षड्विंशोऽध्यायः
ईश्वर उवाच
यत्कर्तव्यं नभोमासि अमावास्यादिने भवेत्।
प्रसङ्गतश्च यच्चान्यत्स्मृतं तदपि ते ब्रुवे॥१॥
पुरा नानाविधैर्दैत्यैर्महाबलपराक्रमैः।
जगद्विध्वंसकैर्दुष्टैर्देवतोच्छेदकारिभिः॥२॥
सङ्ग्रामा बहवो जाता आरुह्य वृषभं शुभम्।
महासत्त्वो महावीर्यो न कदाचिज्जहौ च माम्॥३॥
अन्धकासुरयुद्धे तु तेन छिन्नतनुः कृतः।
भिन्नत्वग्रुधिरस्रावी प्राणमात्रावशेषितः॥४॥
तथापि धैर्यमालम्ब्य यावद्धन्मि च तं खलम्।
उवाह तावन्मां नन्दी तस्य तज्ज्ञातवाहनम्॥५॥
हत्वा तमन्धकं दैत्यं तुष्टोऽहं नन्दिनं तदा।
कर्मणा ते प्रसन्नोऽस्मि वरं वरय सुव्रत॥६॥
व्रणास्ते प्रशमं यान्तु निरोगो बलवान्भव।
पूर्वस्मादपि ते वीर्यं रूपं चापि विवर्धताम्॥७॥
यं यं वरं याचसे त्वं तं तं दास्याम्यसंशयम्॥८॥
नन्दिकेश्वर उवाच
ममास्ति तथापि याचनीयं न देवदेव महेश्वर।
ममोपरि प्रसन्नोऽसि किं वैभवमतः परम्॥९॥
तथापि भगवन् याचे लोकोपकृतये शिव।
अद्यामा श्रावणस्यास्ति यस्यां तुष्टो भवान्मम॥१०॥
एतस्यां वृषभाः पूज्या गोभिर्युक्ताः सुमृन्मयाः।
अद्यैवामादिने जन्म कामधेनूपमं भवेत्॥११॥
अतोऽप्यस्यां वरं देहि भवत्वेषेच्छितप्रदा।
प्रत्यक्षं वृषभा गावः पूजनीयाश्च भक्तितः॥१२॥
धातुभिर्गैरिकाद्यैश्च भूषणीयाः प्रयत्नतः।
शृङ्गेषु स्वर्णरौप्यादिपट्टिकाबन्धशोभनम्॥१३॥
कौशेयगुच्छान्महतः शृङ्गयोरपि बन्धयेत्।
पृष्ठं नानाविधैर्वर्णैश्चित्रितेन सुवाससा॥१४॥
आच्छादयेद् गले घण्टां बध्नीयाद्रम्यशब्दिताम्।
दिनाष्टांशे बहिर्नीत्वा सायं ग्रामं प्रवेशयेत्॥१५॥
पिण्यातकं च नैवेद्यं अन्नं नानाविधं च यत्।
अर्पयेत्तस्य भवतु गोधनं वृद्धिगं सदा॥१६॥
गावो यत्र गृहे न स्युः श्मशानसदृशं च तत्।
पञ्चामृतं पञ्चगव्यं न भवेद् गोरसं विना॥१७॥
सम्मार्जनं पूततमं गोमयेन विना न हि।
पिपीलिकादिजन्तूनामुपसर्गाश्च तत्र हि॥१८॥
प्रोक्षणं यत्र गोमूत्रान्न भवेच्च सुरोत्तम।
भोजनस्य महादेव को रसो गोरसं विना॥१९॥
एतेऽन्येऽपि वरा देयाः प्रसन्नोऽसि यदि प्रभो।
इति नन्दिवचः श्रुत्वा तुष्टोऽहमधिकं तदा॥२०॥
सर्वमस्तु वृषश्रेष्ठ यथा ते याचितं तथा।
अन्यच्च शृणु भो नन्दिन्नामास्य तु दिनस्य यत्॥२१॥
न वाह्यते यो वृषभः केनचित्कर्मणि क्वचित्।
तृणमश्नन्पिबन्नीरं तूष्णीं यो वर्धते वृषः॥२२॥
महावीरश्च बलवान्पोल इत्युच्यते हि सः।
तन्नाम्नेदं दिनं नन्दिन्पोला इति भविष्यति॥२३॥
तत्रोत्सवो महान् कार्य इष्टबन्धुजनैः सह।
इति दत्ता मया वत्स वराः श्रेष्ठा हि तद्दिने।
तेन श्रेष्ठं दिनं चैतत्पोलासंज्ञं मतं जनैः॥२४॥
अत्रोत्सवो महान् कार्यो वृषाणां सर्वकामदः।
अतः परं प्रवक्ष्यामि अस्यामेव कुशग्रहम्॥२५॥
नभोमासस्य दर्शे तु शुचिर्दर्भान्समाहरेत्।
अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः॥२६॥
कुशाः काशा यवा दूर्वा उशीराश्च सकूदकाः।
गोधूमा व्रीहयो मौञ्ज्या दश दर्भाः सबल्वजाः॥२७॥
विरिञ्चिना सहोत्पन्न परमेष्ठीनिसर्गज।
नुद पापानि सर्वाणि दर्भ स्वस्तिकरो भव॥२८॥
एवं सन्मन्त्रमुच्चार्य ततः पूर्वोत्तरामुखः।
हुंफट्कारेण मन्त्रेण सकृच्छित्वा समुद्धरेत्॥२९॥
अच्छिन्नाग्रा अशुष्काग्राः पैत्र्ये तु हरिताः स्मृताः।
अमूला देवकार्येषु प्रयोज्याश्च जपादिषु॥३०॥
सप्तपत्राः कुशाः शस्ता दैवे पित्र्ये च कर्मणि।
अनन्तर्गर्भिणौ साग्रौ प्रादेशौ च पवित्रके॥३१॥
चतुर्भिर्दर्भपिञ्जलैः पवित्रं ब्राह्मणस्य तु।
एकैकं न्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम्॥३२॥
सर्वेषां वा भवेद् द्वाभ्यां पवित्रं ग्रन्थिशोभितम्।
इदं तु धारणार्थं स्यात्पवित्रं कथितं तव॥३३॥
दर्भद्वयं तु सर्वेषां भवेदुत्पवनाय च।
पञ्चाशता भवेद् ब्रह्मा तदर्धेन तु विष्टरः॥३४॥
निष्कासनीयं नो हस्तादाचमे तु पवित्रकम्।
विकिरेऽग्नौ कृते चैव कृते पाद्ये तु सन्त्यजेत्॥३५॥
नास्ति दर्भसमं पुण्यं पवित्रं पापनाशनम्।
दर्भाधीनानि कर्माणि दैवपित्र्याणि सर्वशः॥३६॥
तादृग्विधानां दर्भाणाममायां ग्रहणं भवेत्।
अयातयामता चैव किं वर्ण्यामा नभस्यतः॥३७॥
इत्येतत्कथितं कृत्यममायां श्रावणे तु यत्।
अन्यच्च श्रावणे कृत्यं तच्चापि कथयामि ते॥३८॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये अमायां वृषभपूजनं कुशग्रहणं नाम षड्विंशोऽध्यायः॥२६॥