त्रिंशोऽध्यायः
ईश्वर उवाच
कियत्कियत्ते कथितं माहात्म्यं श्रावणस्य हि।
सर्वं वर्णयितुं शक्यं नालं वर्षशतैरपि॥१॥
प्रियेयं मम कल्याणी हुत्वा दक्षाध्वरे तनुम्।
हिमाचलसुता जाता तेनेयं योजिता मया॥२॥
सेवने श्रावणे मासि तेन मे प्रियकृन्नभाः।
नातिशीतो नाति चोष्णः श्रावणे मासि भूपतिः॥३॥
उद्धूलयित्वा स्वतनुं सर्वां श्रौतेन भस्मना।
श्वेतेनाथ जलार्द्रेण त्रिपुण्ड्रान्द्वादशांश्चरेत्॥४॥
भाले वक्षसि नाभौ च बाह्वोः कूर्परयोस्तथा।
मणिबन्धद्वये चैव कण्ठे मूर्धनि पृष्ठके॥५॥
मानस्तोकेति मन्त्रेण सद्योजातादिमन्त्रतः।
षडक्षरेण मन्त्रेण भस्मना शोभयेत्तनुम्॥६॥
धारयेच्चैव रुद्राक्षानष्टाधिकशतं तनौ।
द्वात्रिंशद्धारयेत्कण्ठे मूर्ध्नि द्वाविंशतिस्तथा॥७॥
कर्णद्वये द्वादशैव चतुर्विंशत्करद्वये।
अष्टाष्ट भुजयोर्भाले एकमेकं शिखाग्रगम्॥८॥
एवं कृत्वा तु मामर्च्य जपेत्पञ्चाक्षरं मनुम्।
श्रावणे मासि विप्रेन्द्र सोऽहमेव न संशयः॥९॥
ज्ञात्वेमं मत्प्रियं मासं पूजयेत्केशवं च माम्।
कृष्णाष्टमी च तत्रापि मम प्रियतरा तिथिः॥१०॥
देवक्या जठरात्तस्मिन्दिने प्रादुरभूद्धरिः।
एतत्ते कथितं लेशात्किमन्यच्छ्रोतुमिच्छसि॥११॥
सनत्कुमार उवाच
यद्यत्कृत्यं पार्वतीश नभोमासि त्वयेरितम्।
आनन्दाब्धौ निमग्नत्वाद् बहुत्वाच्चावधारणा॥१२॥
न स्थिता क्रमशो नाथ ब्रूहि सर्वं यथा तथा।
श्रुत्वा चाव्यवधानेन धारयिष्यामि भक्तितः॥१३॥
ईश्वर उवाच
शृणुष्वावहितो भूत्वा अनुक्रमणिकां शुभाम्।
आदौ प्रश्नः शौनकस्य ततः सूतस्य चोत्तरम्॥१४॥
श्रोतुर्गुणास्तव प्रश्ना निरुक्तिः श्रावणस्य च।
तस्य स्तुतिः पुनः प्रश्नस्तव विस्तरशो मुने॥१५॥
मम स्तुतिस्त्वत्कृता च नामनिर्वचनादिना।
भूयो ममोत्तरं तत्र उद्देश्यः क्रमतोऽखिलः॥१६॥
विशेषतस्तव प्रश्नास्ततो नक्तव्रते विधिः।
रुद्राभिषेककथनं लक्षपूजाविधिस्ततः॥१७॥
दीपदानं परित्यागः कस्यचित्प्रियवस्तुनः।
फलं रुद्राभिषेकेण तथा पञ्चामृतेन च॥१८॥
फलं भूशयनस्यापि तथा मौनव्रतस्य च।
धारणा पारणा चैव ततो मासोपवासने॥१९॥
सोमाख्याने ततो लक्षरुद्रवर्तिविधिः स्मृतः।
कोटिलिङ्गविधानं च व्रतं चानौदनाभिधम्॥२०॥
हविष्याशनमप्यत्र पत्रावल्यां च भोजनम्।
शाकत्यागो भूशयनं प्रातः स्नानं दमः शमः॥२१॥
स्फटिकादिषु लिङ्गेषु अर्चा जपफलं ततः।
प्रदक्षिणा नमस्कारान्वेदपारायणं तथा॥२२॥
विधिः पुरुषसूक्तस्य ग्रहयज्ञविधिस्ततः।
रविचन्द्रकुजानां च क्रमशो व्रतविस्तरः॥२३॥
बुधगुर्वोव्रतं पश्चाच्छुक्रे जीवन्तिकाव्रतम्।
शनौ नृसिंहस्य शनेरनिलाश्वत्थयोस्तथा॥२४॥
रोटकव्रतमाहात्म्यं तत औदुम्बरव्रतम्।
स्वर्णगौरीव्रतं पश्चाद् दूर्वागणपतिव्रतम्॥२५॥
नागव्रतं च पञ्चम्यां षष्ठ्यां सूपौदनव्रतम्।
शीतलाख्यं व्रतं देव्याः पवित्रारोपणं ततः॥२६॥
दुर्गाकुमारीपूजा च आशाव्रतमतः परम्।
उभयैकादशी पश्चात्पवित्रारोपणं हरेः॥२७॥
अनङ्गस्य त्रयोदश्यां ततः शम्भोः पवित्रकम्।
उपाकर्मोत्सर्जने च श्रवणाकर्म चैव हि॥२८॥
ततः सर्पबलिर्वाजिग्रीवजन्ममहोत्सवः।
सभादीपस्तथा रक्षाबन्धः सङ्कटनाशनम्॥२९॥
व्रतं ततः कृष्णजन्माष्टमीव्रतकथानकम्।
व्रतं पिठोरसंज्ञं तु पोलासंज्ञं वृषव्रतम्॥३०॥
दर्भाणां सङ्ग्रहश्चैव नदीनां सरजस्कता।
सिंहे गोप्रसवे शान्तिः कर्कसिंहनभेषु च॥३१॥
दानानि स्नानमाहात्म्यं माहात्म्यश्रवणं तथा।
ततो वाचकपूजा च अगस्त्यार्घ्यं ततः परम्॥३२॥
कर्मणां च व्रतानां च कालनिर्णय ईरितः।
एतन्मासि कृतानां स व्रतानां फलभाग्भवेत्॥३३॥
सनत्कुमार हृदये धारयस्व क्रमं शुभम्॥३४॥
य इमं शृणुतेऽध्यायं माहात्म्यं श्रावणस्य यत्।
तत्फलं समवाप्नोति व्रतानां चैव यत्फलम्॥३५॥
किं बहूक्तेन विप्रर्षे श्रावणे विहितं तु यत्।
तस्य चैकस्य कर्तापि मम प्रियतरो भवेत्॥३६॥
सूत उवाच
सनत्कुमारः पीत्वेदं शिववाक्यामृतं परम्।
श्रुतिद्वारा चाप मोदं कृतकृत्यो बभूव ह॥३७॥
नभोमासं स्तुवञ्छम्भुं स्मरन्स हृदये शिवम्।
शङ्करेणाभ्यनुज्ञातो ययौ देवर्षिसत्तमः॥३८॥
इदं रहस्यं परमं नाख्येयं यस्य कस्यचित्।
भवतो योग्यतां दृष्ट्वा मयैतत्कथितं प्रभो॥३९॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये अनुक्रमणिकाकथनं नाम त्रिंशोऽध्यायः॥३०॥
॥इति श्रावणमासमाहात्म्यं सम्पूर्णम्॥