श्री-स्कन्द-षष्ठी-पूजा
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — स्कन्द-पूजा
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने
शरद्-ऋतौ तुला/वृश्चिक-मासे कार्तिक-शुक्लपक्षे षष्ठ्यां शुभतिथौ
(इन्दु / भौम / बुध / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायाम्
( ) नक्षत्र ( )-योग (कौलव/तैतिल) करण युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां षष्ठ्यां शुभतिथौ
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-प्रीत्यर्थं प्रसाद-सिद्ध्यर्थम्
अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याणाम् अभिवृद्ध्यर्थं
धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं
मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा
सकल-पापक्षयार्थं गो-भू-धन-धान्य-पुत्र-पौत्रादि अनविच्छिन्न-सन्तति स्थिर-लक्ष्मी-कीर्ति-लाभ शत्रु-पराजयादि सदभीष्ट-सिद्ध्यर्थं दिव्यज्ञान-सिद्ध्यर्थं
यावच्छक्ति-ध्यानावाहनादि षोडशोपचारैः कल्पोक्त-प्रकारेण श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-पूजाराधनं करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः, यथास्थानं प्रतिष्ठापयामि।
(गणपति-प्रसादं शिरसा गृहीत्वा)
घण्टापूजा
कलशपूजा
(कलशं गन्धपुष्पाक्षतैः अभ्यर्च्य)
गङ्गायै नमः। यमुनायै नमः। गोदावर्यै नमः। सरस्वत्यै नमः। नर्मदायै नमः। सिन्धवे नमः। कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्।)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्मपूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
मण्टप-पूजा
ॐ ह्रीं श्रीं मण्डूकादि-परतत्त्वात्म-पर्यन्त-पीठ-शक्ति-देवताभ्यो नमः।
ॐ ह्रीं श्रीं शं शकुन्यै नमः।
ॐ ह्रीं श्रीं रें रेवत्यै नमः।
ॐ ह्रीं श्रीं पूं पूताय नमः।
ॐ ह्रीं श्रीं मं महापूतायै नमः।
ॐ ह्रीं श्रीं निं निशीथिन्यै नमः।
ॐ ह्रीं श्रीं मां मालिन्यै नमः।
ॐ ह्रीं श्रीं शीं शीतलायै नमः।
ॐ ह्रीं श्रीं शुं शुद्धायै नमः।
ॐ ह्रीं श्रीं विं विश्वतोमुख्यै नमः।
षोडशोपचार-पूजा
अस्मिन् कुम्भे सपरिवारं
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनम् ध्यायामि।
अस्मिन् कुम्भे सपरिवारं
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनम् आवाहयामि।
आवाहिता भव। संस्थापिता भव।
सन्निहिता भव। सन्निरुद्धा भव।
अवकुण्ठिता भव। सुप्रीता भव।
सुप्रसन्ना भव। वरदा भव।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, आसनं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, पाद्यं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, अर्घ्यं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, आचमनीयं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मधुपर्कं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, पञ्चामृत-स्नानं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, क्षीरस्नानं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, स्नानं समर्पयामि। स्नानान्तरमाचमनीयं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, वस्त्रं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, यज्ञोपवीतं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, नवमणि-मकुटादि नानाभरणम् समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, गन्धान् धारयामि। गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, अक्षतान् समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मल्लिकादि-सर्वर्तु-पुष्पमालाः समर्पयामि।
अङ्ग-पूजा
| १. | शरवणोद्भूताय नमः | पादौ पूजयामि। |
| २. | रौद्रेयाय नमः | जङ्घे पूजयामि। |
| ३. | सहस्रपदे नमः | जानुनी पूजयामि। |
| ४. | भयनाशनाय नमः | ऊरू पूजयामि। |
| ५. | बालग्रहाच्छाटनाय नमः | मेढ्रं पूजयामि |
| ६. | भक्तपालनाय नमः | गुह्यं पूजयामि। |
| ७. | गुणनिधये नमः | कटिं पूजयामि। |
| ८. | महनीयाय नमः | नाभिं पूजयामि। |
| ९. | सर्वाभीष्टप्रदाय नमः | हृदयं पूजयामि। |
| १०. | विशालवक्षसे नमः | वक्षस्थलं पूजयामि। |
| ११. | शक्तिधराय नमः | हस्तान् पूजयामि। |
| १२. | अभयप्रदानाय नमः | बाहून् पूजयामि। |
| १३. | नीलकण्ठ-तनयाय नमः | कण्ठान् पूजयामि। |
| १४. | पतित-पावनाय नमः | चुबुकानि पूजयामि। |
| १५. | पुरुष-श्रेष्ठाय नमः | नासिकानि पूजयामि |
| १६. | कमललोचनाय नमः | लोचनानि पूजयामि |
| १७. | पुण्यमूर्तये नमः | श्रोत्राणि पूजयामि |
| १८. | कस्तूरी-तिलकाञ्चित-फालाय नमः | ललाटानि पूजयामि |
| १९. | षडाननाय नमः | मुखानि पूजयामि |
| २०. | त्रिलोकगुरवे नमः | ओष्ठानि पूजयामि। |
| २२. | सहस्रशीर्ष्णे नमः | शिरांसि पूजयामि। |
| २३. | भस्मोद्धूलित-विग्रहाय नमः | सर्वाण्यङ्गानि पूजयामि। |
षोडश-नामपूजा
ॐ ज्ञानशक्त्यात्मने नमः
ॐ स्कन्दाय नमः
ॐ अग्निभुवे नमः
ॐ बाहुलेयाय नमः
ॐ गाङ्गेयाय नमः
ॐ शरवणोद्भवाय नमः
ॐ कार्त्तिकेयाय नमः
ॐ कुमाराय नमः
ॐ षण्मुखाय नमः
ॐ कुक्कुटध्वजाय नमः
ॐ शक्तिधराय नमः
ॐ गुहाय नमः
ॐ ब्रह्मचारिणे नमः
ॐ षण्मातुराय नमः
ॐ क्रौञ्चभित्रे नमः
ॐ शिखिवाहनाय नमः
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, धूपम् आघ्रापयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, दीपं दर्शयामि। धूप-दीपानन्तरम् आचमनीयं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, () महानैवेद्यं निवेदयामि।
मध्ये मध्ये अमृतपानीयं समर्पयामि। हस्त-प्रक्षालनं समर्पयामि। गण्डूषं समर्पयामि। पुनः हस्त-प्रक्षालनं समर्पयामि।
पाद-प्रक्षालनं समर्पयामि। आचमनीयं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, ताम्बूलं समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, कर्पूर-नीराजनं दर्शयामि।
पुष्पाञ्जलिं समर्पयामि। आचमनीयं समर्पयामि। रक्षां धारयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
प्रदक्षिणं कृत्वा।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, प्रदक्षिण-नमस्कारान् समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, प्रार्थनाः समर्पयामि।
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, छत्रं समर्पयामि।
चामरयुगलं वीजयामि।
दर्पणं दर्शयामि। गीतं श्रावयामि।
नृत्तं दर्शयामि। आन्दोलिकाम् आरोहयामि।
गजम् आरोहयामि। अश्वम् आरोहयामि।
रथम् आरोहयामि। समस्त-राजोपचार-देवोपचार-पूजाः समर्पयामि।
अर्घ्यप्रदानम्
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् स्कन्दषष्ठी-पुण्यकाले श्री-सुब्रह्मण्य-पूजान्ते अर्घ्यप्रदानं करिष्ये॥
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
[श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥]
अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीयन्ताम्।
स्कन्दषष्ठी-पुण्यकाले अस्मिन् मया क्रियमाण
श्री-सुब्रह्मण्यपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीतिं कामयमानः
मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीयन्ताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।