स्तोत्रसंहिताStotraSamhita
Pūjā

श्री-सूर्य-नमस्कारः

Śrī-sūrya-namaskāraḥ

पूर्वाङ्ग-विघ्नेश्वर-पूजा

(आचम्य)

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]

अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥

अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

अर्चना

सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥

प्रार्थनाः समर्पयामि।

❀

प्रधान-पूजा — श्री-सूर्यनारायण-पूजा

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

सङ्कल्पः

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे / दक्षिणायने ( )-ऋतौ ( ) मासे
शुक्लपक्षे ( ) शुभतिथौ (इन्दु/भौम/बुध/गुरु/भृगु/स्थिर/भानु)-वासरयुक्तायाम्
( ) नक्षत्रयुक्तायां ( )-योग ( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम्
अस्याम् ( ) शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम्
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणप्रीत्यर्थं
श्री-सूर्यनारायण-प्रसाद-सिद्ध्यर्थं श्री-सूर्यनारायण-पूजा-पुरस्सरं तृचकल्पेन अरुणप्रश्नेन च श्री-सूर्यनमस्कारान् करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)

आसन-पूजा

पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥

घण्टा-पूजा

आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥

कलश-पूजा

कलशाय नमः दिव्यगन्धान् धारयामि।

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥

श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥

(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)

आत्म-पूजा

आत्मने नमः, दिव्यगन्धान् धारयामि।

१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः

समस्तोपचारान् समर्पयामि।

देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥

पीठ-पूजा

आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः

गुरु-ध्यानम्

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥

कुम्भे वरुण-सूर्य-नारायण-पूजा

ॐ। इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः॥
अस्मिन् कुम्भे सकल-तीर्थाधिपतिं वरुणं ध्यायामि। वरुणमावाहयामि।
वरुणाय नमः। आसनं समर्पयामि।
पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।
वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥
वरुणाय नमः समस्तोपचारान् समर्पयामि।
ॐ। आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑।

सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवं
ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं प्रभुम्।
इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं
विष्णुब्रह्मशिवस्वरूपहृदयं वन्दे सदा भास्करम्॥

अस्मिन् कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणं ध्यायामि।

आवाहयामि देवेड्यमाश्रिताभीष्टदायिनम्।
आदित्यमखिलाराध्यमार्तत्राणपरायणम्॥

अस्मिन् बिम्बे/कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणम् आवाहयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणम् आवाहयामि।
मित्राय नमः, आसनं समर्पयामि।
रवये नमः, पाद्यं समर्पयामि।
सूर्याय नमः, अर्घ्यं समर्पयामि।
भानवे नमः, आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि।
खगाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरं आचमनीयं समर्पयामि।
पूष्णे नमः, वस्त्रं समर्पयामि।
हिरण्यगर्भाय नमः, उपवीतं समर्पयामि।
मरीचये नमः, आभरणम् समर्पयामि।
आदित्याय नमः, गन्धान् धारयामि।
सवित्रे नमः, गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयमि।
अर्काय नमः, अक्षतान् समर्पयामि।
भास्कराय नमः, पुष्पाणि समर्पयामि।

न्यासः

ओं अस्य श्रीसूर्यनमस्कार-महामन्त्रस्य, कण्वपुत्रः प्रस्कन्न ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता।
ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्। श्रीसूर्यनारायण-प्रसाद-सिद्ध्यर्थे नमस्कारे विनियोगः।
ह्रां अङ्गुष्ठाभ्यां नमः।
ह्रीं तर्जनीभ्यां नमः।
ह्रूं मध्यमाभ्यां नमः।
ह्रैं अनामिकाभ्यां नमः।
ह्रौं कनिष्ठिकाभ्यां नमः।
ह्रः करतलकरपृष्ठाभ्यां नमः।
ह्रां हृदयाय नमः।
ह्रीं शिरसे स्वाहा।
ह्रूं शिखायै वषट्।
ह्रैं कवचाय हुम्।
ह्रौं नेत्रत्रयाय वौषट्।
ह्रः अस्त्राय फट्।
भूर्भुवस्सुवरोमिति दिग्बन्धः॥

ध्यानम्

उदयगिरिमुपेतं भास्करं पद्महस्तं
सकलभुवननेत्रं नूतनरत्नोपधेयम्।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां
सुरगुरुमभिवन्दे सुन्दरं विश्वरूपम्॥

लं-पृथिव्यात्मने गन्धं समर्पयामि।
हं-आकाशात्मने पुष्पाणि समर्पयामि।
यं-वाय्वात्मने धूपमाघ्रापयामि।
रं-वह्न्यात्मने दीपं दर्शयामि।
वं-अमृतात्मने अमृतोपहारं निवेदयामि।
सं-सर्वात्मने सर्वोपचारान् समर्पयामि॥

नमस्काराः

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
ॐ महागणपतये॒ नमः॑॥

उमाकोमल-हस्ताब्ज-सम्भावित-ललाटकम्।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम्॥

ॐ श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्यस्वामिने नमः॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात्परं ब्रह्म तस्मै श्री-गुरवे नमः॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम्।
निधये सर्वविद्यानां दक्षिणामूर्तये नमः॥
विनतातनयो देवः कर्मसाक्षी सुरेश्वरः।
सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु॥
रज्जुवेत्रकशापाणिं प्रसन्नं कश्यपात्मजम्।
सर्वाभरणदीप्ताङ्गमरुणं प्रणमाम्यहम्॥

ॐ कर्मसाक्षिणे अरुणाय नमः॥
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚। होता᳚रं रत्न॒-धात॑मम्॥ ऋग्वेदात्मने सूर्यनारायण-स्वामिने नमः॥
इ॒षेत्वो॒र्जे त्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥ यजुर्वेदात्मने सूर्यनारायण-स्वामिने नमः॥
अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। नि होता॑ सथ्सि ब॒र्हिषि॑॥ सामवेदात्मने सूर्यनारायण-स्वामिने नमः॥
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शं योर॒भिस्र॑वन्तु नः॥ अथर्ववेदात्मने सूर्यनारायण-स्वामिने नमः॥
(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्))
घृणिः सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम्।
मधु॑ क्षरन्ति॒ तद्र॑सम्।
स॒त्यं वै तद्रस॒मापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥ श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
(तैत्तिरीयसंहितायां काण्डः १/प्रश्नः – ४)
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य। विश्व॒मा भा॑सि रोच॒नम्॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते॥३२॥
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
ॐ ह्राम्। उ॒द्यन्न॒द्य मि॑त्रमहः। मित्राय नमः॥
ॐ ह्रीम्। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। रवये नमः॥
ॐ ह्रूम्। हृ॒द्रो॒गं मम॑ सूर्य। सूर्याय नमः॥
ॐ ह्रैम्। ह॒रि॒माणं॑ च नाशय। भानवे नमः॥
ॐ ह्रौम्। शुके॑षु मे हरि॒माणम्᳚। खगाय नमः॥
ॐ ह्रः। रो॒प॒णाका॑सु दध्मसि॥ पूष्णे नमः॥
ॐ ह्राम्। अथो॑ हारिद्र॒वेषु॑ मे। हिरण्यगर्भाय नमः॥
ॐ ह्रीम्। ह॒रि॒माणं॒ नि द॑ध्मसि। मरीचये नमः॥
ॐ ह्रूम्। उद॑गाद॒यमा॑दि॒त्यः। आदित्याय नमः॥
ॐ ह्रैम्। विश्वे॑न॒ सह॑सा स॒ह। सवित्रे नमः॥
ॐ ह्रौम्। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। अर्काय नमः॥
ॐ ह्रः। मो अ॒हं द्वि॑ष॒तो र॑धम्। भास्कराय नमः॥
ॐ ह्रां ह्रीम्। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। मित्र-रविभ्यां नमः॥
ॐ ह्रूं ह्रैम्। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। सूर्य-भानुभ्यां नमः॥
ॐ ह्रौं ह्रः। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥ खग-पूषभ्यां नमः॥
ॐ ह्रां ह्रीम्। अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। हिरण्यगर्भ-मरीचिभ्यां नमः॥
ॐ ह्रूं ह्रैम्। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। आदित्य-सवितृभ्यां नमः॥
ॐ ह्रौं ह्रः। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। अर्क-भास्कराभ्यां नमः॥
ॐ ह्रां ह्रीं ह्रूं ह्रैम्। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। मित्र-रवि-सूर्य-भानुभ्यो नमः॥
ॐ ह्रौं ह्रः ह्रां ह्रीम्। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥ अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। खग-पूष-हिरण्यगर्भ-मरीचिभ्यो नमः॥
ॐ ह्रूं ह्रैं ह्रौं ह्रः। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। आदित्य-सवित्रर्क-भास्करेभ्यो नमः॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः।
उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥
मित्र-रवि-सूर्य-भानु-खग-पूषभ्यो नमः॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः।
अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्।
हिरण्यगर्भ-मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः॥
(तैत्तिरीयब्राह्मणे अष्टकं – ३/प्रश्नः – ७/अनुवाकः – ६/ पञ्चादयः ७६-७७)
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः।
उ॒द्यन्न॒द्य मि॑त्रमहः।
आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚।
हृ॒द्रो॒गं मम॑ सूर्य।
ह॒रि॒माणं॑ च नाशय।
शुके॑षु मे हरि॒माणम्᳚।
रो॒प॒णाका॑सु दध्मसि॥
अथो॑ हारिद्र॒वेषु॑ मे।
ह॒रि॒माणं॒ नि द॑ध्मसि।
उद॑गाद॒यमा॑दि॒त्यः।
विश्वे॑न॒ सह॑सा स॒ह।
द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑।
मो अ॒हं द्वि॑ष॒तो र॑धम्।
मित्र-रवि-सूर्य-भानु-खग-पूष-हिरण्यगर्भ-मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः॥

आदित्यमण्डले परब्रह्मोपासनम्

(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्))
आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ꣳ॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां म॒ण्डल॒ꣳ॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डल॒ꣳ॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः॥३१॥
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥

आदित्यपुरुषस्य सर्वात्मकत्वप्रदर्शनम्

(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्))
आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यꣳ सा॒र्ष्टिताꣳ॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत्॥३२॥
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥

अरुणप्रश्नः

अर्चना

ॐ मित्राय नमः
ॐ रवये नमः
ॐ सूर्याय नमः
ॐ भानवे नमः
ॐ खगाय नमः
ॐ पूष्णे नमः
ॐ हिरण्यगर्भाय नमः
ॐ मरीचये नमः
ॐ आदित्याय नमः
ॐ सवित्रे नमः
ॐ अर्काय नमः
ॐ भास्कराय नमः

सूर्याष्टोत्तरशतनामावलिः

अरुणाय नमःशरण्याय नमःकरुणारससिन्धवे नमःअसमानबलाय नमःआर्तरक्षकाय नमःआदित्याय नमःआदिभूताय नमःअखिलागमवेदिने नमःअच्युताय नमःअखिलज्ञाय नमः१०अनन्ताय नमःइनाय नमःविश्वरूपाय नमःइज्याय नमःइन्द्राय नमःभानवे नमःइन्दिरामन्दिराप्ताय नमःवन्दनीयाय नमःईशाय नमःसुप्रसन्नाय नमः२०सुशीलाय नमःसुवर्चसे नमःवसुप्रदाय नमःवसवे नमःवासुदेवाय नमःउज्ज्वलाय नमःउग्ररूपाय नमःऊर्ध्वगाय नमःविवस्वते नमःउद्यत्किरणजालाय नमः३०हृषीकेशाय नमःऊर्जस्वलाय नमःवीराय नमःनिर्जराय नमःजयाय नमःऊरुद्वयाभावरूपयुक्तसारथये नमःऋषिवन्द्याय नमःरुग्घन्त्रे नमःऋक्षचक्रचराय नमःऋजुस्वभावचित्ताय नमः४०नित्यस्तुत्याय नमःऋकारमातृकावर्णरूपाय नमःउज्ज्वलतेजसे नमःऋक्षाधिनाथमित्राय नमःपुष्कराक्षाय नमःलुप्तदन्ताय नमःशान्ताय नमःकान्तिदाय नमःघनाय नमःकनत्कनकभूषाय नमः५०खद्योताय नमःलूनिताखिलदैत्याय नमःसत्यानन्दस्वरूपिणे नमःअपवर्गप्रदाय नमःआर्तशरण्याय नमःएकाकिने नमःभगवते नमःसृष्टिस्थित्यन्तकारिणे नमःगुणात्मने नमःघृणिभृते नमः६०बृहते नमःब्रह्मणे नमःऐश्वर्यदाय नमःशर्वाय नमःहरिदश्वाय नमःशौरये नमःदशदिक्सम्प्रकाशाय नमःभक्तवश्याय नमःओजस्कराय नमःजयिने नमः७०जगदानन्दहेतवे नमःजन्ममृत्युजराव्याधिवर्जिताय नमःऔच्चस्थान-समारूढ-रथस्थाय नमःअसुरारये नमःकमनीयकराय नमःअब्जवल्लभाय नमःअन्तर्बहिः प्रकाशाय नमःअचिन्त्याय नमःआत्मरूपिणे नमःअच्युताय नमः८०अमरेशाय नमःपरस्मै ज्योतिषे नमःअहस्कराय नमःरवये नमःहरये नमःपरमात्मने नमःतरुणाय नमःवरेण्याय नमःग्रहाणां पतये नमःभास्कराय नमः९०आदिमध्यान्तरहिताय नमःसौख्यप्रदाय नमःसकलजगतां पतये नमःसूर्याय नमःकवये नमःनारायणाय नमःपरेशाय नमःतेजोरूपाय नमःश्रीं हिरण्यगर्भाय नमःह्रीं सम्पत्कराय नमः१००ऐं इष्टार्थदाय नमःअं सुप्रसन्नाय नमःश्रीमते नमःश्रेयसे नमःसौख्यदायिने नमःदीप्तमूर्तये नमःनिखिलागमवेद्याय नमःनित्यानन्दाय नमः१०८

॥इति श्री-सूर्याष्टोत्तरशतनामावलिः सम्पूर्णा॥

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

उत्तराङ्ग-पूजा

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, धूपमाघ्रापयामि। अलङ्कारदीपं सन्दर्शयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, नैवेद्यं निवेदयामि। निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, कर्पूरताम्बूलं समर्पयामि।
भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑ धीमहि।
तन्नो॑ आदित्यः प्रचो॒दया᳚त्।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, प्रदक्षिणनमस्काराः समर्पयामि।

प्रार्थना

भानो भास्कर मार्तण्ड चण्डरश्मे दिवाकर।
आयुरारोग्यमैश्वर्यं श्रियं पुत्रांश्च देहि मे॥
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम्।
सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे॥
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम्।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्॥
ध्येयः सदा सवितृमण्डल-मध्यवर्ती
नारायणः सरसि-जासन-सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः॥
शङ्ख-चक्र-गदापाणे द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्॥
आकाशात् पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रतिगच्छति॥

श्री-केशवं प्रतिगच्छत्यों नम इति॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

अनेन पूजनेन सपरिवार-भगवान्-सूर्यः प्रीयताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।

आदित्यहृदयम्

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपागम्याब्रवीद् रामम् अगस्त्यो भगवान् ऋषिः॥२॥
राम राम महाबाहो शृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसि॥३॥
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥६॥
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणान् लोकान् पाति गभस्तिभिः॥७॥
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥८॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥९॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्विश्वरेता दिवाकरः॥१०॥
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान्॥११॥
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः॥१३॥
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः॥१४॥
नक्षत्रग्रहताराणाम् अधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते॥१५॥
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः॥१७॥
नम उग्राय वीराय सारङ्गाय नमो नमः।
नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः॥१८॥
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥१९॥
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥२०॥
तप्तचामीकराभाय वह्नये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥२१॥
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्॥२३॥
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥२४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथाऽऽगतम्॥२७॥
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्॥२८॥
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्॥२९॥
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत्।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्॥३०॥
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति॥३१॥

॥इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे आदित्यहृदयं नाम सप्तोत्तरशततमः सर्गः॥

द्वादशार्यासूर्यस्तुतिः

उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवं देवः।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु॥१॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे।
क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय॥२॥
कर्म-ज्ञान-ख-दशकं मनश्च जीव इति विश्व-सर्गाय।
द्वादशधा यो विचरति स द्वादश-मूर्तिरस्तु मोदाय॥३॥
त्वं हि यजुर्ऋक् साम त्वमागमस्त्वं वषट्कारः।
त्वं विश्वं त्वं हंसस्त्वं भानो परमहंसश्च॥४॥
शिवरूपाज्ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात्।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि॥५॥
त्वचि दोषा दृशि दोषा हृदि दोषा येऽखिलेन्द्रियज-दोषाः।
तान् पूषा हतदोषः किञ्चिद् रोषाग्निना दहतु॥६॥
धर्मार्थ-काम-मोक्ष-प्रतिरोधानुग्र-ताप-वेग-करान्।
बन्दी-कृतेन्द्रिय-गणान् गदान् विखण्डयतु चण्डांशुः॥७॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम्।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे॥८॥
यस्य सहस्राभीशोरभीशु-लेशो हिमांशु-बिम्बगतः।
भासयति नक्तमखिलं भेदयतु विपद्-गणानरुणः॥९॥
तिमिरमिव नेत्र-तिमिरं पटलमिवाशेष-रोग-पटलं नः।
काशमिवाधि-निकायं कालपिता रोगयुक्ततां हरतात्॥१०॥
वाताश्मरी-गदार्शस्त्वग्-दोष-महोदर-प्रमेहांश्च।
ग्रहणी-भगन्दराख्या महतीस्त्वं मे रुजो हंसि॥११॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो॥१२॥
इत्यार्या-द्वादशकं साम्बस्य पुरो नभःस्थलात् पतितम्।
पठतां भाग्य-समृद्धिः समस्त-रोग-क्षयश्च स्यात्॥१३॥

॥इति श्री-द्वादशार्यासूर्यस्तुतिः सम्पूर्णा॥

❀ ❀ ❀