानि बिल्वपत्राणि ॐ उमामहेश्वराभ्यां नमः।
अर्धनारीश्वराष्टोत्तरशतनामावलिः
चामुण्डिकाम्बायै नमःश्रीकण्ठाय नमःपार्वत्यै नमःपरमेश्वराय नमःमहाराज्ञ्यै नमःमहादेवाय नमःसदाराध्यायै नमःसदाशिवाय नमःशिवार्धाङ्ग्यै नमःशिवार्धाङ्गाय नमः।१०भैरव्यै नमःकालभैरवाय नमःशक्तित्रितयरूपाढ्यायै नमःमूर्तित्रितयरूपवते नमःकामकोटिसुपीठस्थायै नमःकाशीक्षेत्रसमाश्रयाय नमःदाक्षायण्यै नमःदक्षवैरिणे नमःशूलिन्यै नमःशूलधारकाय नमः।२०ह्रीङ्कारपञ्जरशुक्यै नमःहरिशङ्कररूपवते नमःश्रीमद्गणेशजनन्यै नमःषडाननसुजन्मभुवे नमःपञ्चप्रेतासनारूढायै नमःपञ्चब्रह्मस्वरूपभृते नमःचण्डमुण्डशिरश्छेत्र्यै नमःजलन्धरशिरोहराय नमःसिंहवाहायै नमःवृषारूढाय नमः।३०श्यामाभायै नमःस्फटिकप्रभाय नमःमहिषासुरसंहर्त्र्यै नमःगजासुरविमर्दनाय नमःमहाबलाचलावासायै नमःमहाकैलासवासभुवे नमःभद्रकाल्यै नमःवीरभद्राय नमःमीनाक्ष्यै नमःसुन्दरेश्वराय नमः।४०भण्डासुरादिसंहर्त्र्यै नमःदुष्टान्धकविमर्दनाय नमःमधुकैटभसंहर्त्र्यै नमःमधुरापुरनायकाय नमःकालत्रयस्वरूपाढ्यायै नमःकार्यत्रयविधायकाय नमःगिरिजातायै नमःगिरीशाय नमःवैष्णव्यै नमःविष्णुवल्लभाय नमः।५०विशालाक्ष्यै नमःविश्वनाथाय नमःपुष्पास्त्रायै नमःविष्णुमार्गणाय नमःकौसुम्भवसनोपेतायै नमःव्याघ्रचर्माम्बरावृताय नमःमूलप्रकृतिरूपाढ्यायै नमःपरब्रह्मस्वरूपवते नमःरुण्डमालाविभूषाढ्यायै नमःलसद्रुद्राक्षमालिकाय नमः।६०मनोरूपेक्षुकोदण्डायै नमःमहामेरुधनुर्धराय नमःचन्द्रचूडायै नमःचन्द्रमौलये नमःमहामायायै नमःमहेश्वराय नमःमहाकाल्यै नमःमहाकालाय नमःदिव्यरूपायै नमःदिगम्बराय नमः।७०बिन्दुपीठसुखासीनायै नमःश्रीमदोङ्कारपीठगाय नमःहरिद्राकुङ्कुमालिप्तायै नमःभस्मोद्धूलितविग्रहाय नमःमहापद्माटवीलोलायै नमःमहाबिल्वाटवीप्रियाय नमःसुधामय्यै नमःविषधराय नमःमातङ्ग्यै नमःमकुटेश्वराय नमः।८०वेदवेद्यायै नमःवेदवाजिने नमःचक्रेश्यै नमःविष्णुचक्रदाय नमःजगन्मय्यै नमःजगद्रूपाय नमःमृडान्यै नमःमृत्युनाशनाय नमःरामार्चितपदाम्भोजायै नमःकृष्णपुत्रवरप्रदाय नमः।९०रमावाणीसुसंसेव्यायै नमःविष्णुब्रह्मसुसेविताय नमःसूर्यचन्द्राग्निनयनायै नमःतेजस्त्रयविलोचनाय नमःचिदग्निकुण्डसम्भूतायै नमःमहालिङ्गसमुद्भवाय नमःकम्बुकण्ठ्यै नमःकालकण्ठाय नमःवज्रेश्यै नमःवज्रिपूजिताय नमः।१००त्रिकण्टक्यै नमःत्रिभङ्गीशाय नमःभस्मरक्षायै नमःस्मरान्तकाय नमःहयग्रीववरोद्धात्र्यै नमःमार्कण्डेयवरप्रदाय नमःचिन्तामणिगृहावासायै नमःमन्दराचलमन्दिराय नमःविन्ध्याचलकृतावासायै नमःविन्ध्यशैलार्यपूजिताय नमः।११०मनोन्मन्यै नमःलिङ्गरूपाय नमःजगदम्बायै नमःजगत्पित्रे नमःयोगनिद्रायै नमःयोगगम्याय नमःभवान्यै नमःभवमूर्तिमते नमःश्रीचक्रात्मरथारूढायै नमःधरणीधरसंस्थिताय नमः।१२०श्रीविद्यावेद्यमहिमायै नमःनिगमागमसंश्रयाय नमःदशशीर्षसमायुक्तायै नमःपञ्चविंशतिशीर्षवते नमःअष्टादशभुजायुक्तायै नमःपञ्चाशत्करमण्डिताय नमःब्राह्म्यादिमातृकारूपायै नमःशताष्टेकादशात्मवते नमःस्थिरायै नमःस्थाणवे नमः।१३०बालायै नमःसद्योजाताय नमःउमायै नमःमृडाय नमःशिवायै नमःशिवाय नमःरुद्राण्यै नमःरुद्राय नमःईश्वर्यै नमःईश्वराय नमः।१४०कदम्बकाननावासायै नमःदारुकारण्यलोलुपाय नमःनवाक्षरीमनुस्तुत्यायै नमःपञ्चाक्षरमनुप्रियाय नमःनवावरणसम्पूज्यायै नमःपञ्चायतनपूजिताय नमःदेहस्थषट्चक्रदेव्यै नमःदहराकाशमध्यगाय नमःयोगिनीगणसंसेव्यायै नमःभृग्वादिप्रमथावृताय नमः।१५०उग्रतारायै नमःअघोररूपाय नमःशर्वाण्यै नमःशर्वमूर्तिमते नमःनागवेण्यै नमःनागभूषाय नमःमन्त्रिण्यै नमःमन्त्रदैवताय नमःज्वलज्जिह्वायै नमःज्वलन्नेत्राय नमः।१६०दण्डनाथायै नमःदृगायुधाय नमःपार्थाञ्जनास्त्रसन्दात्र्यै नमःपार्थपाशुपतास्त्रदाय नमःपुष्पवच्चक्रताटङ्कायै नमःफणिराजसुकुण्डलाय नमःबाणपुत्रीवरोद्धात्र्यै नमःबाणासुरवरप्रदाय नमःव्यालकञ्चुकसंवीतायै नमःव्यालयज्ञोपवीतवते नमः।१७०नवलावण्यरूपाढ्यायै नमःनवयौवनविग्रहाय नमःनाट्यप्रियायै नमःनाट्यमूर्तये नमःत्रिसन्ध्यायै नमःत्रिपुरान्तकाय नमःतन्त्रोपचारसुप्रीतायै नमःतन्त्रादिमविधायकाय नमःनववल्लीष्टवरदायै नमःनववीरसुजन्मभुवे नमः।१८०भ्रमरज्यायै नमःवासुकिज्याय नमःभेरुण्डायै नमःभीमपूजिताय नमःनिशुम्भशुम्भदमन्यै नमःनीचापस्मारमर्दनाय नमःसहस्राराम्बुजारूढायै नमःसहस्रकमलार्चिताय नमःगङ्गासहोदर्यै नमःगङ्गाधराय नमः।१९०गौर्यै नमःत्रिलोचनाय नमःश्रीशैलभ्रमराम्बाख्यायै नमःमल्लिकार्जुनपूजिताय नमःभवतापप्रशमन्यै नमःभवरोगनिवारकाय नमःचन्द्रमण्डलमध्यस्थायै नमःमुनिमानसहंसकाय नमःप्रत्यङ्गिरायै नमःप्रसन्नात्मने नमः।२००कामेश्यै नमःकामरूपवते नमःस्वयम्प्रभायै नमःस्वप्रकाशाय नमःकालरात्र्यै नमःकृतान्तहृते नमःसदान्नपूर्णायै नमःभिक्षाटाय नमःवनदुर्गायै नमःवसुप्रदाय नमः।२१०सर्वचैतन्यरूपाढ्यायै नमःसच्चिदानन्दविग्रहाय नमःसर्वमङ्गलरूपाढ्यायै नमःसर्वकल्याणदायकाय नमःराजराजेश्वर्यै नमःश्रीमद्राजराजप्रियङ्कराय नमः२१६
॥इति श्री-स्कन्दपुराणे श्री-अर्धनारीश्वराष्टोत्तरशतनामावलिः सम्पूर्णा॥
अयं धूपः। ॐ उमामहेश्वराभ्यां नमः।
एष दीपः ॐ उमामहेश्वराभ्यां नमः।
एतानि नानाविध-नैवेद्यानि ॐ उमामहेश्वराभ्यां नमः।
इदं आचमनीयं ॐ उमामहेश्वराभ्यां नमः।
इदं नीराजनं ॐ उमामहेश्वराभ्यां नमः।
इदं ताम्बूलम्। ॐ उमामहेश्वराभ्यां नमः।
इदं छत्रं, इदं चामरं, इदं व्यजनम्, इदं दर्पणः। ॐ उमामहेश्वराभ्यां नमः।
अनया पूजया भगवान् उमामहेश्वरः प्रीयताम्॥
श्री-उमामहेश्वराष्टकम्
इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतम् उमामहेश्वराष्टकं सम्पूर्णम्।