एकोनत्रिंशोऽध्यायः
ईश्वर उवाच
सनत्कुमार वक्ष्यामि उक्तानां व्रतकर्मणाम्।
काले कदा तु किं कार्यं तच्छृणुष्व महामुने॥१॥
का तिथिः श्रावणे मासि किङ्कालव्यापिनी भवेत्।
ग्राह्या प्रधानं किं तत्र पूजाजागरणादिकम्॥२॥
तत्तत्कथनकाले तु केषाञ्चित्काल ईरितः।
नक्तव्रतस्य कालस्तु उक्तस्तद्व्रतकर्मणि॥३॥
प्रधानं रात्रिभुक्तिस्तु भोजनाभावयुग्दिवा।
उद्यापनं तु सर्वेषां तत्तद्व्रततिथौ भवेत्॥४॥
असम्भवे तु पञ्चाङ्गशुद्धे स्यादधिवासनम्।
द्वितीयदिवसे कुर्याद्धोमादिविधिमादृतः॥५॥
धारणा पारणा चैव ह्रासवृद्धी न कारणम्।
नभः शुक्लप्रतिपदि सङ्कल्प्योपोषणं चरेत्॥६॥
द्वितीयदिवसे भुक्तिस्ततोऽन्यस्मिन्नुपोषणम्।
एवं क्रमेण कुर्वीत हविष्याशी तु पारणे॥७॥
एकादशीपारणाहे उपवासत्रयं तथा।
रविवारव्रतार्चायाः कालः स्यात्प्रातरेव हि॥८॥
सोमवारे प्रधानः स्यात्सायङ्कालः प्रकीर्तितः।
भौमे बुधे गुरौ मुख्यः प्रातःकालश्च पूजने॥९॥
शुक्रवारे पूजनं स्यात्कल्पे रात्रौ च जागरः।
नृसिंहपूजने मन्दे सायङ्कालश्च पूजनम्॥१०॥
शनिव्रते शनैर्दाने मध्याह्ने मुख्य इष्यते।
हनूमतोऽपि मध्याह्नः प्रातरश्वत्थपूजनम्॥११॥
रोटकाख्ये व्रते प्रतिपत्सोमसंयुता।
त्रिमुहूर्तोत्तरा सा स्यादन्यथा पूर्वयोगिनी॥१२॥
वत्स औदुम्बरी द्वितीया तु सायाह्नव्यापिनी मता।
तृतीयासंयुता ग्राह्या द्वयोश्चेत्पूर्ववेधिता॥१३॥
तृतीया स्वर्णगौर्याख्या सा चतुर्थीयुता भवेत्।
चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते॥१४॥
नागानां पूजने शस्ता षष्ठीयुक्ता च पञ्चमी।
सूपौदनव्रते षष्ठी सायाने सप्तमीयुता॥१५॥
मध्याह्नव्यापिनी ग्राह्या सप्तमी शीतलाव्रते।
पवित्रारोपणेऽष्टम्यां देव्या रात्रियुता तिथिः॥१६॥
कुमारीनवमी नक्तव्यापिनी तु प्रशस्यते।
आशासंज्ञा तु दशमी सा नक्तव्यापिनी भवेत्॥१७॥
त्याज्या विद्धैकादशी तु तत्र वेधं मुने शृणु।
अरुणोदयवेधस्तु दशम्या वैष्णवान्प्रति॥१८॥
आदित्योदयवेधस्तु स्मार्तानां निन्द्य एव सः।
अरुणोदयकालस्तु यामार्धं चरमं निशः॥१९॥
एवं रीत्या यस्य भवेद् द्वादशी सा पवित्रके।
त्रयोदशी त्वनङ्गस्य व्रते स्याद् रात्रियोगिनी॥२०॥
द्वितीययामे तत्रापि प्रशस्ततरा भवेत्।
पवित्रारोपणे शम्भो रात्रिगा स्याच्चतुर्दशी॥२१॥
अतिप्रशस्ता तत्रापि निशीथव्यापिनी तु या।
उपाकर्मणि चोत्सर्गे पूर्णिमा श्रवणं च भम्॥२२॥
त्रिमुहूर्तं द्वितीयेऽह्नि तदा ग्राह्यं परं दिनम्।
नोचेदनुष्ठितः पूर्वं तैत्तिराणां च बह्वृचाम्॥२३॥
तैत्तिराणां च यजुषां मुहूर्तत्रयगामपि।
उत्तरस्मिन्पूर्वमेव दिनं स्यात्कर्मणि द्वयोः॥२४॥
मुहूर्तानन्तरं पूर्वदिने चेत्सङ्गतिर्भवेत्।
पूर्णिमाश्रवण च मुहूर्तद्वितयात्पुरा॥२५॥
उत्तरस्मिन्समाप्तं चेत्तदा पूर्वदिनं भवेत्।
हस्तभे त्वपराह्णे स्याद् ग्राह्यं तत्सामवेदिभिः॥२६॥
दिनद्वये तदा स्याच्चेत्पूर्वमेव दिनं भवेत्।
उपाकर्मप्रयोगान्ते कालो दीपस्य संसदः॥२७॥
श्रवणाकर्मणि प्रोक्तः कालः सर्वबलौ तथा।
पर्वणोऽह्नि भवेद् रात्रौ स्वस्वगृह्यानुसारतः॥२८॥
स्यादस्तमययोगिनी।
हयग्रीवोत्सवे पूर्णा मध्याह्नव्यापिनी भवेत्॥२९॥
पौर्णिमात्र प्रशस्ता वा अपराह्णव्यापिनी स्याद्रक्षाबन्धनकर्मणि।
चन्द्रोदयव्यापिनी च स्यात्सङ्कष्टचतुर्थिका॥३०॥
उभयत्र यदा सा स्यान्न स्याद्वा पूर्वगा भवेत्।
चतुर्थी च तृतीयायां महापुण्यफलप्रदा॥३१॥
कर्तव्या व्रतिभिर्वत्स गणनाथसुतोषिणी।
गणेशगौरीबहुलाव्यतिरिक्ताः प्रकीर्तिताः॥३२॥
चतुर्थ्यः पञ्चमीविद्धा देवतान्तरपूजने।
निशीथव्यापिनी ग्राह्या कृष्णजन्माष्टमी तिथिः॥३३॥
षट्प्रकारा तु सर्वत्र निर्णये तिथिरिष्यते।
पूर्णव्याप्तिर्द्वयोरनोरव्याप्तिरपि केवला॥३४॥
अंशतश्च समा व्याप्तिरंशतो विषमा तथा।
सम्पूर्णव्याप्तिरेकत्र अंशतश्च परेऽहनि॥३५॥
अंशतो व्याप्तिरेकत्र अव्याप्तिरपरत्र च।
पक्षत्रये तु सन्देहो यथा नास्ति तथा शृणु॥३६॥
अंशतो विषमव्याप्तावधिका व्याप्तिरुत्तमा।
एकत्र पूर्णा चान्यत्र सापूर्णा चोच्यते तिथिः॥३७॥
अव्याप्तिरंशतो व्याप्तिस्तत्रांशव्याप्तिरुत्तमा।
अंशव्याप्तिर्यदा पूर्णा अंशतश्च समा यदा॥३८॥
संशयस्तत्र भवति तस्य स्यान्निर्णयो भिदा।
क्वचिद्भवेद्युग्मवाक्याद्वारनक्षत्रयोगतः॥३९॥
प्रधानद्वययोगेन पारणायोगतः क्वचित्।
जन्माष्टम्यां तु सन्देहे त्रिपक्षे तु परा भवेत्॥४०॥
अष्टम्यन्ते पारणं स्याद्यदि यामत्रयात्परा।
समाप्येत तदूर्ध्वं चेदष्टम्युषसि पारणा॥४१॥
व्रते पिठोरसंज्ञेऽमा मध्यानव्यापिनी शुभा।
वृषभाणां पूजने तु अमा सायन्तनी भवेत्॥४२॥
दर्भाणां सञ्चये चैव सङ्गवः काल ईरितः।
त्रिंशत्पुण्याः पूर्वनाड्यः कर्कसङ्क्रमणे रवेः॥४३॥
पुण्याः षोडश नाड्यस्तु सिंहे पूर्वाः परा अपि।
केचिदिच्छन्ति मुनयः पूर्वा एव तु षोडश॥४४॥
अगस्त्यार्घ्यस्य कालस्तु व्रत एव प्रकीर्तितः।
अयं ते कथितो वत्स कर्मणां कालनिर्णयः॥४५॥
य इदं शृणुतेऽध्यायं यश्चापि परिकीर्तयेत्।
नभोमासि कृतानां स व्रतानां लभते फलम्॥४६॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये व्रतनिर्णयकालनिर्णयकथनं नाम एकोनत्रिंशोऽध्यायः॥२९॥