श्री-सूर्य-पूजा

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

प्रधान-पूजा — श्री-सूर्य-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे ( ) ( )-ऋतौ ( )-मासे (शुक्ल / कृष्ण)पक्षे ( ) शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
( ) शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रसाद-सिद्ध्यर्थं श्री-सूर्यनारायण-प्रसादेन अरोगदृढगात्रता-सिद्ध्यर्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रीत्यर्थं ( )-पुण्यकाले कल्पोक्त-प्रकारेण यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

षोडशोपचार-पूजा

सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवं
ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं प्रभुम्।
इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं
विष्णुब्रह्मशिवस्वरूपहृदयं वन्दे सदा भास्करम्॥
ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोऽमलं भास्करं
भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम्।
आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं
भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम्॥
द्विभुजं पद्महस्तं च वरदं मकुटान्वितम्।
ध्यायेद् दिवाकरं देवं सर्वाभीष्टप्रदायकम्॥

अस्मिन् बिम्बे/कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणं ध्यायामि।

आवाहयामि देवेड्यमाश्रिताभीष्टदायिनम्।
आदित्यमखिलाराध्यमार्तत्राणपरायणम्॥

अस्मिन् बिम्बे/कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणम् आवाहयामि।
आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। प्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद॥

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।
तावत् त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु॥

॥इति प्राणप्रतिष्ठा॥

आसनं संगृहाणेदं द्वादशात्मन् दिवाकर।
छायानायक लोकेश मया भक्त्या समर्पितम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आसनं समर्पयामि।

पाद्यं ददामि पद्मादिसुगन्धिकुसुमैर्युतम्।
पद्मबन्धो गृहाण त्वं प्रभाकर नमोऽस्तु ते॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पाद्यं समर्पयामि।

अर्घ्यं गृह्णीष्व भगवन् गन्धदूर्वादिमिश्रितम्।
अघनाशक देवेश हरिदश्व रवे मुदा॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अर्घ्यं समर्पयामि।

ददाम्याचमनं तुभ्यं चराचरविबोधक।
भक्त्याऽहं भास्करायाद्य जगद्ध्वान्तविनाशक॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आचमनीयं समर्पयामि।

मध्वाज्यदधिसंयुक्तं मधुपर्कं प्रभाकर।
लोकनाथ मया दत्तं गृहाण मुनिसेवित॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, मधुपर्कं समर्पयामि।

मध्वाज्यशर्करायुक्तं फलक्षीरसमन्वितम्।
पञ्चामृतं प्रदास्यामि सर्वलोकसुपूजित॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पञ्चामृतस्नानं समर्पयामि।

वेदात्मने नमस्तुभ्यं जगदानन्ददायिने।
नदीविमलतोयैस्त्वां स्नापयेऽहं विभावसो॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरं आचमनीयं समर्पयामि।

दिव्याम्बरयुगं सूक्ष्मं हेमसूत्रविराजितम्।
स्वीकुरुष्व नवं वस्त्रं दिवाकर मयाऽर्पितम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, वस्त्रम् समर्पयामि।

ब्रह्मविष्णुमहेशानवपुषे विश्वचक्षुषे।
साक्षिणे कर्मणां तुभ्यमुपवीतं ददाम्यहम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, उपवीतम् समर्पयामि।

गृह्णीष्व भूषणं पूषन् मुदा देवगणैर्नुत।
हारकुण्डलकेयूरकिरीटवलयादिकम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आभरणम् समर्पयामि।

श्रीगन्धं कुङ्कुमोपेतं कर्पूरेण समन्वितम्।
गृहाण करुणावार्धे लोकबन्धो दिवाकर॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।

प्राणिकर्मसाक्षिभूत भक्तानामभयप्रद।
अक्षतान् प्रतिगृह्णीष्व ग्रहाणामीश भास्कर॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अक्षतान् समर्पयामि।

पङ्केरुहप्रियं पुष्पैर्मल्लिकावकुलादिभिः।
सेवन्तिकापारिजातैः पूजयामि मुदा रविम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पुष्पाणि समर्पयामि।

अङ्ग-पूजा

१.पावनाय नमःपादौ पूजयामि
२.ग्रहपतये नमःगुल्फौ पूजयामि
३.जगदानन्दनाय नमःजानुनी पूजयामि
४.सूर्याय नमःऊरू पूजयामि
५.कर्मसाक्षिणे नमःकटिं पूजयामि
६.छायानाथाय नमःनाभिं पूजयामि
७.अरुणसारथये नमःउदरं पूजयामि
८.विश्वचक्षुषे नमःवक्षः पूजयामि
९.अहस्कराय नमःहस्तौ पूजयामि
१०.कालात्मने नमःकण्ठं पूजयामि
११.मार्ताण्डाय नमःमुखं पूजयामि
१२.लोकबन्धवे नमःकपोलौ पूजयामि
१३.पद्माक्षाय नमःअक्षिणी पूजयामि
१४.विकर्तनाय नमःकर्णौ पूजयामि
१५.मरीचिमालिने नमःललाटं पूजयामि
१६.सप्ताश्वाय नमःशिरः पूजयामि

अर्चना

१.मित्रायनमः
२.रवयेनमः
३.सूर्यायनमः
४.भानवेनमः
५.खगायनमः
६.पूष्णेनमः
७.हिरण्यगर्भायनमः
८.मरीचयेनमः
९.आदित्यायनमः
१०.सवित्रेनमः
११.अर्कायनमः
१२.भास्करायनमः

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

उत्तराङ्ग-पूजा

दशाङ्गवासितो धूपः सुगन्धः सुरसेवित।
गृह्यतामर्पितो भक्त्या मया सूर्य दिवाकर॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, धूपम् आघ्रापयामि।

साज्यवर्तिसमायुक्तमन्धकारनिवारक।
दीपं गृहाण घुमणे तेजोराशे गुणार्णव॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अलङ्कारदीपं सन्दर्शयामि।

नैवेद्यं षड्रसोपेतमिक्षुदण्डसमन्वितम्।
पायसान्नं च सम्प्रीत्या गृह्यतां ग्रहनायक॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, गुडान्नं मुद्गान्नं माषापूपानि इक्षुदण्डं हरिद्रागुच्छं नैवेद्यं निवेदयामि।
मध्ये मध्ये पानीयं समर्पयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्याम्॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, ताम्बूलं समर्पयामि।

कर्पूरखण्डकलितं नीराजनमिदं मुदा।
नभोमणे गृहाण त्वं गाढध्वान्तविनाशक॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।

नमो वेदस्वरूपाय भानवे कर्मसाक्षिणे।
पुष्पाञ्जलिं प्रदास्यामि भक्त्या तुभ्यं दिवाकर॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

यानि कानि च पापानि जन्मान्तरकृतानि च।
तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे॥

प्रदक्षिणं कृत्वा।

धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे॥
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः॥
नम उग्राय वीराय सारङ्गाय नमो नमः।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः॥
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम्।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्॥
ध्येयः सदा सवितृमण्डल-मध्यवर्ती
नारायणः सरसि-जासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥
शङ्ख-चक्र-गदापाणे द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्॥
आकाशात् पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति॥

श्री-केशवं प्रतिगच्छत्यों नम इति॥
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, नमस्कारान् समर्पयामि।

प्रार्थना

भानो भास्कर मार्तण्ड चण्डरश्मे दिवाकर।
आयुरारोग्यमैश्वर्यं श्रियं पुत्रांश्च देहि मे॥
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे॥
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः॥

प्रार्थनाः समर्पयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

आवाहनं न जानामि न जानामि विसर्जनम्।
पूजाविधिं न जानामि क्षमस्वारुणसारथे॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष दिवाकर॥

अर्घ्यम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

अद्य-पूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम् अस्याम् ( ) शुभतिथौ
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रीत्यर्थं श्रीसूर्य-नारायणपूजान्ते अर्घ्यप्रदानं करिष्ये।

नमो भगवते तुभ्यं नमस्ते जातवेदसे।
दत्तमर्घ्यं मया भानो गृहाण त्वं नमोऽस्तु ते॥१॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

एहि सूर्य सहस्रांशो तेजोमालिन् जगत्पते।
अनुकम्पय मां देव गृहाणार्ध्यं नमोऽस्तु ते॥२॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

पुनरर्घ्यं ददाम्यद्य भानवे लोकसाक्षिणे।
आदित्य जगदाधार सुप्रीतो मां समुद्धर॥३॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
अनेन अर्घ्यप्रदानेन श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणः सुप्रीतो वरदो भवतु॥
श्रीसूर्यनारायणस्वरूपस्य ब्राह्मणस्येदमासनम्। अमी ते गन्धाः। सकलाराधनैः स्वर्चितम्।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे॥

इदमुपायनं सदक्षिणाकं सताम्बूलं श्रीसूर्यनारायणप्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

अनया पूजया श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणः प्रीयताम्॥
ॐ तत्सद्ब्रह्मार्पणमस्तु॥

❀ ❀ ❀