पञ्चविंशोऽध्यायः
ईश्वर उवाच
वक्ष्ये मुनिश्रेष्ठ पिठोरीव्रतमुत्तमम्।
अमायां श्रावणे मासि सर्वसम्पत्प्रदायकम्॥१॥
सर्वाधिष्ठानमेतद्यद्गृहं पीठं ततो मतम्।
आरस्तत्रसमूहः स्याद्वस्तुमात्रस्य पूजने॥२॥
पिठोरमितिसंज्ञा च व्रतस्यातो मुनीश्वर।
तत्प्रकारं च वक्ष्येऽहं सावधानमनाः शृणु॥३॥
कुड्ये विलिप्य ताम्रेण कृष्णेनाथ सितेन वा।
धातुना तत्र ताम्रे तु पीतेन विलिखेत्सुधीः॥४॥
शुक्लेन वाथ कृष्णेन पूर्ववच्चैव संलिखेत्।
सितपीतेन रक्तेन कृष्णेन हरितेन वा॥५॥५॥
मध्ये शिवं शिवायुक्तं लिङ्गं वा मूर्तिमेव वा।
विस्तीर्णं कुड्यमालिख्य सर्वसंसारमालिखेत्॥६॥
चतुःशालासमायुक्तं पाकागारं सुरालयम्।
शय्यागृहं सप्तकोशांस्तथान्तः स्त्रीनिकेतनम्॥७॥
प्रासादाट्टालिकाशोभं शालवृक्षसमुद्भवम्।
इष्टकाभिश्च पाषाणैश्चूर्णनद्धैः सुशोभनम्॥८॥
द्वाराणि च विचित्राणि वलभीचेष्टिकास्तथा।
अजा गावो महिष्यश्च अश्वा उष्ट्रा मतङ्गजाः॥९॥
गन्त्रीरथप्रभृतयः शकटानां प्रभेदकाः।
स्त्रियो बालाश्च वृद्धाश्च तरुण्यः पुरुषास्तथा॥१०॥
पालक्यान्दोलिका चैव मञ्चका बहुरूपकाः॥११॥
हैमानि रौप्याणि च ताम्रकाणि सैसानि लौहानि च मृन्मयानि।
रङ्गप्रसूतानि च पैत्तलानि पात्राणि नानाविधकारकाणि॥१२॥
यावन्तः कशिपुभेदा उपबर्हणजातयः।
मार्जाराः सारिकाश्चैव शुभा अन्येऽपि पक्षिणः॥१३॥
पुरुषाणामलङ्काराः स्त्रीणां चैवाप्यनेकशः।
यानि चास्तरणानीह तथा प्रावरणानि च॥१४॥
यज्ञपात्राणि यावन्ति स्तम्भदण्डौ च मन्थने।
रज्जुत्रयं च तद्धेतु दुग्धं च नवनीतकम्।
दधि तक्रं तथा मस्तु आज्यं तैलं तिलांस्तथा॥१५॥
गोधूमशालितुवरीयवयावनालवार्तानलञ्च चणका मसुराः कुलित्थाः।
मुद्गप्रियङ्गतिलकोद्रवकातसीतिश्यामाकमाषचवला इति धान्यवर्गाः॥१६॥
दृषदं चोपलं चुल्लीं तथा सम्मार्जनीमपि।
पुरुषाणां च वस्त्राणि नारीणां चैव सर्वशः॥१७॥
वेणुजन्यं च शूर्पादि तथा तृणभवानि च।
उलूखलं च मुसलं यन्त्रं दलयुगान्वितम्॥१८॥
व्यजनं चामरं छत्रमुपानत्पादुकाद्वयम्।
दास्यो दास्या भृत्यपोष्याः पशुभक्ष्यं तृणादिकम्॥१९॥
धनुर्बाणशतघ्न्यश्च खड्गाः कुन्ताश्च शक्तयः।
चर्मपाशाङ्कुशगदास्त्रिशूलं भिन्दिपालकाः॥२०॥
तोमरो मुद्गरश्चैव परशुः पट्टिशस्तथा।
भुशुण्डी परिघश्चैव चक्रयन्त्रादिकं च यत्॥२१॥
जलयन्त्रं मषीपात्रं लेखनी पुस्तकादिकम्।
फलजातं सर्वमपि छुरिका कर्तरी तथा॥२२॥
नानाविधानि पुष्पाणि बिल्वश्च तुलसी तथा।
दीपिकाश्चैव दीपाश्च तथा तत्साधनानि च॥२३॥
शाकं नानाविधं भक्ष्यं पक्वान्नानां च या भिदः।
लेख्यं तच्चैव सकलमनूक्तमपि चैव हि॥२४॥
कियल्लेख्यं जनेनात्र वक्तव्यं वा मया कियत्।
एकैकस्य पदार्थस्य भेदाः शतसहस्रशः॥२५॥
उपचारैः षोडशभिः सर्वेषां पूजनं भवेत्।
नानाविधश्च गन्धः स्यात्पुष्पधूपोऽपि चन्दनम्॥२६॥
ब्राह्मणान्भोजयेद् बालान्सुवासिन्यश्च पुष्कलान्।
प्रार्थयेच्च शिवं साम्बं व्रतं सम्पूर्णमस्त्विति॥२७॥
शिव साम्ब दयासिन्धो गिरीश शशिशेखर।
व्रतेनानेन सन्तुष्टः प्रयच्छास्मान्मनोरथान्॥२८॥
एवं कृत्वा पञ्चवर्षं तत उद्यापनं चरेत्।
आज्येन बिल्वपत्रैश्च होमः स्याच्छिवमन्त्रतः॥२९॥
ग्रहहोमः पुरा कार्यः पूर्वेद्युरधिवासनम्।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा॥३०॥
होमसङ्ख्या भवेद्वत्स आचार्यं पूजयेत्ततः।
भूयसीं दक्षिणां दद्यात्स्वयं भोजनमाचरेत्॥३१॥
इष्टबन्धुजनैः सार्धं कुटुम्बसहितो बुधः।
एवं कृते विधाने तु सर्वान्कामानवाप्नुयात्।
यद्यदिष्टतमं लोके तत्सर्वं लभते नरः॥३२॥
एतत्ते कथितं वत्स पिठोरीव्रतमुत्तमम्।
व्रतेनानेन सदृशं सर्वकामसमृद्धिदम्॥३३॥
शिवप्रीतिकरं चैव न भूतं न भविष्यति।
भित्तौ यद्यल्लिखेद्वस्तु तत्तदाप्नोति निश्चितम्॥३४॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये अमावास्यायां पिठोरीव्रतकथनं नाम पञ्चविंशोऽध्यायः॥२५॥