चतुर्विंशोऽध्यायः

ईश्वर उवाच

पुरा कल्पे ब्रह्मपुत्र दैत्यभारप्रपीडिता।
ब्रह्माणं शरणं प्राप पृथ्वी दीनातिविह्वला॥१॥
वृत्तान्तं तन्मुखाच्छ्रुत्वा ब्रह्मा देवगणैः सह।
क्षीरार्णवे हरिं गत्वा तुष्टाव स्तुतिभिर्बहु॥२॥
प्रादुरासीत्ततो दिक्षु श्रुत्वा सर्वं विधेर्मुखात्।
मा भैष्ट देवा देवक्या जठरे वसुदेवतः॥३॥
अवतीर्णो भविष्यामि हरिष्ये भूमिवेदनाम्।
भवन्तु यादवा देवा इत्युक्त्वान्तर्दधे विभुः॥४॥
देवक्या जठरे जातो वसुदेवेन गोकुले।
स्थापितः कंसभीतेन ववृधे तत्र कंसहा॥५॥
आगत्य मथुरां पश्चात्कंसं सगणमाहनत्।
ततः सर्वे पौरजनाः प्रार्थयामासुरादरात्॥६॥
कृष्ण कृष्ण महायोगिन्भक्तानामभयप्रद।
प्रणतान्पाहि नो देव शरणागतवत्सल॥७॥
किञ्चिद्विज्ञापये देव एतन्नो वक्तुमर्हसि।
तव जन्मदिने कृत्यं न ज्ञातं केनचित् क्वचित्॥८॥
ज्ञात्वा च तद्दिने सर्वे कुर्मो वर्धापनोत्सवम्।
तेषां दृष्ट्वा च तां भक्तिं स्वस्मिञ्छ्रद्धां च सौहृदम्॥९॥
कृत्यं जन्मदिने तेभ्यः कथयामास केशवः।
श्रुत्वा तेऽपि तथा चक्रुर्विधानात्तेन तद् व्रतम्॥१०॥
वरांश्च बहुधा प्रादाद् भगवान्व्रतकारिणे।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥११॥
अङ्गदेशोद्भवो राजा मितजिन्नाम नामतः।
तस्य पुत्रो महासेनः सत्यजित्सत्पथे स्थितः॥१२॥
पालयामास सर्वज्ञो विधिवद्रञ्जयन्प्रजाः।
तस्यैवं वर्तमानस्य कदाचिद्दैवयोगतः॥१३॥
पाखण्डैः सह संवासो बभूव बहुवासरम्।
तत्संसर्गात्स नृपतिरधर्मे निरतोऽभवत्॥१४॥
वेदशास्त्रपुराणानि निनिन्द बहुशो नृपः।
वर्णाश्रमगते धर्मे विद्वेषं परमं गतः॥१५॥
एवं बहुतिथे काले प्रयाते मुनिसत्तम।
कालेन निधनं प्राप्तो यमदूतवशं गतः॥१६॥
बध्वा पाशैर्नीयमानो यमदूतैर्यमान्तिकम्।
पीडितस्ताड्यमानोऽसौ दुष्टसङ्गतियोगतः॥१७॥
नरके पातितः प्राप यातना बहुवत्सरम्।
भुक्त्वा पापस्य शेषेण पैशाचीं योनिमास्थितः॥१८॥
क्षुधातृष्णासमाक्रान्तो भ्रमन्स मरुधन्वसु।
कस्यचित्त्वथ वैश्यस्य देहमाविश्य संस्थितः॥१९॥
सह तेनैव संयातो मथुरां पुण्यदां पुरीम्।
समीपे रक्षकैस्तस्य तस्माद् गेहाद् बहिष्कृतः॥२०॥
बभ्राम विपिने सोऽथ ऋषीणामाश्रमेषु च।
कदाचिद्दैवयोगेन हरेर्जन्माष्टमीदिने॥२१॥
क्रियमाणां महापूजां व्रतिभिर्मुनिभिर्द्विजैः।
रात्रौ जागरणं चैव नामसङ्कीर्तनादिभिः॥२२॥
ददर्श सर्वं विधिवच्छुश्राव च हरेः कथाम्।
निष्पापस्तत्क्षणादेव शुद्धो निर्मलमानसः॥२३॥
प्रेतदेहं समुत्सृज्य विष्णुलोके विमानगः।
यमदूतैः परित्यक्तो दिव्यभोगसमन्वितः॥२४॥
विष्णुसान्निध्यमापन्नो व्रतस्यास्य प्रभावतः।
नित्यमेतद् व्रतं चैव पुराणे सार्वलौकिकम्॥२५॥
कथ्यते विधिवत्सम्यङ् मुनिभिस्तत्त्वदर्शिभिः।
सर्वकामिकमेवैतत्कृत्वा कामानवाप्नुयात्॥२६॥
एवं यः कुरुते कृष्णजन्माष्टम्यां व्रतं शुभम्।
भुक्त्वेह विविधान्भोगाञ्छुभान्कामानवाप्नुयात्॥२७॥
तत्र देवविमानेन वर्षलक्षं विधेः सुत।
भोगान्नानाविधान्भुक्त्वा पुण्यशेषादिहागतः॥२८॥
सर्वकामसमृद्धस्तु सर्वाशुभविवर्जितः।
कुले नृपतिवर्याणां जायते मदनोपमः॥२९॥
यस्मिन्सदैव विषये लिखितं स्यात्परार्पितम्।
कृष्णजन्मोपकरणं सर्वशोभासमन्वितम्॥३०॥
पूज्यते विश्वसृद् तत्र व्रतैरुत्सवसंयुतैः।
परचक्रभयं तत्र न कदाचिद्भविष्यति॥३१॥
पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं क्वचित्।
गृहे वा पूजयेद्यस्तु चरितं देवकीजनः॥३२॥
तत्र सर्वसमृद्धं स्यान्नोपसर्गाद्भयं भवेत्।
संसर्गेणापि यो भक्त्या व्रतं पश्येदनाकुलः।
सोऽपि पापविनिर्मुक्तः प्रयाति हरिमन्दिरम्॥३३॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये जन्माष्टमीव्रतकथनं नाम चतुर्विंशोऽध्यायः॥२४॥