श्री-रामनवमी-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्रीराम-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे वसन्त-ऋतौ (मेष/मीन) मासे
शुक्लपक्षे नवम्यां शुभतिथौ (इन्दु/भौम/बुध/गुरु/भृगु/स्थिर/भानु)-वासरयुक्तायाम्
(आर्द्रा/पुनर्वसू/पुष्य) नक्षत्रयुक्तायां ( )-योग ( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम्
अस्याम् नवम्यां शुभतिथौ
भारतीयस्य वैदिकस्य अस्माकं सनातन-धर्मस्य सर्वत्र विजय-सिद्ध्यर्थं
तद्-अवलम्बनेन भारतीयानां महाजनानां विघ्न-निवृत्ति-पूर्वक-सत्कार्य-प्रवृत्ति-द्वारा सर्वविध-ऐहिक-आमुष्मिक-योग-क्षेम-अभिवृद्ध्यर्थं, असत्कार्येभ्यः निवृत्त्यर्थं
सनातन-धर्मस्य विरोधिनाम् उपशमनार्थं
भारतीय-सत्-सन्तान-समृद्ध्यर्थं, भारतीयानां सन्ततेः अपि अस्मिन् सनातन-धर्म-सम्प्रदाये श्रद्धा-भक्त्योः अभिवृद्ध्यर्थं
विभिन्न-सम्प्रदाय-स्थानां सनातन-धर्मावलम्बिनां परस्परं समन्वयेन अविरोधेन साधन-अनुष्ठानेन फल-सिद्ध्यर्थम्
सर्वत्र भूमण्डले विशेषतः भारते च राम-नाम-महिम्नः प्रसारार्थं राम-राज्यस्य सिद्ध्यर्थं
अयोध्यायां भगवतः श्रीरामस्य जन्म-भूमि-मन्दिरस्य मूल-स्थानं परितः महतः मन्दिर-परिसरस्य सम्यग् अभिवृद्ध्यर्थम्
अस्माकं सह-कुटुम्बानां क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-आयुः-आरोग्य-ऐश्वर्याणाम् अभिवृद्ध्यर्थं धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-सिद्ध्यर्थं
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-प्रीत्यर्थम्
श्रीरामनवमीपुण्यकाले कल्पोक्तप्रकारेण यथाशक्ति श्रीरामचन्द्रपूजां
करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रं ध्यायामि।
प्राण-प्रतिष्ठा
अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः।
ऋग्यजुस्सामाथर्वाणि छन्दांसि। प्राणशक्तिः परा देवता।
आं बीजम् - ह्रीं शक्तिः - क्रों कीलकम्। प्राणप्रतिष्ठापने विनियोगः॥
॥करन्यासः॥
| आं | अङ्गुष्ठाभ्यां | नमः। |
| ह्रीं | तर्जनीभ्यां | नमः। |
| क्रों | मध्यमाभ्यां | नमः। |
| आं | अनामिकाभ्यां | नमः। |
| ह्रीं | कनिष्ठिकाभ्यां | नमः। |
| क्रों | करतलकरपृष्ठाभ्यां | नमः। |
॥अङ्गन्यासः॥
| आं | हृदयाय | नमः। |
| ह्रीं | शिरसे | स्वाहा। |
| क्रों | शिखायै | वषट्। |
| आं | कवचाय | हुम्। |
| ह्रीं | नेत्रत्रयाय | वौषट्। |
| क्रों | अस्त्राय | फट्। |
| भूर्भुवस्सुवरोमिति | दिग्बन्धः॥ |
॥ध्यानम्॥
आं ह्रीं क्रों, क्रों ह्रीं आं, य र ल व श ष स हों,
हंसः सोऽहं सोऽहं हंसः। अस्यां मूर्तौ प्राणास्तिष्ठन्तु। जीवस्तिष्ठतु।
अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थाख्यानि प्राणापानव्यानोदानसमानाश्चात्रागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म्।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति॥ऋक् १०.५९.६॥
प्राणान् प्रतिष्ठापयामि।
आवाहयामि विश्वेशं वैदेही-वल्लभं विभुम्।
कौसल्या-तनयं विष्णुं श्री-रामं प्रकृतेः परम्॥
श्रीरामाय नमः, आवाहयामि।
वामे सीताम् आवाहयामि।
पुरस्तात् हनुमन्तम् आवाहयामि।
पश्चात् लक्ष्मणम् आवाहयामि।
उत्तरस्यां शत्रुघ्नमवाहयामि।
दक्षिणस्यां दिशि भरतम् आवाहयामि।
वायव्यायां सुग्रीवम् आवाहयामि।
ऐशान्यां विभीषणम् आवाहयामि।
आग्नेय्याम् अङ्गदम् आवाहयामि।
नैर्ऋत्यां जाम्बवन्तम् आवाहयामि॥
आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। प्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद॥
॥इति प्राणप्रतिष्ठा॥
सपरिवाराय श्रीरामाय नमः, आसनं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, पाद्यं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, अर्घ्यं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, आचमनीयं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, मधुपर्कं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, क्षीराभिषेकं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, मध्वभिषेकं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, मध्वभिषेकान्ते पुनः क्षीराभिषेकं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, शुद्धोदक-स्नानं समर्पयामि।
स्नानोत्तरम् आचमनीयं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, वस्त्रं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, उपवीतं समर्पयामि।
सपरिवाराय श्रीरामाय नमः, आभरणम् समर्पयामि।
सपरिवाराय श्रीरामाय नमः, गन्धान् धारयामि।
गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयमि।
सपरिवाराय श्रीरामाय नमः, अक्षतान् समर्पयामि।
सपरिवाराय श्रीरामाय नमः, पुष्पाणि समर्पयामि।
अङ्ग-गुण-पूजा
| अहल्या-उद्धारकाय नमः | पाद-रजः पूजयामि |
| शरणागत-रक्षकाय नमः | पाद-कान्तिं पूजयामि |
| गङ्गा-नदी-प्रवर्तन-पराय नमः | पाद-नखान् पूजयामि |
| सीता-संवाहित-पदाय नमः | पाद-तलं पूजयामि |
| दुन्दुभि-काय-विक्षेपकाय नमः | पादाङ्गुष्ठं पूजयामि |
| विनत-कल्प-द्रुमाय नमः | गुल्फौ पूजयामि |
| दण्डकारण्य-गमन-जङ्घालाय नमः | जङ्घे पूजयामि |
| जानु-न्यस्त-कराम्बुजाय नमः | जानुनी पूजयामि |
| वीरासन-अध्यासिने नमः | ऊरू पूजयामि |
| पीताम्बर-अलङ्कृताय नमः | कटिं पूजयामि |
| आकाश-मध्यगाय नमः | मध्यं पूजयामि |
| अरि-निग्रह-पराय नमः | कटि-लम्बितम् असिं पूजयामि |
| अब्धि-मेखला-पतये नमः | मध्य-लम्बित-मेखला-दाम पूजयामि |
| उदर-स्थित-ब्रह्माण्डाय नमः | उदरं पूजयामि |
| जगत्-त्रय-गुरवे नमः | वलि-त्रयं पूजयामि |
| सीतानुलेपित-काश्मीर-चन्दनाय नमः | वक्षः पूजयामि |
| अभय-प्रदान-शौण्डाय नमः | दक्षिण-बाहु-दण्डं पूजयामि |
| वितरण-जित-कल्पद्रुमाय नमः | दक्षिण-कर-तलं पूजयामि |
| आशर-निरसन-पराय नमः | दक्षिण-कर-स्थित-शरं पूजयामि |
| ज्ञान-विज्ञान-भासकाय नमः | चिन्मुद्रां पूजयामि |
| मुनि-सङ्घार्पित-दिव्य-पदाय नमः | वाम-भुज-दण्डं पूजयामि |
| दशानन-काल-रूपिणे नमः | वाम-हस्त-स्थित-कोदण्डं पूजयामि |
| शत-मख-दत्त-शत-पुष्कर-स्रजे नमः | अंसौ पूजयामि |
| कृत्त-दशानन-किरीट-कूटाय नमः | अंस-लम्बित-निषङ्ग-द्वयं पूजयामि |
| सीता-बाहु-लतालिङ्गिताय नमः | कण्ठं पूजयामि |
| स्मित-भाषिणे नमः | स्मितं पूजयामि |
| नित्य-प्रसन्नाय नमः | मुख-प्रसादं पूजयामि |
| सत्य-वाचे नमः | वाचं पूजयामि |
| कपालि-पूजिताय नमः | कपोलौ पूजयामि |
| चक्षुःश्रवः-प्रभु-पूजिताय नमः | श्रोत्रे पूजयामि |
| अनासादित-पाप-गन्धाय नमः | घ्राणं पूजयामि |
| पुण्डरीकाक्षाय नमः | अक्षिणी पूजयामि |
| अपाङ्ग-स्यन्दि-करुणाय नमः | अरुणापाङ्ग-द्वयं पूजयामि |
| विना-कृत-रुषे नमः | अनाथ-रक्षक-कटाक्षं पूजयामि |
| कस्तूरी-तिलकाङ्किताय नमः | फालं पूजयामि |
| राजाधिराज-वेषाय नमः | किरीटं पूजयामि |
| मुनि-मण्डल-पूजिताय नमः | जटा-मण्डलं पूजयामि |
| मोहित-मुनि-जनाय नमः | पुंसां मोहनं रूपं पूजयामि |
| जानकी-व्यजन-वीजिताय नमः | विद्युद्-विद्योतित-कालाभ्र-सदृश-कान्तिं पूजयामि |
| हनुमदर्पित-चूडामणये नमः | करुणारस-उद्वेल्लित-कटाक्ष-धारां पूजयामि |
| सुमन्त्रानुग्रह-पराय नमः | तेजोमयरूपं पूजयामि |
| कम्पिताम्भोधये नमः | आहार्य-कोपं पूजयामि |
| तिरस्कृत-लङ्केश्वराय नमः | धैर्यं पूजयामि |
| वन्दित-जनकाय नमः | विनयं पूजयामि |
| सम्मानित-त्रिजटाय नमः | अतिमानुष-सौलभ्यं पूजयामि |
| गन्धर्व-राज-प्रतिमाय नमः | लोकोत्तर-सौन्दर्यं पूजयामि |
| असहाय-हत-खर-दूषणादि-चतुर्दश-सहस्र-राक्षसाय नमः | पराक्रमं पूजयामि |
| आलिङ्गित-आञ्जनेयाय नमः | भक्त-वात्सल्यं पूजयामि |
| लब्ध-राज्य-परित्यक्त्रे नमः | धर्मं पूजयामि |
| दर्भ-शायिने नमः | लोकानुवर्तनं पूजयामि |
| सर्वेश्वराय नमः | सर्वाण्यङ्गानि सर्वांश्च गुणान् पूजयामि |
रामाष्टोत्तरशतनामावलिः
श्रीरामाय नमःरामचन्द्राय नमःरामभद्राय नमःशाश्वताय नमःराजीवलोचनाय नमःश्रीमते नमःराजेन्द्राय नमःरघुपुङ्गवाय नमःजानकीवल्लभाय नमःजैत्राय नमः१०जितामित्राय नमःजनार्दनाय नमःविश्वामित्रप्रियाय नमःदान्ताय नमःशरण्यत्राणतत्पराय नमःवालिप्रमथनाय नमःवाग्मिने नमःसत्यवाचे नमःसत्यविक्रमाय नमःसत्यव्रताय नमः२०व्रतधराय नमःसदा हनुमदाश्रयाय नमःकौसलेयाय नमःखरध्वंसिने नमःविराधवधपण्डिताय नमःविभीषणपरित्रात्रे नमःहरकोदण्डखण्डनाय नमःसप्ततालप्रभेत्त्रे नमःदशग्रीवशिरोहराय नमःजामदग्न्यमहादर्पदलनाय नमः३०ताडकान्तकृते नमःवेदान्तपाराय नमःवेदात्मने नमःभवबन्धैकभेषजाय नमःदूषणत्रिशिरोरये नमःत्रिमूर्तये नमःत्रिगुणाय नमःत्रयिणे नमःत्रिविक्रमाय नमःत्रिलोकात्मने नमः नमः४०पुण्यचारित्रकीर्तनाय नमःत्रिलोकरक्षकाय नमःधन्विने नमःदण्डकारण्यवासकृते नमःअहल्यापावनाय नमःपितृभक्ताय नमःवरप्रदाय नमःजितेन्द्रियाय नमःजितक्रोधाय नमःजितलोभो नमः५०जगद्गुरवे नमःऋक्षवानरसङ्घातिने नमःचित्रकूटसमाश्रयाय नमःजयन्तत्राणवरदाय नमःसुमित्रापुत्रसेविताय नमःसर्वदेवाधिदेवाय नमःमृतवानरजीवनाय नमःमायामारीचहन्त्रे नमःमहाभोगाय नमःमहाभुजाय नमः नमः६०सर्वदेवस्तुताय नमःसौम्याय नमःब्रह्मण्याय नमःमुनिसत्तमाय नमःमहायोगाय नमःमहोदाराय नमःसुग्रीवस्थिरराज्यदाय नमःसर्वपुण्याधिकफलाय नमःस्मृताय नमःसर्वाघनाशनाय नमः७०अनादये नमःआदिपुरुषाय नमःमहापुरुषाय नमःपरमाय नमःपुरुषाय नमःपुण्योदयाय नमःमहासाराय नमःपुराणाय पुरुषोत्तमाय नमःस्मितवक्त्राय नमःमितभाषिणे नमः८०पूर्वभाषिणे नमःराघवाय नमःअनन्तगुणगम्भीराय नमःधीराय नमःदान्तगुणोत्तमाय नमःमायामानुषचारित्राय नमःमहादेवाभिपूजिताय नमःसेतुकृते नमःजितवारीशाय नमःसर्वतीर्थमयाय नमः९०हरये नमःश्यामाङ्गाय नमःसुन्दराय नमःशूराय नमःपीतवाससे नमःधनुर्धराय नमःसर्वयज्ञाधिपाय नमःयज्ञाय नमःजरामरणवर्जिताय नमःशिवलिङ्गप्रतिष्ठात्रे नमः१००सर्वाघगणवर्जिताय नमःपरमात्मने नमःपरस्मै ब्रह्मणे नमःसच्चिदानन्दविग्रहाय नमःपरस्मै ज्योतिषे नमःपरस्मै धाम्ने नमःपराकाशाय नमःपरात्पराय नमःपरेशाय नमःपारगाय नमःपाराय नमःसर्वभूतात्मकाय नमःशिवाय नमः
॥इति श्री-पद्मपुराणे उत्तरखण्डे श्री-रामाष्टोत्तरशतनामावलिः सम्पूर्णा॥
रामाष्टोत्तरशतनामावलिः
रामाय नमःरावण-संहार-कृत-मानुष-विग्रहाय नमःकौसल्या-सुकृत-व्रात-फलाय नमःदशरथात्मजाय नमःलक्ष्मणार्चित-पादाब्जाय नमःसर्व-लोक-प्रियङ्कराय नमःसाकेत-वासि-नेत्राब्ज-सम्प्रीणन-दिवाकराय नमःविश्वामित्र-प्रियाय नमःशान्ताय नमःताटका-ध्वान्त-भास्कराय नमः१०सुबाहु-राक्षस-रिपवे नमःकौशिकाध्वर-पालकाय नमःअहल्या-पाप-संहर्त्रे नमःजनकेन्द्र-प्रियातिथये नमःपुरारि-चाप-दलनाय नमःवीर-लक्ष्मी-समाश्रयाय नमःसीता-वरण-माल्याढ्याय नमःजामदग्न्य-मदापहाय नमःवैदेही-कृत-शृङ्गाराय नमःपितृ-प्रीति-विवर्धनाय नमः२०ताताज्ञोत्सृष्ट-हस्त-स्थ-राज्याय नमःसत्य-प्रतिश्रवाय नमःतमसा-तीर-संवासिने नमःगुहानुग्रह-तत्पराय नमःसुमन्त्र-सेवित-पदाय नमःभरद्वाज-प्रियातिथये नमःचित्रकूट-प्रिय-स्थानाय नमःपादुका-न्यस्त-भू-भराय नमःअनसूया-अङ्गरागाङ्क-सीता-साहित्य-शोभिताय नमःदण्डकारण्य-सञ्चारिणे नमः३०विराध-स्वर्ग-दायकाय नमःरक्षः-कालान्तकाय नमःसर्व-मुनि-सङ्घ-मुदावहाय नमःप्रतिज्ञात-आशर-वधाय नमःशरभङ्ग-गति-प्रदाय नमःअगस्त्यार्पित-बाणास-खड्ग-तूणीर-मण्डिताय नमःप्राप्त-पञ्चवटी-वासाय नमःगृध्रराज-सहायवते नमःकामि-शूर्पणखा-कर्ण-नास-च्छेद-नियामकाय नमःखरादि-राक्षस-त्रातखण्डनावितसज्जनाय नमः४०सीता-संश्लिष्ट-कायाभा-जित-विद्युद्-युताम्बुदाय नमःमारीच-हन्त्रे नमःमायाढ्याय नमःजटायुर्-मोक्ष-दायकाय नमःकबन्ध-बाहु-लवनाय नमःशबरी-प्रार्थितातिथये नमःहनुमद्-वन्दित-पदाय नमःसुग्रीव-सुहृदेऽव्ययाय नमःदैत्य-कङ्काल-विक्षेपिणे नमःसप्त-साल-प्रभेदकाय नमः५०एकेषु-हत-वालिने नमःतारा-संस्तुत-सद्गुणाय नमःकपीन्द्री-कृत-सुग्रीवाय नमःसर्व-वानर-पूजिताय नमःवायु-सूनु-समानीत-सीता-सन्देश-नन्दिताय नमःजैत्र-यात्रोद्यताय नमःजिष्णवे नमःविष्णु-रूपाय नमःनिराकृतये नमःकम्पिताम्भोनिधये नमः६०सम्पत्-प्रदाय नमःसेतु-निबन्धनाय नमःलङ्का-विभेदन-पटवे नमःनिशाचर-विनाशकाय नमःकुम्भकर्णाख्य-कुम्भीन्द्र-मृगराज-पराक्रमाय नमःमेघनाद-वधोद्युक्त-लक्ष्मणास्त्र-बलप्रदाय नमःदशग्रीवान्धतामिस्र-प्रमापण-प्रभाकराय नमःइन्द्रादि-देवता-स्तुत्याय नमःचन्द्राभ-मुख-मण्डलाय नमःविभीषणार्पित-निशाचर-राज्याय नमः७०वृष-प्रियाय नमःवैश्वानर-स्तुत-गुणावनिपुत्री-समागताय नमःपुष्पक-स्थान-सुभगाय नमःपुण्यवत्-प्राप्य-दर्शनाय नमःराज्याभिषिक्ताय नमःराजेन्द्राय नमःराजीव-सदृशेक्षणाय नमःलोक-तापापहर्त्रे नमःधर्म-संस्थापनोद्यताय नमःशरण्याय नमः८०कीर्तिमते नमःनित्याय वदान्याय नमःकरुणार्णवाय नमःसंसार-सिन्धु-सम्मग्न-तारकाख्या-महोज्ज्वलाय नमःमधुराय नमःमधुरोक्तये नमःमधुरा-नायकाग्रजाय नमःशम्बूक-दत्त-स्वर्लोकाय नमःशम्बराराति-सुन्दराय नमःअश्वमेध-महायाजिने नमः९०वाल्मीकि-प्रीतिमते नमःवशिने नमःस्वयं रामायण-श्रोत्रे नमःपुत्र-प्राप्ति-प्रमोदिताय नमःब्रह्मादि-स्तुत-माहात्म्याय नमःब्रह्मर्षि-गण-पूजिताय नमःवर्णाश्रम-रताय नमःवर्णाश्रम-धर्म-नियामकाय नमःरक्षा-पराय नमःराज-वंश-प्रतिष्ठापन-तत्पराय नमः१००गन्धर्व-हिंसा-संहारिणे नमःधृतिमते नमःदीन-वत्सलाय नमःज्ञानोपदेष्ट्रे नमःवेदान्त-वेद्याय नमःभक्त-प्रियङ्कराय नमःवैकुण्ठ-वासिने नमःचराचर-विमुक्ति-दाय नमः१०८
॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-राम-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥
सीताष्टोत्तरशतनामावलिः
श्रीसीतायै नमःजानक्यै नमःदेव्यै नमःवैदेह्यै नमःराघवप्रियायै नमःरमायै नमःअवनिसुतायै नमःरामायै नमःराक्षसान्तप्रकारिण्यै नमःरत्नगुप्तायै नमः१०मातुलुङ्ग्यै नमःमैथिल्यै नमःभक्ततोषदायै नमःपद्माक्षजायै नमःकञ्जनेत्रायै नमःस्मितास्यायै नमःनूपुरस्वनायै नमःवैकुण्ठनिलयायै नमःमायै नमःश्रियै नमः२०मुक्तिदायै नमःकामपूरण्यै नमःनृपात्मजायै नमःहेमवर्णायै नमःमृदुलाङ्ग्यै नमःसुभाषिण्यै नमःकुशाम्बिकायै नमःदिव्यदायै नमःलवमात्रे नमःमनोहरायै नमः३०हनुमद्वन्दितपदायै नमःमुग्धायै नमःकेयूरधारिण्यै नमःअशोकवनमध्यस्थायै नमःरावणादिकमोहिन्यै नमःविमानसंस्थितायै नमःसुभ्रुवे नमःसुकेश्यै नमःरशनान्वितायै नमःरजोरूपायै नमः४०सत्त्वरूपायै नमःतामस्यै नमःवह्निवासिन्यै नमःहेममृगासक्तचित्तायै नमःवाल्मीक्याश्रमवासिन्यै नमःपतिव्रतायै नमःमहामायायै नमःपीतकौशेयवासिन्यै नमःमृगनेत्रायै नमःबिम्बोष्ठ्यै नमः५०धनुर्विद्याविशारदायै नमःसौम्यरूपायै नमःदशरथस्नुषायै नमःचामरवीजितायै नमःसुमेधादुहित्रे नमःदिव्यरूपायै नमःत्रैलोक्यपालिन्यै नमःअन्नपूर्णायै नमःमहालक्ष्म्यै नमःधियै नमः६०लज्जायै नमःसरस्वत्यै नमःशान्त्यै नमःपुष्ट्यै नमःक्षमायै नमःगौर्यै नमःप्रभायै नमःअयोध्यानिवासिन्यै नमःवसन्तशीतलायै नमःगौर्यै नमः७०स्नानसन्तुष्टमानसायै नमःरमानामभद्रसंस्थायै नमःहेमकुम्भपयोधरायै नमःसुरार्चितायै नमःधृत्यै नमःकान्त्यै नमःस्मृत्यै नमःमेधायै नमःविभावर्यै नमःलघूदरायै नमः८०वरारोहायै नमःहेमकङ्कणमण्डितायै नमःद्विजपत्न्यर्पितनिजभूषायै नमःराघवतोषिण्यै नमःश्रीरामसेवानिरतायै नमःरत्नताटङ्कधारिण्यै नमःरामवामाङ्गसंस्थायै नमःरामचन्द्रैकरञ्जन्यै नमःसरयूजलसङ्क्रीडाकारिण्यै नमःराममोहिन्यै नमः९०सुवर्णतुलितायै नमःपुण्यायै नमःपुण्यकीर्त्यै नमःकलावत्यै नमःकलकण्ठायै नमःकम्बुकण्ठायै नमःरम्भोरुवे नमःगजगामिन्यै नमःरामार्पितमनायै नमःरामवन्दितायै नमः१००रामवल्लभायै नमःश्रीरामपदचिह्नाङ्कायै नमःरामरामेतिभाषिण्यै नमःरामपर्यङ्कशयनायै नमःरामाङ्घ्रिक्षालिन्यै नमःवरायै नमःकामधेन्वन्नसन्तुष्टायै नमःमातुलुङ्गकरे धृतायै नमःदिव्यचन्दनसंस्थायै नमःश्रियै नमः११०मूलकासुरमर्दिन्यै नमः
॥इति श्री-आनन्दरामायणे श्री-सीताष्टोत्तरशतनामावलिः सम्पूर्णा॥
सीताष्टोत्तरशतनामावलिः
सीतायै नमःसीर-ध्वज-सुतायै नमःसीमातीत-गुणोज्ज्वलायै नमःसौन्दर्य-सार-सर्वस्व-भूतायै नमःसौभाग्य-दायिन्यै नमःदेव्यै नमःदेवार्चित-पदायै नमःदिव्यायै नमःदशरथ-स्नुषायै नमःरामायै नमः१०राम-प्रियायै नमःरम्यायै नमःराकेन्दु-वदनोज्ज्वलायै नमःवीर्य-शुल्कायै नमःवीर-पत्न्यै नमःवियन्मध्यायै नमःवर-प्रदायै नमःपति-व्रतायै नमःपङ्क्ति-कण्ठ-नाशिन्यै नमःपावन-स्मृतये नमः२०वन्दारु-वत्सलायै नमःवीर-मात्रे नमःवृत-रघूत्तमायै नमःसम्पत्-कर्यै नमःसदा-तुष्टायै नमःसाक्षिण्यै नमःसाधु-सम्मतायै नमःनित्यायै नमःनियत-संस्थानायै नमःनित्यानन्दायै नमः३०नुति-प्रियायै नमःपृथ्व्यै नमःपृथ्वी-सुतायै नमःपुत्र-दायिन्यै नमःप्रकृत्यै परस्यै नमःहनूमत्-स्वामिन्यै नमःहृद्यायै नमःहृदय-स्थायै नमःहताशुभायै नमःहंस-युक्तायै नमः४०हंस-गतये नमःहर्ष-युक्तायै नमःहताशरायै नमःसार-रूपायै नमःसार-वचसे नमःसाध्व्यै नमःसरमा-प्रियायै नमःत्रिलोक-वन्द्यायै नमःत्रिजटा-सेव्यायै नमःत्रिपथ-गार्चिन्यै नमः५०त्राण-प्रदायै नमःत्रात-काकायै नमःतृणी-कृत-दशाननायै नमःअनसूया-अङ्गरागाङ्कायै नमःअनसूयायै नमःसूरि-वन्दितायै नमःअशोक-वनिका-स्थानायै नमःअशोकायै नमःशोक-विनाशिन्यै नमःसूर्य-वंश-स्नुषायै नमः६०सूर्य-मण्डलान्तस्स्थ-वल्लभायै नमःश्रुत-मात्राघ-हरणायै नमःश्रुति-सन्निहितेक्षणायै नमःपुष्प-प्रियायै नमःपुष्पक-स्थायै नमःपुण्य-लभ्यायै नमःपुरातन्यै नमःपुरुषार्थ-प्रदायै नमःपूज्यायै नमःपूत-नाम्ने नमः७०परन्तपायै नमःपद्म-प्रियायै नमःपद्म-हस्तायै नमःपद्मायै नमःपद्म-मुख्यै नमःशुभायै नमःजन-शोक-हरायै नमःजन्म-मृत्यु-शोक-विनाशिन्यै नमःजगद्-रूपायै नमःजगद्-वन्द्यायै नमः८०जय-दायै नमःजनकात्मजायै नमःनाथनीय-कटाक्षायै नमःनाथायै नमःनाथैक-तत्परायै नमःनक्षत्र-नाथ-वदनायै नमःनष्ट-दोषायै नमःनयावहायै नमःवह्नि-पाप-हरायै नमःवह्नि-शैत्य-कृते नमः९०वृद्धि-दायिन्यै नमःवाल्मीकि-गीत-विभवायै नमःवचोतीतायै नमःवराङ्गनायै नमःभक्ति-गम्यायै नमःभव्य-गुणायै नमःभात्र्यै नमःभरत-वन्दितायै नमःसुवर्णाङ्ग्यै नमःसुखकर्यै नमः१००सुग्रीवाङ्गद-सेवितायै नमःवैदेह्यै नमःविनताघौघ-नाशिन्यै नमःविधि-वन्दितायै नमःलोक-मात्रे नमःलोचनान्त-स्थित-कारुण्य-सागरायै नमःकृताकृत-जगद्धेतवे नमःकृत-राज्याभिषेककायै नमः१०८
॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-सीता-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥
हनुमदष्टोत्तरशतनामावलिः
आञ्जनेयाय नमःमहावीराय नमःहनूमते नमःमारुतात्मजाय नमःतत्त्वज्ञानप्रदाय नमःसीतादेवीमुद्राप्रदायकाय नमःअशोकवनिकाच्छेत्रे नमःसर्वमायाविभञ्जनाय नमःसर्वबन्धविमोक्त्रे नमःरक्षोविध्वंसकारकाय नमः१०परविद्यापरीहर्त्रे नमःपरशौर्यविनाशनाय नमःपरमन्त्रनिराकर्त्रे नमःपरयन्त्रप्रभेदकाय नमःसर्वग्रहविनाशिने नमःभीमसेनसहायकृते नमःसर्वदुःखहराय नमःसर्वलोकचारिणे नमःमनोजवाय नमःपारिजातद्रुमूलस्थाय नमः२०सर्वमन्त्रस्वरूपवते नमःसर्वतन्त्रस्वरूपिणे नमःसर्वयन्त्रात्मकाय नमःकपीश्वराय नमःमहाकायाय नमःसर्वरोगहराय नमःप्रभवे नमःबलसिद्धिकराय नमःसर्वविद्यासम्पत्प्रदायकाय नमःकपिसेनानायकाय नमः३०भविष्यच्चतुराननाय नमःकुमारब्रह्मचारिणे नमःरत्नकुण्डलदीप्तिमते नमःचञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलाय नमःगन्धर्वविद्यातत्त्वज्ञाय नमःमहाबलपराक्रमाय नमःकारागृहविमोक्त्रे नमःशृङ्खलाबन्धमोचकाय नमःसागरोत्तारकाय नमःप्राज्ञाय नमः४०रामदूताय नमःप्रतापवते नमःवानराय नमःकेसरीसूनवे नमःसीताशोकनिवारणाय नमःअञ्जनागर्भसम्भूताय नमःबालार्कसदृशाननाय नमःविभीषणप्रियकराय नमःदशग्रीवकुलान्तकाय नमःलक्ष्मणप्राणदात्रे नमः५०वज्रकायाय नमःमहाद्युतये नमःचिरञ्जीविने नमःरामभक्ताय नमःदैत्यकार्यविघातकाय नमःअक्षहन्त्रे नमःकाञ्चनाभाय नमःपञ्चवक्त्राय नमःमहातपसे नमःलङ्किणीभञ्जनाय नमः६०श्रीमते नमःसिंहिकाप्राणभञ्जनाय नमःगन्धमादनशैलस्थाय नमःलङ्कापुरविदाहकाय नमःसुग्रीवसचिवाय नमःधीराय नमःशूराय नमःदैत्यकुलान्तकाय नमःसुरार्चिताय नमःमहातेजसे नमः७०रामचूडामणिप्रदाय नमःकामरूपिणे नमःपिङ्गलाक्षाय नमःवर्धिमैनाकपूजिताय नमःकबलीकृतमार्तण्डमण्डलाय नमःविजितेन्द्रियाय नमःरामसुग्रीवसन्धात्रे नमःमहिरावणमर्दनाय नमःस्फटिकाभाय नमःवागधीशाय नमः८०नवव्याकृतिपण्डिताय नमःचतुर्बाहवे नमःदीनबन्धवे नमःमहात्मने नमःभक्तवत्सलाय नमःसञ्जीवननगाहर्त्रे नमःशुचये नमःवाग्मिने नमःधृतव्रताय नमःकालनेमिप्रमथनाय नमः९०हरिमर्कटमर्कटाय नमःदान्ताय नमःशान्ताय नमःप्रसन्नात्मने नमःशतकण्ठमदापहृते नमःयोगिने नमःरामकथालोलाय नमःसीतान्वेषणपण्डिताय नमःवज्रदंष्ट्राय नमःवज्रनखाय नमः१००रुद्रवीर्यसमुद्भवाय नमःइन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमःपार्थध्वजाग्रसंवासिने नमःशरपञ्जरहेलकाय नमःदशबाहवे नमःलोकपूज्याय नमःजाम्बवत्प्रीतिवर्धनाय नमःसीतासमेतश्रीरामपादसेवाधुरन्धराय नमः
॥इति श्री-हनुमदष्टोत्तरशतनामावलिः सम्पूर्णा॥
हनुमदष्टोत्तरशतनामावलिः
हनुमते नमःअञ्जना-सूनवे नमःधीमते नमःकेसरि-नन्दनाय नमःवातात्मजाय नमःवर-गुणाय नमःवानरेन्द्राय नमःविरोचनाय नमःसुग्रीव-सचिवाय नमःश्रीमते नमः१०सूर्य-शिष्याय नमःसुख-प्रदाय नमःब्रह्म-दत्त-वराय नमःब्रह्म-भूताय नमःब्रह्मर्षि-सन्नुताय नमःजितेन्द्रियाय नमःजितारातये नमःराम-दूताय नमःरणोत्कटाय नमःसञ्जीवनी-समाहर्त्रे नमः२०सर्व-सैन्य-प्रहर्षकाय नमःरावणाकम्प्य-सौमित्रि-नयन-स्फुट-भक्तिमते नमःअशोक-वनिका-च्छेदिने नमःसीता-वात्सल्य-भाजनाय नमःविषीदद्-भूमि-तनयार्पित-रामाङ्गुलीयकाय नमःचूडामणि-समानेत्रे नमःराम-दुःखापहारकाय नमःअक्ष-हन्त्रे नमःविक्षतारये नमःतृणीकृत-दशाननाय नमः३०कुल्या-कल्प-महाम्भोधये नमःसिंहिका-प्राण-नाशनाय नमःसुरसा-विजयोपाय-वेत्त्रे नमःसुर-वरार्चिताय नमःजाम्बवन्नुत-माहात्म्याय नमःजीविताहत-लक्ष्मणाय नमःजम्बुमालि-रिपवे नमःजम्भ-वैरि-साध्वस-नाशनाय नमःअस्त्रावध्याय नमःराक्षसारये नमः४०सेनापति-विनाशनाय नमःलङ्कापुर-प्रदग्ध्रे नमःवालानल-सुशीतलाय नमःवानर-प्राण-सन्दात्रे नमःवालि-सूनु-प्रियङ्कराय नमःमहारूप-धराय नमःमान्याय नमःभीमाय नमःभीम-पराक्रमाय नमःभीम-दर्प-हराय नमः५०भक्त-वत्सलाय नमःभर्त्सिताशराय नमःरघु-वंश-प्रिय-कराय नमःरण-धीराय नमःरयाकराय नमःभरतार्पित-सन्देशाय नमःभगवच्छ्लिष्ट-विग्रहाय नमःअर्जुन-ध्वज-वासिने नमःतर्जिताशर-नायकाय नमःमहते नमः६०महा-मधुर-वाचे नमःमहात्मने नमःमातरिश्व-जाय नमःमरुन्नुताय नमःमहोदार-गुणाय नमःमधु-वन-प्रियाय नमःमहा-धैर्याय नमःमहा-वीर्याय नमःमिहिराधिक-कान्तिमते नमःअन्नदाय नमः७०वसुदाय नमःवाग्मिने नमःज्ञान-दाय नमःवत्सलाय नमःवशिने नमःवशीकृताखिल-जगते नमःवरदाय नमःवानराकृतये नमःभिक्षु-रूप-प्रतिच्छन्नाय नमःअभीति-दाय नमः८०भीति-वर्जिताय नमःभूमी-धर-हराय नमःभूति-दायकाय नमःभूत-सन्नुताय नमःभुक्ति-मुक्ति-प्रदाय नमःभूम्ने नमःभुज-निर्जित-राक्षसाय नमःवाल्मीकि-स्तुत-माहात्म्याय नमःविभीषण-सुहृदे नमःविभवे नमः९०अनुकम्पा-निधये नमःपम्पा-तीर-चारिणे नमःप्रतापवते नमःब्रह्मास्त्र-हत-रामादि-जीवनाय नमःब्रह्म-वत्सलाय नमःजय-वार्ताहराय नमःजेत्रे नमःजानकी-शोक-नाशनाय नमःजानकी-राम-साहित्य-कारिणे नमःजन-सुख-प्रदाय नमः१००बहु-योजन-गन्त्रे नमःबल-वीर्य-गुणाधिकाय नमःरावणालय-मर्दिने नमःराम-पादाब्ज-वाहकाय नमःराम-नाम-लसद्-वक्त्राय नमःरामायण-कथादृताय नमःराम-स्वरूप-विलसन्मानसाय नमःराम-वल्लभाय नमः१०८
॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-हनुमद्-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥
उत्तराङ्ग-पूजा
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, धूपम् आघ्रापयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, नैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। निवेदनोत्तरम् आचमनीयं समर्पयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, समस्त-अपराध-क्षमापणार्थंं समस्त-दुरित-उपशान्त्यर्थं समस्त-सन्मङ्गल-अवाप्त्यर्थं कर्पूर-नीराजनं दर्शयामि।
कर्पूरनीराजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि।
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा।
ओं᳚ तथ्स॒त्यम्।
ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, स्वर्ण-पुष्पम् समर्पयामि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, प्रदक्षिणं करोमि।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, नमस्कारान् समर्पयामि।
प्रार्थना
प्रार्थनाः समर्पयामि।
हनुमत्कृतं श्री-सीता-राम-स्तोत्रम्
॥इति श्री-हनूमत्कृतं श्री-सीतारामस्तोत्रं सम्पूर्णम्॥
छत्रम् समर्पयामि।
चामरम् वीजयामि।
गीतम् गायामि।
वाद्यम् घोषयामि।
आन्दोलिकां समर्पयामि।
अश्वान् आरोहयामि।
गजान् आरोहयामि।
समस्तराजोपचारदेवोपचारपूजाः समर्पयामि।
अर्घ्य-प्रदानम्
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
ममोपात्त + प्रीत्यर्थम् अद्य पूर्वोक्त + शुभतिथौ श्रीरामचन्द्रपूजान्ते अर्घ्यप्रदानं करिष्ये [(इति सङ्कल्प्य)]।
श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-परब्रह्मणे नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।
अनेनार्ध्यप्रदानेन श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्।
श्री-रामनवमी-पुण्यकाले अस्मिन् मया क्रियमाण-श्रीरामपूजायां यद्देयमुपायनदानं तत्प्रतिनिधित्वेन हिरण्यं श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्र-प्रीतिं
कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्।
विसर्जनम्
अस्मात् बिम्बात् श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रं यथास्थानं प्रतिष्ठापयामि।
(अक्षतानर्पित्वा देवमुत्सर्जयेत्।)
अनया पूजया श्री-सीता-लक्ष्मण-भरत-शत्रुघ्न-हनुमत्-समेत-श्री-रामचन्द्रः प्रीयताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।
कथा
अगस्त्य उवाच
सुतीक्ष्ण उवाच
अगस्त्य उवाच
सुतीक्ष्ण उवाच
अगस्त्य उवाच
सुतीक्ष्ण उवाच
अगस्त्य उवाच
॥इति श्रीस्कान्दपुराणे अगस्त्यसंहितायामगस्तिसुतीक्ष्णसंवादे रामनवमीव्रतविधिः सम्पूर्णः॥