एकविंशोऽध्यायः
सनत्कुमार उवाच
पौर्णमास्या विधिं ब्रूहि कृपां कृत्वा दयानिधे।
माहात्म्यं शृण्वतां स्वामिञ्छ्रवणेच्छा प्रवर्धते॥१॥
ईश्वर उवाच
उत्सर्जनमुपाकर्म अध्यायानां भवेदिह।
पौषपूर्णा माघपूर्णा अथवोत्सर्जने तिथिः॥२॥
पौषस्य प्रतिपद्वापि माघमासस्य वा भवेत्।
ऋक्षं वा रोहिणीसंज्ञमुत्सर्जनकृतौ भवेत्॥३॥
अथवान्येषु कालेषु स्वस्वशाखानुसारतः।
सहप्रयोगो युक्तः स्यादुत्सर्गप्रकृतिद्वये॥४॥
अतो नभःपौर्णमास्यामुत्सर्जनमिहेष्यते।
उपाकर्मणि चैवं स्याच्छ्रवणर्थं तु बवृचाम्॥५॥
चतुर्दश्यां पौर्णमास्यां प्रतिपद्दिवसेऽपि वा।
यत्र वा श्रवणर्थं स्याद् बह्वृचानां तु तद्दिने॥६॥
यजुषां पौर्णमास्यां स्यात्सामगानां तु हस्तभे।
शुक्रगुर्वीरस्तमये उपाकर्म चरेत्सुखम्॥७॥
आरम्भः प्रथमो न स्यादिति शास्त्रविदां मतम्।
ग्रहसङ्क्रान्तदुष्टे तु काले कालान्तरे भवेत्॥८॥
पञ्चम्यां हस्तयुक्तायां पूर्णायां वा नभस्यके।
स्वस्वगृह्यानुसारेण उत्सर्जनमुपाकृतिः॥९॥
मलमासे तु सम्प्राप्ते शुद्धे मासि तु सा भवेत्।
नित्यं कर्मद्वयं चेदं प्रत्यब्दं नियमाच्चरेत्॥१०॥
उपाकर्मसमाप्तौ तु संस्थितेषु द्विजातिषु।
अर्पणीयः सभादीपो योषिद्भिस्तत्र संसदि॥११॥
आचार्यः प्रतिगृह्णाति दद्याद्वान्यद्विजातये।
सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा॥१२॥
प्रस्थमात्रं तु गोधूमा दीपं तत्पिष्टसम्भवम्।
दीपपात्रं संविधाय ज्वालयेत्तत्र दीपकम्॥१३॥
आज्येन वाथ तैलेन वर्तित्रयसमन्वितम्।
सदक्षिणं सताम्बूलं ब्राह्मणाय निवेदयेत्॥१४॥
दीपं सम्पूज्य विप्रं च मन्त्रमेतमुदीरयेत्।
सदक्षिणः सताम्बूलः सभादीपोऽयमुत्तमः॥१५॥
अर्पितो देवदेवस्य मम सन्तु मनोरथाः।
सभादीपप्रदानेन पुत्रपौत्रादिकं कुलम्॥१६॥
सर्वं ह्युज्ज्वलतां याति वर्धते यशसा सह।
स्वरङ्गनाभिः सदृशं रूपं जन्मान्तरे लभेत्॥१७॥
सौभाग्यं चैव लभते भर्तुः प्रियतरा भवेत्।
एवं कृत्वा पञ्चवर्षं तत उद्यापनं चरेत्॥१८॥
विप्राय दक्षिणां दद्याद्यथाशक्ति च भक्तितः।
सभादीपस्य माहात्म्यमेतत्ते कथितं शुभम्॥१९॥
श्रवणाकर्मसंस्था च तस्यामेव निशि स्मृता।
तदुत्तरं सर्पबलिस्तत्रैव च विधीयते॥२०॥
इदं संस्थाद्वयं कुर्यात्स्वस्वगृह्यमवेक्ष्य च।
हयग्रीवस्यावतारस्तस्यामेव तिथौ मतः॥२१॥
हयग्रीवजयन्त्यास्तु अतोऽत्रैव महोत्सवः।
उपासनावतां तस्य नित्यस्तु परिकीर्तितः॥२२॥
श्रावण्यां श्रवणे पूर्वं जातो हयशिरा हरिः।
जगौ स सामवेदं तु सर्वकिल्बिषनाशनम्॥२३॥
सिन्धूनदीवितस्तायां प्रवृत्तस्तत्र सङ्गमे।
श्रवणर्क्षे ततस्तत्र स्नानं सर्वार्थसिद्धिदम्॥२४॥
तत्र सम्पूजयेद्विष्णुं शार्ङ्गचक्रगदाधरम्।
श्रोतव्यान्यथ सामानि पूज्या विप्राश्च सर्वथा॥२५॥
क्रीडितव्यं च भोक्तव्यं तत्रैव स्वजनैः सह।
जलक्रीडा च कर्तव्या नारीभिर्भर्तृलब्धये॥२६॥
स्वस्वदेशे स्वस्वगृहे अपि कुर्यान्महोत्सवम्।
पूजयेच्च हयग्रीवं जपेन्मन्त्रं च तं शृणु॥२७॥
प्रणवादिर्नमः शब्दस्ततो भगवते इति।
धर्मायाथ चतुर्थ्यन्तं योज्यं चात्मविशोधनम्॥२८॥
पुनरन्ते नमः शब्दो मन्त्रश्चाष्टादशाक्षरः।
सर्वसिद्धिकरश्चायं षट्प्रयोगैकसाधकः॥२९॥
पुरश्चरणमेतस्य अक्षराणां तु सङ्ख्यया।
लक्षं वाथ सहस्रं वा कलौ तु स्याच्चतुर्गुणम्॥३०॥
एवं कृते हयग्रीवस्तुष्टः सत्कामदो भवेत्।
एतस्यामेव पूर्णायां रक्षाबन्धनमिष्यते॥३१॥
सर्वरोगोपशमनं सर्वाशुभविनाशनम्।
शृणु त्वं मुनिशार्दूल इतिहासं पुरातनम्॥३२॥
इन्द्राण्या यत्कृतं पूर्वमिन्द्रस्य जयसिद्धये।
देवासुरमभूद्युद्धं पुरा द्वादशवार्षिकम्॥३३॥
शक्रं दृष्ट्वा तदा श्रान्तं देवी प्राह सुरेश्वरम्।
अद्य भूतदिनं देव प्रातः सर्वं भविष्यति॥३४॥
अहं रक्षां विधास्यामि तेनाजेयो भविष्यसि।
इत्युक्त्वा पौर्णमास्यां सा पौलोमी कृतमङ्गला॥३५॥
बबन्ध दक्षिणे पाणौ रक्षां मोदप्रदां ततः।
बद्धरक्षस्ततः शक्रः कृतस्वस्त्ययनो द्विजैः॥३६॥
दुद्राव दानवानीकं क्षणाजिग्ये प्रतापवान्।
वासवो विजयी भूत्वा पुनरेव जगत्त्रये॥३७॥
एष प्रभावो रक्षायाः कथितस्ते मुनीश्वर।
जयदः सुखदश्चैव पुत्रारोग्यधनप्रदः॥३८॥
सनत्कुमार उवाच
क्रियते केन विधिना रक्षाबन्धः सुरोत्तम।
कस्यां तिथौ कदा देव एतन्मे वक्तुमर्हसि॥३९॥
यथा यथा हि भगवन्विचित्राणि प्रभाषसे।
तथा तथा न मे तृप्तिर्बह्वर्थाः शृण्वतः कथाः॥४०॥
ईश्वर उवाच
सम्प्राप्ते श्रावणे मासि पौर्णमास्यां दिनोदये।
स्नानं कुर्वीत मतिमान् श्रुतिस्मृतिविधानतः॥४१॥
सन्ध्याजपादि सम्पाद्य पितॄन्देवानृषींस्तथा।
तर्पयित्वा ततः कुर्यात्स्वर्णपात्रविनिर्मिताम्॥४२॥
हेमसूत्रैश्च सम्बद्धां मौक्तिकादिविभूषिताम्।
कौशेयतन्तुभिः कीर्णैर्विचित्रैर्मलवर्जितैः॥४३॥
विचित्रग्रन्थिसंयुक्तां पदगुच्छैश्च राजिताम्।
सिद्धार्थैश्चाक्षतैश्चैव गर्भितां सुमनोहराम्॥४४॥
संस्थाप्य कलशं तत्र पूर्णपात्रे तु तां न्यसेत्।
उपविश्यासने रम्ये सुहृद्भिः परिवारितः॥४५॥
वेश्यानर्तनगानादिकृतकौतुकमङ्गलः।
ततः पुरोधसा कार्यो रक्षाबन्धः समन्त्रकः॥४६॥
येन बद्धो बली राजा दानवेन्द्रो महाबलः।
तेन त्वामनुबध्नामि रक्षे मा चल मा चल॥४७॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैवान्यमानवैः।
रक्षाबन्धः प्रकर्तव्यो द्विजान्सम्पूज्य यत्नतः॥४८॥
अनेन विधिना यस्तु रक्षाबन्धनमाचरेत्।
स सर्वदोषरहितः सुखी संवत्सरं भवेत्॥४९॥
यः श्रावणे विमलमासि विधानविज्ञो रक्षाविधानमिदमाचरते मनुष्यः।
आस्ते सुखेन परमेण स वर्षमेकं पुत्रैश्च पौत्रसहितः ससुहृज्जनश्च॥५०॥
भद्रायां च न कर्तव्यो रक्षाबन्धः शुचिव्रतैः।
बद्धा रक्षा तु भद्रायां विपरीतफलप्रदा॥५१॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये उपाकर्मोत्सर्जन-श्रवणाकर्मसर्पबलिसभादीपहयग्रीवजयन्ती-रक्षाबन्धविधिकथनं नामैकविंशोऽध्यायः॥२१॥