त्रयोविंशोऽध्यायः
ईश्वर उवाच
कृष्णाष्टम्यां नभोमासि वृषे चन्द्रे निशीथके।
देवक्यजीजनत्कृष्णं योगेऽस्मिन्वसुदेवतः॥१॥
सिंहराशिगते सूर्ये कर्तव्यः सुमहोत्सवः।
सप्तम्यां लघुभुक्कुर्याद्दन्तधावनपूर्वकम्॥२॥
उपवासस्य नियमं स्वपेद्रात्रौ जितेन्द्रियः।
केवलेनोपवासेन कृष्णजन्मदिनं नयेत्॥३॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः।
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह॥४॥
उपवासः स विज्ञेयः सर्वभोगविवर्जितः।
ततोऽष्टम्यां तिलैः स्नात्वा नद्यादौ विमले जले॥५॥
सुदेशे शोभनं कुर्याद्देवक्याः सूतिकागृहम्।
नानावर्णैः सुवासोभिः शोभितं कलशैः फलैः॥६॥
पुष्पैर्दीपावलीभिश्च चन्दनागरुधूपितम्।
हरिवंशस्य चरितं गोकुलं तत्र लेखयेत्॥७॥
युक्तं वादित्रनिनदैर्नृत्यगीतादिमङ्गलैः।
षष्ट्या देव्याधिष्ठितां च तन्मध्ये प्रतिमां हरेः॥८॥
काञ्चनीं राजतीं ताम्रीं पैत्तलीं मृन्मयीं तु वा।
वार्क्षी मणिमयीं वापि वर्णकैर्लिखितां यथा॥९॥
सर्वलक्षणसम्पन्नां पर्यङ्के चाष्टशल्यके।
प्रसूतां देवकीं तत्र स्थापयेन्मञ्चकोपरि॥१०॥
सुप्तं बालं तत्र हरिं पर्यङ्के स्तनपायिनम्।
यशोदां तत्र चैकस्मिन्प्रदेशे सूतिकागृहे॥११॥
प्रसूतां कन्यकां चैव कृष्णपार्श्वे तु संलिखेत्।
कृताञ्जलिपुटान्देवान्यक्षविद्याधरामरान्॥१२॥
वसुदेवं च तत्रैव खड्गचर्मधरं स्थितम्।
कश्यपो वसुदेवोऽयमदितिश्चैव देवकी॥१३॥
शेषो बलो यशोदापि अदित्यंशाद् बभूव ह।
नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः॥१४॥
गोप्यश्चाप्सरसः सर्वा गोपाश्चापि दिवौकसः।
कालनेमिश्च कंसोऽयं नियुक्तास्तेन चासुराः॥१५॥
गोधेनुकुञ्जराश्वाश्च दानवाः शस्त्रपाणयः।
लेखनीयाश्च तत्रैव कालियो यमुनाहृदे॥१६॥
इत्येवमादि यत्किञ्चिच्चरितं हरिणा कृतम्।
लेखयित्वा प्रयत्नेन पूजयेद्भक्तितत्परः॥१७॥
उपचारैः षोडशभिर्देवकी चेति मन्त्रतः॥१८॥
गायद्भिः किन्नराद्यैः सततपरिणुता वेणुवीणानिनादैर्
भृङ्गार्यादर्शदूर्वादधिकलशकरैः किन्नरैः सेव्यमाना।
पर्यङ्के स्वासनस्था मुदिततरमुखी पुत्रिणी सम्यगास्ते
सा देवी दिव्यमाता विजयसुतसुता देवकी कान्तयुक्ता॥१९॥
प्रणवादिनमोन्तैश्च पृथङ्नामानुकीर्तनैः।
कुर्यात्पूजां विधिज्ञस्तु सर्वपापापनुत्तये॥२०॥
देवक्या वसुदेवस्य वासुदेवस्य चैव हि।
बलदेवस्य नन्दस्य यशोदायाः पृथक् पृथक्॥२१॥
चन्द्रोदये शशाङ्काय अर्घ्यं दद्याद्धरिं स्मरन्।
क्षीरोदार्णवसम्भूत अत्रिगोत्रसमुद्भव।
नमस्ते रोहिणीकान्त अर्घ्यं नः प्रतिगृह्यताम्॥२२॥
देवक्या वसुदेवं च नन्दं चैव यशोदया।
रोहिण्या च सुधारश्मिं बलं च हरिणा सह॥२३॥
सम्पूज्य विधिवद्देही किं नाप्नोति सुदुर्लभम्।
एकादशीकोटिसङ्ख्यातुल्या कृष्णाष्टमी तथा॥२४॥
एवं सम्पूज्य तद्रात्रौ प्रभाते नवमीदिने।
यथा हरेस्तथा कार्यो भगवत्या महोत्सवः॥२५॥
ब्राह्मणान्भोजयेद्भक्त्या दद्याद्वै गोधनादिकम्।
यद्यदिष्टतमं तत्र कृष्णो मे प्रीयतामिति॥२६॥
नमस्ते वासुदेवाय गोब्राह्मणहिताय च।
शान्तिरस्तु शिवं चास्तु इत्युक्त्वा तं विसर्जयेत्॥२७॥
ततो बन्धुजनैः सार्धं स्वयं भुञ्जीत वाग्यतः।
एवं यः कुरुते देव्याः कृष्णस्य च महोत्सवम्॥२८॥
प्रतिवर्षं विधानेन यथोक्तं लभते फलम्।
पुत्रसन्तानमारोग्यं सौभाग्यमतुलं भवेत्॥२९॥
इह धर्ममतिर्भूत्वा अन्ते वैकुण्ठमाप्नुयात्।
उद्यापनमथो वक्ष्ये पुण्येऽह्नि विधिपूर्वकम्॥३०॥
पूर्वेद्युरेकभक्ताशी स्वपेद्विष्णुं स्मरन्हृदि।
प्रातः सन्ध्यादि सम्पाद्य ब्राह्मणैः स्वस्ति वाचयेत्॥३१॥
आचार्यं वरयित्वा तु ऋत्विजश्चैव पूजयेत्।
पलेन वा तदर्धेन तदर्धार्धेन वा पुनः॥३२॥
प्रतिमां कारयेत्पश्चाद्वित्तशाठ्यविवर्जितः।
मण्डपे मण्डले देवान्ब्रह्माद्यान्स्थापयेद् बुधः॥३३॥
तत्र संस्थापयेत्कुम्भं ताम्रं मृण्मयमेव वा।
तस्योपरि न्यसेत्पात्रं राजतं वैणवं तु वा॥३४॥
वाससाच्छाद्य गोविन्दं तत्र सम्पूजयेद् बुधः।
उपचारैः षोडशभिर्मन्त्रैर्वैदिकतान्त्रिकैः॥३५॥
ततोऽर्घ्यं हरये दद्याद्देवकीसहिताय च।
शङ्खे कृत्वा जलं शुद्धं सपुष्पफलचन्दनम्॥३६॥
जानुभ्यामवनीं गत्वा नारिकेलफलान्वितम्।
जातः कंसवधार्थाय भूभारोत्तारणाय च॥३७॥
कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे॥३८॥
चन्द्रायार्घ्यं ततो दद्यात्पूर्वोक्तविधिना सुधीः॥३९॥
नमस्तुभ्यं देवकीतनय प्रभो।
वसुदेवात्मजानन्त त्राहि मां भवसागरात्॥४०॥
इत्थं सम्प्रार्थ्य देवेशं रात्रौ जागरणं चरेत्।
प्रत्यूषे विमले स्नात्वा पूजयित्वा जनार्दनम्॥४१॥
मन्त्रेणेदं विष्णुरिति जुहुयाद्वै घृताहुतीः।
होमशेषं समाप्याथ पूर्णाहुतिपुरःसरम्॥४२॥
आचार्यं पूजयेत्पश्चाद्भूषणाच्छादनादिभिः।
गामेकां कपिलां दद्याद् व्रतसम्पूर्णहेतवे॥४३॥
पयस्विनीं सुशीलां च सवत्सां सगुणां तथा।
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनिकायुताम्॥४४॥
मुक्तापुच्छां ताम्रपृष्ठीं स्वर्णघण्टासमन्विताम्।
वस्त्राच्छन्नां दक्षिणाढ्यामेवं सम्पूर्णतामियात्॥४५॥
कपिलाया अभावेऽपि गौरन्यापि प्रदीयते।
ततः प्रदद्यादृत्विग्भ्यो दक्षिणां च यथार्हतः॥४६॥
ब्राह्मणान्भोजयेत्पश्चादष्टौ तेभ्यश्च दक्षिणाम्।
कलशान्जलसम्पूर्णान्दद्याच्चैव समाहितः॥४७॥
प्राप्यानुज्ञां तथा तेभ्यो भुञ्जीत सह बन्धुभिः।
एवं कृते ब्रह्मपुत्र व्रतोद्यापनकर्मणि॥४८॥
पायसेन तिलाज्यैश्च मूलमन्त्रेण भक्तितः।
अष्टोत्तरशतं हुत्वा ततः पुरुषसूक्ततः॥४९॥
निष्पापस्तत्क्षणादेव जायते विबुधोत्तमः।
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः।
भुक्त्वा भोगांश्चिरं कालमन्ते वैकुण्ठमाप्नुयात्॥५०॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये कृष्णजन्माष्टमीव्रतकथनं नाम त्रयोविंशोऽध्यायः॥२३॥