अष्टाविंशोऽध्यायः
ईश्वर उवाच
अतः परं प्रवक्ष्यामि अगस्त्यार्घ्यविधिं परम्।
येन चीर्णेन वैधात्र सर्वान्कामानवाप्नुयात्॥१॥
कालस्य नियमो ज्ञेय अगस्त्यस्योदयात्पुरा।
समरात्राद्भवेद्यावदुदयः सप्तरात्रकम्॥२॥
दद्यादर्घ्यं प्रत्यहं च तद्विधिं ते वदाम्यहम्।
प्रातः शुक्लतिलैः स्नात्वा शुक्लमाल्याम्बरो गृही॥३॥
स्थापयेदव्रणं कुम्भं सुवर्णादिविनिर्मितम्।
पञ्चरत्नसमायुक्तं घृतपात्रेण संयुतम्॥४॥
कुम्भोद्भवस्य प्रतिमां तत्र पात्रे निधापयेत्।
अङ्गुष्ठमात्रं पुरुषं सौवर्णं च चतुर्भुजम्॥५॥
नानाभक्ष्यफलैर्युक्तं माल्यवस्त्रविभूषितम्।
ताम्रेण पूर्णपात्रेण उपरिस्थेन भूषितम्॥६॥
पीनात्यायतदोर्दण्डं दक्षिणाभिमुखं मुनिम्।
सुशोभनं प्रशान्तं च जटामण्डलधारिणम्॥७॥
कमण्डलुकरं शिष्यैर्बहुभिः परिवारितम्।
तथा दर्भाक्षतधरं लोपामुद्रासमन्वितम्॥८॥
आवाहयेत्पूजयेच्च गन्धपुष्पादिभिस्तथा।
उपचारैः षोडशभिर्नैवेद्यैर्बहुविस्तरैः॥९॥
दध्योदनबलिं दद्याद्भक्तियुक्तेन चेतसा।
ततश्चार्घः प्रदातव्यस्तं चैव विधिवच्छृणु॥१०॥
सौवर्णे वाथ रौप्ये वा ताम्रे वेणुमयेऽथ वा।
पात्रे नारङ्गखर्जूरीनारिकेलफलानि च॥११॥
कूष्माण्डकारवल्लीनि कदलीदाडिमानि च।
वृन्ताकबीजपूराणि अक्षोटाः पिस्तकास्तथा॥१२॥
नीलोत्पलानि पद्मानि कुशदूर्वाङ्कुरास्तथा।
अन्यान्यपि च साध्यानि फलानि कुसुमानि च॥१३॥
नानाप्रकारभक्ष्याणि सप्तधान्यानि चैव हि।
सप्ताङ्कुराः पल्लवाश्च पञ्च वस्त्राणि चैव हि॥१४॥
एतान्पदार्थान्संस्थाप्य सम्यक्प्रपूजयेत्।
जानुभ्यामवनिं गत्वा तत्पात्रं नम्रमूर्धनि॥१५॥
धृत्वावाचिमुखो भूत्वा ध्यायेत्कुम्भोद्भवं मुनिम्।
दद्यादर्घ्यं प्रयत्नेन श्रद्धाभक्तिपुरःसरम्॥१६॥
काशपुष्पप्रतीकाश वह्निमारुतसम्भव।
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते॥१७॥
विन्ध्यवृद्धिक्षयकर मेघतोयविषापह।
रत्नवल्लभ देवर्षे लङ्कावास नमोऽस्तु ते॥१८॥
आतापी भक्षितो येन वातापी च महाबलः।
लोपामुद्रापतिः श्रीमान्योऽसौ तस्मै नमो नमः॥१९॥
येनोदितेन पापानि विलयं यान्ति चाधयः।
व्याधयस्त्रिविधास्तापास्तस्मै नित्यं नमो नमः॥२०॥
यादः पूर्णः सरिन्नाथो येन वै शोषितः पुरा।
सपुत्राय सशिष्याय सपत्नीकाय वै नमः॥२१॥
अगस्त्यस्यायमर्घो वै द्विजातिर्वेदमन्त्रतः।
शूद्रः पौराणमन्त्रेण दत्त्वार्घ्यं प्रणमेत्सुधीः॥२२॥
राजपुत्रि महाभागे ऋषिपनि वरानने।
लोपामुद्रे नमस्तुभ्यमर्घ्यं मे प्रतिगृह्यताम्॥२३॥
ततो होमं प्रकुर्वीत अर्घ्यमन्त्रेण मन्त्रवित्।
आज्येनाष्टसहस्रं वा शतमष्टोत्तरं तु वा॥२४॥
कृत्वैवं च ततोऽगस्त्यं प्रणिपत्य विसर्जयेत्।
अचिन्त्यचरितागस्त्य यथागस्त्यः प्रपूजितः॥२५॥
ऐहिकामुष्मिकीं कृत्वा कार्यसिद्धिं व्रजस्व भोः।
विसर्जयित्वागस्त्यं तं विप्राय प्रतिपादयेत्॥२६॥
वेदवेदाङ्गविदुषे दरिद्राय कुटुम्बिने।
अगस्त्यो द्विजरूपेण प्रतिगृह्णातु सत्कृतः॥२७॥
अगस्त्यः प्रतिगृह्णाति ह्यगस्त्यो वै ददाति च।
उभयोस्तारकोऽगस्त्यो ह्यगस्त्याय नमो नमः॥२८॥
मन्त्रद्वयेन दद्यात्तु ब्राह्मणस्तु जपेन्मनुम्।
वैदिकं पूर्वविहितं पौराणं शूद्र एव तु॥२९॥
श्वेतां धेनुं ततो दद्याद्धेमशृङ्गीं पयस्विनीम्।
सहवत्सां रौप्यखुरां ताम्रपृष्ठीं सुशोभनाम्॥३०॥
कांस्यदोहनिकायुक्तां घण्टावस्त्रसमन्विताम्।
एवं सप्तदिनं दत्त्वा अर्घ्यं प्रागुदयान्मुनेः॥३१॥
सप्तमे दिवसे धेनुं प्रदद्याच्च सदक्षिणाम्।
एवं कृत्वा सप्तवर्षमकामश्चेन्न जन्मभाक्॥३२॥
सकामश्चक्रवर्तित्वं रूपारोग्यसमन्वितः।
ब्राह्मणः स्याच्चतुर्वेदसर्वशास्त्रविशारदः॥३३॥
क्षत्रियः पृथिवीं सर्वां प्राप्नोत्यर्णवमेखलाम्।
वैश्यश्चेद्धान्यनिष्पत्तिं गोधनं चापि विन्दति॥३४॥
शूद्राणां धनमारोग्यं सत्यं चैवाधिकं भवेत्।
स्त्रीणां पुत्राः प्रजायन्ते सौभाग्यं गृहमृद्धिमत्॥३५॥
विधवानां महापुण्यं वर्धते विधिनन्दन।
कन्या भर्तारमाप्नोति व्याधेर्मुच्येत दुःखितः॥३६॥
येषु देशेष्वगस्त्यस्य पूजनं क्रियते नरैः।
तेषु देशेषु पर्जन्यः कामवर्षी प्रजायते॥३७॥
ईतयः प्रशमं यान्ति नश्यन्ति व्याधयस्तथा।
पठन्ति ये त्वगस्त्यस्य ह्यर्घ्यं शृण्वन्ति केचन॥३८॥
ते सर्वे पापनिर्मुक्ताश्चिरं स्थित्वा महीतले।
हंसयुक्तविमानेन स्वर्गे यान्ति नरोत्तमाः॥३९॥
यावज्जीवं करिष्यन्ति निष्कामं मुक्तिभागिनः॥४०॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये अगस्त्यार्घ्यविधिर्नामाष्टाविंशोऽध्यायः॥२८॥