श्री-उमा-महेश्वर-पूजा

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

प्रधान-पूजा — श्री-उमा-महेश्वर-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे ( ) ( )-ऋतौ ( )-मासे (शुक्ल / कृष्ण)पक्षे ( ) शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
( ) शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-उमामहेश्वर-प्रसादसिद्ध्यर्थं यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-उमामहेश्वरपूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

षोडशोपचार-पूजा

मुक्तामालापरीताङ्गं दुकूलपरिवेष्टितम्।
पञ्चाननमुमाकान्तमनन्तेन्दुरविप्रभम्॥
चन्द्रार्धशेखरं नित्यं जटामकुटमण्डितम्।
त्रिपुण्ड्ररेखाविलसद्भालभागमनामयम्॥
भस्मोद्धूलितसर्वाङ्गं रुद्राक्षाभरणान्वितम्।
मन्दस्मितमुखाम्भोजमाधारं जगतां प्रभुम्॥
वेदैरनन्तैरनिशं स्तूयमानमनेकधा।
वेदात्मकं वेदवेद्यं विष्णुब्रह्मादिवन्दितम्॥
विष्णुनेत्रार्चितं भक्तकल्पद्रुममुमापतिम्।
अप्रतिद्वन्द्वमद्वन्द्वं सर्ववृन्दारकार्चितम्॥
सर्वोत्तममनाद्यन्तं सर्वदेवनिषेवितम्।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम्॥
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं चिदात्मकम्।
निष्कलं निर्गुणं शान्तं निरवद्यं निरञ्जनम्॥
अप्रमेयं जगज्जन्मस्थितिसंहारकारणम्।
विश्वबाहुं विश्वपादं विश्वाक्षं विश्वशम्भुवम्॥
विश्वं नारायणाराध्यमक्षरं परमं पदम्।
विश्वतः परमं नित्यं विश्वस्येशमनामयम्॥
लक्ष्मीसेवितपादाब्जां शचीसेवितपादुकाम्।
सरस्वत्यादिभिर्नित्यं स्तूयमानपदाम्बुजाम्॥
अधरोष्ठाधरीभूतपक्वबिम्बफलामिमाम्।
मुखकान्तिकलोद्धूतपूर्णचन्द्रां शिवात्मिकाम्॥
तिरस्कृतालिमालां तामलकावलिभिः सदा।
पीनवक्षोजनिर्धूतचक्रवाकवराङ्गनाम्॥
नित्यां तिरस्कृताम्भोजनयनां विश्वमातरम्।
सीमन्तधिक्कृताशेषकामभल्लामहर्निशम्॥
भ्रुकुटीनिर्जितानङ्गचापां भक्तजनेष्टदाम्।
बाहुनालप्रभोद्धतहेमनालां विलासिनीम्॥
रोमराजितिरोभूतसम्भ्रमभ्रमरावलिम्।
नाभिरन्ध्रतिरोभूतघनावर्तोमिवर्तुलाम्॥
उत्तमोरुतिरोभूतरम्भास्तम्भां शुभावहाम्।
पादयुग्मप्रभापूरनिर्जितारुणपङ्कजाम्॥
ब्रह्मेन्द्रोपेन्द्रजननीं महेशार्धाङ्गभागिनीम्।
महेशाश्लिष्टवामाङ्गां वरदाभयदां सदा॥
प्रसन्नवदनाम्भोजां स्मितपूर्वाभिभाषिणीम्।
सर्वशृङ्गारवेषाढ्यां नानाभरणभूषिताम्॥

देवैर्वेदैश्च वेदान्तैः स्तूयमानात्मवैभवाम्।
ध्यायामि। ॐ उमामहेश्वराभ्यां नमः।

महादेव कृपासिन्धो विश्ववन्द्यपदाम्बुज।
आवाहयामि देवेश प्रसीद परमेश्वर॥
लक्ष्म्यादिदेववनितापरिषेवितपादुके।
आवाहयामि देवेशि प्रसीद परमेश्वरि॥

उमामहेश्वरौ इहागच्छतं इह तिष्ठतम्।

गृहाण सोम विश्वात्मन्नासनं रत्ननिर्मितम्।
अनन्तासन विश्वेश करुणासागर प्रभो॥
उमे सोमसमाश्लिष्टे सोमार्धकृतशेखरे।
नानारत्नसमाकीर्णमासनं प्रतिगृह्यताम्॥

इदमासनम्। ॐ उमामहेश्वराभ्यां नमः।

अर्घ्यं गृहाण देवेश सपुष्पं गन्धसंयुतम्।
शिवानन्तगुणग्राम सर्वाभीष्टप्रदायक॥
गृहाणार्घ्यं शिवे नित्यं सर्वावयवशोभिनि।
शिवप्रिये शिवाकारे नित्यं भक्तवरप्रदे॥

हस्तयोः इदम् अर्घ्यम्। ॐ उमामहेश्वराभ्यां नमः।

पाद्यं गृहाण गौरीश हेमपात्रस्थितं नवम्।
गृहाण देवि पाद्यं त्वं वेदवेदान्तसंस्तुते॥

पादयोः इदं पाद्यम्। ॐ उमामहेश्वराभ्यां नमः।

गृहाणाचमनं शम्भो कल्पितं निर्मल प्रभो।
निर्मले निर्मलाकारे गृहाणाचमनीयकम्॥

मुखे इदम् आचमनीयम्। ॐ उमामहेश्वराभ्यां नमः।

मधुपर्कं गृहाणेश सच्चिदानन्दविग्रह।
मधुपर्कप्रदानेन प्रीतो भव महेश्वर॥
मधुपर्कमिदं देवि स्वीकुरु प्रियशङ्करे।
मधुपर्कप्रदानेन प्रीता भव सुशोभने॥

अयं मधुपर्कः। ॐ उमामहेश्वराभ्यां नमः।

शिव शम्भोऽमृतस्नानं स्वीकुरुष्व कृपानिधे।
सर्वतीर्थमयस्वामिन् सर्वपावनपावन॥
शिवे पञ्चामृतस्नानं स्वीकृरुष्व शिवप्रिये।
सृष्टतीर्थोत्तमे शुद्धे तीर्थराजनिषेविते॥

इदं पञ्चामृतस्नानम्। ॐ उमामहेश्वराभ्यां नमः।

शम्भो शुद्धोदकस्नानं स्वीकुरुष्व सुरोत्तम।
प्रसीद कृपया भक्तं पाहि मां पार्वतीपते॥
शिवे शुद्धोदकस्नानं गृह्यतां मीनलोचने।
प्रसीद देवि दीनं त्वं पाहि मां शरणागतम्॥

इदं शुद्धोदकस्नानम्। ॐ उमामहेश्वराभ्यां नमः।

सोत्तरींयं सङ्गृहाण दुकूलमिदमुत्तमम्।
पाहि पाहि कृपासिन्धो करुणावरुणालय॥
सोत्तरीयं गृहाणेदं दुकूलं शङ्करप्रिये।
प्रसीद पाहि मां दीनमनन्यशरणं शिवे॥

इमे वस्त्रोपवस्त्रे। ॐ उमामहेश्वराभ्यां नमः।

उपवीतं गृहाणेश शम्भो चन्द्रार्धशेखर।
गृह्यतामुपवीतं यन्नवतन्तुविनिर्मितम्॥

इमे यज्ञोपवीते। ॐ उमामहेश्वराभ्यां नमः।

प्रसीद पार्वतीनाथ शरणागतवत्सल।
गृहाण चन्दनं देवि कस्तूरीकुङ्कुमाञ्चितम्॥
देवि देवाधिदेवेशि यथाशक्त्युपकल्पितम्।
गृहाण चन्दनं देव नानागन्धोपकल्पितम्॥

अयं गन्धः, ॐ उमामहेश्वराभ्यां नमः।

विश्वाभरण विश्वेश रत्नाभरणभूषित।
गृहाणाभरणानीश निरीश निगमाश्रय॥
विश्वं विश्वात्मिके पाहि विश्वनाथप्रिये सदा।
गृहाणाभरणान्यम्ब सर्वाभरणभूषिते॥

इदं आभूषणं ॐ उमामहेश्वराभ्यां नमः।

सर्वप्रिये जगद्वन्द्ये जगदानन्ददे शिवे।
गृहाण बिल्वपत्राणि पुष्पाणि च महेश्वर॥

इमानि पुष्पाणि। ॐ उमामहेश्वराभ्यां नमः।

सुगन्धीनि नवानीश सबिल्वकुसुमप्रिय।
गृहाण बिल्वपत्राणि नूतनानि शिवप्रिये॥

एतानि बिल्वपत्राणि ॐ उमामहेश्वराभ्यां नमः।

नागपुन्नागमन्दारमालिकासमलङ्कृते।
दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम्॥
गृहाण पार्वतीनाथ घ्राणतर्पणमादरात्।
दशाङ्गं गुग्गुलुं धूपं सगोघृतमनुत्तमम्॥

अयं धूपः। ॐ उमामहेश्वराभ्यां नमः।

गृहाण भक्तवरदे लक्ष्मीवाण्यादिसेविते।
साज्यं त्रिवर्तिविस्फूर्जद्दीपं शिव शिवापते॥
गृहाणानन्तसूर्याग्निचन्द्रप्रभ नमोऽस्तु ते।
साज्यं त्रिवर्तिविस्पूर्जद्दीपमीशानवल्लभे॥

एष दीपः ॐ उमामहेश्वराभ्यां नमः।

गृहाण चन्द्रसूर्याग्निमण्डलाधिकसुप्रभे।
शम्भो गोघृतसंयुक्तं परमान्नं मनोहरम्॥
सशर्करं गृहाणेश नित्यतृप्त महेश्वर।
शिवे गोवृतसंयुक्तं परमान्नं मनोहरम्॥

एतानि नानाविध-नैवेद्यानि ॐ उमामहेश्वराभ्यां नमः।

सशर्करं गृहाणाम्ब परमान्नप्रदायिनि।
शम्भो गृहाण गन्धाढ्यमिदमाचमनीयकम्॥
शुद्धे शुद्धिप्रदे देवि शिववामाङ्गरूपिणि।
शिवे गृहाण गन्धाढ्यमिदमाचमनीयकम्॥

इदं आचमनीयं ॐ उमामहेश्वराभ्यां नमः।

नीराजनं गृहाणेश बहुदीपविरजितम्।
स्वप्रकाश प्रकाशात्मन्प्रकाशितदिगन्तर॥
नीराजनं गृहाणाम्ब सूर्यचन्द्राग्निलोचने।
प्रभापूरित सर्वाङ्गे मङ्गले मङ्गलास्पदे॥

इदं नीराजनं ॐ उमामहेश्वराभ्यां नमः।

शम्भो गृहाण ताम्बूलमेलाकर्पूरसंयुतम्।
प्रसीद भगवन् शम्भो सर्वज्ञामितविक्रम॥
शिवे गृहाण ताम्बूलमेलाकर्पूरसंयुतम्।
प्रसीद सस्मिते देवि शिवालिङ्गितविग्रहे॥

इदं ताम्बूलम्। ॐ उमामहेश्वराभ्यां नमः।

गृहाण परमेशान सरत्ने छत्रचामरे।
दर्पणं व्यजनं चेश सर्वदुःखविनाशक॥
गृहाणेमे सुराराध्ये सरत्ने छत्रचामरे।
दर्पणं व्यजनं चाद्ये विद्याधारे नमोऽस्तु ते॥

इदं छत्रं, इदं चामरं, इदं व्यजनम्, इदं दर्पणः। ॐ उमामहेश्वराभ्यां नमः।

प्रदक्षिणनमस्कारान्गृहाण परमेश्वर।
नर्तनं च महादेव नाट्यप्रिय नमोऽस्तु ते॥
प्रदक्षिणनमस्कारान्गृहाण परमेश्वरि।
नर्तनं च महादेवि शिवनाट्यम्प्रिये शिवे॥

अनया पूजया भगवान् उमामहेश्वरः प्रीयताम्॥

श्री-उमामहेश्वराष्टकम्

पितामहशिरच्छेदप्रवीणकरपल्लव।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर॥
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि॥
शैलराजस्य जामातः शशिरेखावतंसक।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर॥
शैलराजात्मजे मातः शातकुम्भनिभप्रभे।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि॥
भूतनाथपुराराते भुजङ्गकृतभूषण।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर॥
पादप्रणतभक्तानां पारिजातगुणाधिके।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि॥
हालास्येश दयामूर्त्ते हालाहललसद्गल।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर॥
नितम्बिनि महेशस्य कदम्बवननायिके।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि॥

इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतम् उमामहेश्वराष्टकं सम्पूर्णम्।

❀ ❀ ❀