सप्तविंशोऽध्यायः

ईश्वर उवाच

अथातः श्रावणे कर्कसिंहसङ्क्रान्तिसम्भवः।
प्राप्यते तत्र यत्कृत्यं तच्चापि कथयामि ते॥१॥
सिंहकर्कटयोर्मध्ये सर्वा नद्यो रजस्वलाः।
तासु स्नानं न कुर्वीत वर्जयित्वा समुद्रगाः॥२॥
अगस्त्योदयपर्यन्तं केचिदूचुर्महर्षयः।
यावन्नोदेति भगवान्दक्षिणाशाविभूषणः॥३॥
तावद्रजोवहा नद्य अल्पतोयाः प्रकीर्तिताः।
याः शोषमुपगच्छन्ति ग्रीष्मे तु सरितो भुवि॥४॥
तासु प्रावृषि न स्नायादपूर्णे दशवासरे।
धनुःसहस्राण्यष्टौ च गतिर्यासां स्वतो नहि॥५॥
न ता नदीशब्दवाच्या गर्तास्ते परिकीर्तिताः।
प्रारम्भे कर्कसङ्क्रान्तेर्महानद्यो रजस्वलाः॥६॥
त्रिदिनं तु चतुर्थेऽह्नि शुद्धाः स्युर्योषितो यथा।
महानदीः प्रवक्ष्यामि शृणुष्वावहितो मुने॥७॥
गोदावरी भीमरथी तुङ्गभद्रा च वेणिका।
तापी पयोष्णी विन्ध्यस्य दक्षिणे षट् प्रकीर्तिताः॥८॥
भागीरथी नर्मदा च यमुना च सरस्वती।
विशोका च वितस्ता च विन्ध्यस्योत्तरतोऽपि षट्॥९॥
द्वादशैता महानद्यो देवर्षिक्षेत्रसम्भवाः।
महानद्यो देविका च कावेरी वञ्जरा तथा॥१०॥
कृष्णा रजस्वला एताः कर्कटादावहर्मुने।
कर्कटादौ रजोदुष्टा गौतमी वासरत्रयम्॥११॥
चन्द्रभागा सती सिन्धुः शरयूर्नर्मदा तथा।
गङ्गा च यमुना चैव प्लक्षजाला सरस्वती॥१२॥
रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञिताः।
शोणः सिन्धुर्हिरण्याख्यः कोकिलाहितघर्घराः॥१३॥
शतद्रुश्च नदाः सप्त पावनाः परिकीर्तिताः।
गङ्गा धर्मद्रवा पुण्या यमुना च सरस्वती॥१४॥
अन्तर्गता रजोदोषाः सर्वावस्थासु चामलाः।
अपामयं रजोदोषो न भवेत्तीरवासिनाम्॥१५॥
जलं रजोदुष्टमपि गङ्गातोयेन पावनम्।
अजा गावो महिष्यश्च योषितश्च प्रसूतिकाः॥१६॥
भूमेर्नवोदकं चैव दशरात्रेण शुध्यति।
अभावे कूपवापीनामन्यासां च पयोऽमृतम्॥१७॥
रजोदुष्टेऽपि वयसि ग्रामभोगो न दुष्यति।
अन्येन चोद्धृते नीरे रजोदोषो न विद्यते॥१८॥
उपाकर्मणि चोत्सर्गे प्रातः स्नाने विपत्सु च।
चन्द्रसूर्यग्रहे चैव रजोदोषो न विद्यते॥१९॥
अतः परं प्रवक्ष्यामि सिंहे गोप्रसवो यदि।
भानौ सिंहगते चैव यस्य गौः सम्प्रसूयते॥२०॥
मरणं तस्य निर्दिष्टं षड्भिर्मासैर्न संशयः।
तत्र शान्तिं प्रवक्ष्यामि येन सम्पाद्यते सुखम्॥२१॥
प्रसूतां तत्क्षणादेव तां गां विप्राय दापयेत्।
ततो होमं प्रकुर्वीत घृताक्तै राजसर्षपैः॥२२॥
आहुतीनां घृताक्तानां तिलानां जुहुयात्ततः।
सहस्रेण व्याहृतिभिरष्टसङ्ख्याधिकेन च॥२३॥
सोपवासः प्रयत्नेन दद्याद् विप्राय दक्षिणाम्।
सिंहराशौ गते सूर्ये गोष्ठसूतिर्यदा भवेत्॥२४॥
तदानिष्टं भवेत्किञ्चित्तच्छान्त्यै शान्तिकं चरेत्।
अस्य वामेति सूक्तेन तद्विष्णोरिति मन्त्रतः॥२५॥
जुहुयाच्च तिलाज्येन शतमष्टोत्तराधिकम्।
मृत्युञ्जयविधानेन जुहुयाच्च तथायुतम्॥२६॥
श्रीसूक्तेन ततः स्नायाच्छान्तिसूक्तेन वा पुनः।
एवं कृतविधानेन न भयं जायते क्वचित्॥२७॥
एवमेव नभोमासि सूयेत वडवा दिने।
अत्रापि शान्तिकं कार्यं तदा दोषो विनश्यति॥२८॥
कर्के सिंहे नभोदानमथ वक्ष्ये शुभप्रदम्।
घृतधेनुप्रदानं च कर्कटस्थे दिवाकरे॥२९॥
ससुवर्णं छत्रदानं शस्तं सिंहे निगद्यते।
श्रावणे वस्त्रदानस्य कीर्तितं सुमहत्फलम्॥३०॥
घृतं च घृतकुम्भाश्च घृतधेनुः फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिते॥३१॥
अन्यान्यपि च दानानि मत्तोषाय कृतानि च।
अक्षय्यफलदानि स्युरन्यमासेभ्य एव हि॥३२॥
द्वादशस्वपि मासेषु नास्ति चैतादृशः प्रियः।
आगच्छति नभोमासि प्रतीक्षां च करोम्यहम्॥३३॥
करिष्यते व्रतं योऽत्र स मे प्रियतरो भवेत्।
ब्राह्मणानां विधू राजा सूर्यः प्रत्यक्षदैवतम्॥३४॥
ममाक्षिणी तयोरत्र सङ्क्रान्ती भवतो यतः।
कर्कसंज्ञा सिंहसंज्ञा माहात्म्यं किमतः परम्॥३५॥
प्रातः स्नानं मासमात्रमत्र यः कुरुते नरः।
द्वादशस्वपि मासेषु प्रातः स्नानफलं लभेत्॥३६॥
न करोति नभोमासि प्रातः स्नानं यदा नरः।
द्वादशस्वपि मासेषु कृतं निष्फलतामियात्॥३७॥
महादेव दयासिन्धो श्रावणे मास्युषस्यहम्।
प्रातः स्नानं करिष्यामि निर्विघ्नं कुरु मे प्रभो॥३८॥
स्नात्वा शिवं समभ्यर्च्य नभोमाहात्म्यसत्कथाम्।
शृणुयात्प्रत्यहं भक्त्या एवं मासं नयेत्सुधीः॥३९॥
अन्यत्र मासः कृष्णादिरत्र शुक्लादिरिष्यते।
नभोमासकथायास्तु माहात्म्यं केन वर्ण्यते॥४०॥
सप्तधापि च या वन्ध्या सा पुत्रं लभते शुभम्।
विद्यार्थी लभते विद्यां बलार्थी लभते बलम्॥४१॥
रोगी चारोग्यमाप्नोति बद्धो मुच्येत बन्धनात्।
धनं धनार्थी लभते धर्मे चैव रतिर्भवेत्॥४२॥
भार्यार्थी लभते भार्यां किं बहूक्तेन मानद।
यद्यत्कामयते तत्तत्प्राप्नोत्यत्र न संशयः॥४३॥
अन्ते मम पुरं प्राप्य मोदते मम सन्निधौ।
पूजयेद् वाचकं सम्यग्वासोऽलङ्करणादिभिः॥४४॥
वाचकस्तोषितो येन तेनाहं तोषितः शिवः।
श्रुत्वा श्रावणमाहात्म्यं वाचकं यो न पूजयेत्॥४५॥
छिनत्ति रविजस्तस्य कर्णौ स बधिरो भवेत्।
तस्माच्छक्त्या प्रकुर्वीत वाचकस्य सुपूजनम्॥४६॥
इदं श्रावणमाहात्म्यं यः पठेच्छृणुयादपि।
श्रावयेद्वापि सद्भक्त्या तस्य पुण्यमनन्तकम्॥४७॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये नदीरजोदोषसिंहगोप्रसव-सिंहकर्कटश्रावणस्तुतिवाचकपूजाकथनं नाम सप्तविंशोऽध्यायः॥२७॥