विंशोऽध्यायः
ईश्वर उवाच
त्रयोदशीदिने कृत्यं कथयामि तवाग्रतः।
अत्रानङ्गः पूजनीयः षोडशैरुपचारकैः॥१॥
अशोकैर्मालतीपुष्पैः पद्यैर्देवप्रियैस्तथा।
कौसुम्भैर्बकुलैः पुष्पैस्तथान्यैरपि मादकैः॥२॥
रक्ताक्षतैः पीतगन्धैर्द्रव्यैः सौगन्धिकैः शुभैः।
पुष्टिकाजनकैर्द्रव्यै रेतोवृद्धिकरैः परैः॥३॥
नैवेद्यमर्पयेच्चैव ताम्बूलं मुखरोचकम्।
ताम्बूले योजयेद् द्रव्यं चिक्कणं क्रमुकं शुभम्॥४॥
खादिरं चूर्णकं जातित्वचं जातिफलं तथा।
लवङ्गैलानारिकेलबीजस्य शकलं लघु॥५॥
स्वर्णरूप्याणि पत्राणि कर्पूरं केसरं तथा।
जातानि मगधे देशे नागवल्लीदलानि च॥६॥
श्वेतवर्णानि पक्वानि जीर्णानि च दृढानि च।
रसयुक्तानि देयानि प्रीतये शम्बरद्विषः॥७॥
माक्षीकमलसारेण निर्मिताभिश्च वर्तिभिः।
नीराजयेच्चित्तभवं पुष्पाञ्जलिमथार्पयेत्॥८॥
प्रार्थयेन्नामभिस्तस्य तानि ते कथयाम्यहम्।
सर्वोपमानसौन्दर्यः प्रद्युम्नाख्यो हरेः सुतः॥९॥
मीनकेतनकन्दर्पकानङ्गा मन्मथस्तथा।
मारः कामात्मसम्भूतो झषकेतुर्मनोभवः॥१०॥
रतिपीनघनोत्तुङ्गस्तनयोः पत्रवल्लिका।
यस्य वक्षसि कस्तूर्याः शोभते परिरम्भणात्॥११॥
पुष्पधन्वञ्छम्बरारे कुसुमेषो रतेः पते।
मकरध्वज पञ्चेषो मदन स्मर सुन्दर॥१२॥
देवानां कार्यसिद्धयर्थं शिवक्षिप्तहुताशन।
परोपकारसीमानं ध्वनयंस्तेन कर्मणा॥१३॥
निमित्तमात्रं विजये वसन्तस्य सहायता।
त्वन्मनोरञ्जने शक्रस्तिष्ठत्येव दिवानिशि॥१४॥
स्वपदभ्रंशने यस्मात्तपस्विभ्यो बिभेति सः।
त्वदन्यः शम्भुना कोऽन्यो विरुध्येद् दृढमानसः॥१५॥
परब्रह्मानन्दसमानन्ददस्त्वदृतेऽत्र कः।
महामोहस्य सैन्येषु त्वादृशः कोऽस्ति वीर्यवान्॥१६॥
अनिरुद्धपतिः कृष्णात्मजो कृष्णात्मजो यश्च सुरप्रभुः।
मलयाचलसम्भूतचन्दनागरुवासितः॥१७॥
दक्षिणादिङ्मातरिश्वा सहायस्ते जगज्जये।
शरत्सुधांशुसन्मित्र जगत्सर्जनकारण॥१८॥
नाथ त्वदस्त्रं परमममोघमतिदूरगम्।
मर्मच्छिदामकरुणं रहितं प्रतिकारतः॥१९॥
सुकुमारं श्रुतमपि निःसीमक्षोभकारणम्।
स्वतुल्यस्य पदार्थस्य दर्शनादपि साधकम्॥२०॥
प्रवृत्तिर्मुख्यालङ्कारः सहायेन जगज्जये।
सर्वे श्रेष्ठास्त्वया देवा उपहास्याः कृता विभो॥२१॥
ब्रह्मा कन्यालम्पटोऽभूद् वृन्दासक्तो हरिः स्मृतः।
परदारकलङ्केन अस्पृष्टव्यः शिवो यतः॥२२॥
स्वशक्त्यामेव निरतो बहुकालं व्यवायवान्।
दुष्कर्मनिरतश्चेन्द्रो गौतमस्य वधूं प्रति॥२३॥
द्विजराजो गुरोर्भार्यां बलादेवापहारवान्।
विश्वामित्रस्तपोभ्रष्टः केनाकारि च भूयसा॥२४॥
उक्ताः प्राधान्यतस्त्वेते किं बहूक्तेन मानद।
विरलाः सन्ति लोकेऽस्मिन्ब्राह्मणा वशवर्तिनः॥२५॥
तस्मात्प्रसीद भगवन्कृतया पूजयानया।
पूजितः श्रावणे शुक्लत्रयोदश्यां मनोभवः॥२६॥
प्रवृत्तिलम्पटस्यातिवीर्यं पुष्टिं ददात्यलम्।
निवृत्तिमार्गनियतः स्वविकारं हरत्यपि॥२७॥
सकामस्य स्त्रियो रम्याः पीनोत्तुङ्गपयोधराः।
शरत्पूर्णसुधारश्मिवदनाः कमलेक्षणाः॥२८॥
लम्बातिनीलकुरलस्निग्धकेश्यः सुनासिकाः।
रम्भोरूर्वा गुप्तगुल्फा गतिनिर्जितकुञ्जराः॥२९॥
कामागारा जिताश्वत्थपलाशा अतिशोभनाः।
बृहच्छ्रोण्यः कम्बुकण्ठ्यो बृहज्जघनशोभिताः॥३०॥
बिम्बोष्ठ्यः सिंहकट्यश्च नानालङ्कारभूषिताः।
मनोरमा ददात्येष सन्तुष्टः श्रावणेऽर्चया॥३१॥
शुक्लपक्षे त्रयोदश्यां ददाति च सुतान्बहून्।
चिरायुषो गुणाढ्यांश्च सुखरूपान्सुसन्ततीन्॥३२॥
कर्तव्यं यत् त्रयोदश्यामेतत्ते कथितं शुभम्।
अतः परं चतुर्दश्यां कर्तव्यं शृणु मानद॥३३॥
अष्टम्यां कथितं देव्याः पवित्रारोपणं तव।
तत्र चेन्न कृतं तर्हि चतुर्दश्यां तु कारयेत्॥३४॥
पवित्रं तु त्रिनेत्रस्य चतुर्दश्यां समर्पयेत्।
पवित्रसाधनं सर्वं देवीविष्णुपवित्रवत्॥३५॥
ऊहः परं प्रकर्तव्यः प्रार्थनादिषु नामसु।
शैवागमे मया प्रोक्तं जाबालादिषु यत्परम्॥३६॥
विकल्पात्कश्चिदस्तीह विशेषस्तं वदामि ते।
एकादशाथ वा सूत्रैस्त्रिंशता चाष्टयुक्तया॥३७॥
पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकम्।
द्वादशाङ्गुलमानानि तथा चाष्टाङ्गुलानि वा॥३८॥
लिङ्गविस्तारमानानि चतुरङ्गुलिकानि वा।
अर्पयेच्छिवतुष्ट्यर्थं विधिः पूर्वोक्त एव हि॥३९॥
फलादि पूर्वमेवोक्तमन्ते कैलासमाप्नुयात्।
एतत्ते कथितं वत्स किमन्यच्छ्रोतुमिच्छसि॥४०॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये त्रयोदशीचतुर्दशीकर्तव्यकथनं नाम विंशोऽध्यायः॥२०॥