एकोनविंशोऽध्यायः
ईश्वर उवाच
अथ वक्ष्ये नभोमासि पक्षयोरुभयोरपि।
एकादश्यां तु यत्कृत्यं तच्छृणुष्व महामुने॥१॥
न कस्यचिन्मयाख्यातं गुह्यमेतदनुत्तमम्।
महापुण्यप्रदं वत्स महापातकनाशनम्॥२॥
वाञ्छितार्थप्रदं नृणां श्रुतं पापापहारकम्।
श्रेष्ठं व्रतानां सर्वेषां शुभमेकादशीव्रतम्॥३॥
तत्तेऽहं सम्प्रवक्ष्यामि समाहितमनाः शृणु।
दशम्यामुषसि स्नात्वा कृतसन्ध्यादिकः शुचिः॥४॥
प्राप्याज्ञां वेदविदुषः पुराणज्ञान् जितेन्द्रियान्।
सम्पूज्य देवदेवेशं षोडशैरुपचारकैः॥५॥
एकादश्यां निराहारः स्थित्वाहमपरेऽहनि।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥६॥
कुर्याच्च नियमं वत्स गुरुदेवाग्निसन्निधौ।
तद्दिने भूमिशायी स्यात्कामक्रोधविवर्जितः॥७॥
ततः प्रभाते विमले केशवार्पितमानसः।
श्रीधरेति तदा वाक्यं क्षुतप्रस्खलनादिषु॥८॥
पाखण्डादिभिरालापं दर्शनं श्रवणं तथा।
त्यजेद्दिनत्रयं वत्स व्रतं कैवल्यकारकम्॥९॥
ततो मध्याह्नसमये नद्यादौ विमले जले।
स्नानं कुर्याज्जितक्रोधः पञ्चगव्यपुरःसरम्॥१०॥
आदित्याय नमस्कृत्य श्रीधरं शरणं व्रजेत्।
स्ववर्णाचारविधिना कृतकृत्यो गृहं व्रजेत्॥११॥
पूजयेच्छ्रीधरं तत्र श्रद्धाभक्तिपुरः सरम्।
पुष्पधूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि॥१२॥
गीतवाद्यैः कथाभिश्च जागरं कारयेन्निशि।
कुम्भं संस्थापयित्वा तु रत्नगर्भं सकाञ्चनम्॥१३॥
छादितं वस्त्रयुग्मेन सितचन्दनचर्चितम्।
प्रतिमां देवदेवस्य शङ्खचक्रगदाभृताम्॥१४॥
कृत्वा यथावत्सम्पूज्य प्रभाते विमले सति।
द्वादश्यां कृतकृत्यस्तु श्रीधरेति जपेद् बुधः॥१५॥
पूजयेद्देवदेवेशं शङ्खचक्रगदाधरम्।
विप्राय दद्यात्कलशं हेमदक्षिणयान्वितम्॥१६॥
विशेषान्नवनीतं तु तत्र देयं द्विजातये।
श्रीधरः प्रीयतां मेऽद्य श्रियं पुष्णात्वनुत्तमाम्॥१७॥
इत्युच्चार्य मुनिश्रेष्ठ समभ्यर्च्य जगद्गुरुम्।
सम्भोज्य विप्रमुख्यांश्च दद्याच्छक्त्या च दक्षिणाम्॥१८॥
भृत्यादीन्भोजयित्वा तु यवसं गोषु दापयेत्।
स्वयं भुञ्जीत च ततः सुहृद्बन्धुसमन्वितः॥१९॥
सनत्कुमार कथितस्ते शुक्लैकादशीविधिः।
एवमेव नभोमासि कृष्णायामपि साधयेत्॥२०॥
अनुष्ठानं तुल्यमेव देवनाम्नि परं भिदा।
जनार्दनः प्रीयतां मे वाक्यमेतदुदीरयेत्॥२१॥
शुक्लायां श्रीधरो देवः कृष्णायां तु जनार्दनः।
एतत्ते सम्यगाख्यातमुभयैकादशीव्रतम्॥२२॥
नानेन सदृशं पुण्यं न भूतं न भविष्यति।
इदं त्वया गोपनीयं न देयं दुष्टमानसे॥२३॥
ईश्वर उवाच
अथ वक्ष्यामि द्वादश्यां पवित्रारोपणं हरेः।
उक्तः प्रायो विधिर्देव्याः पवित्रारोपणे तव॥२४॥
विशेषो यश्च तं वक्ष्ये सावधानमनाः शृणु।
अत्राधिकारी सन्दिष्टस्तं शृणुष्व महामुने॥२५॥
ब्राह्मणः क्षत्रियो वैश्यस्तथा स्त्री शूद्र एव च।
स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम्॥२६॥
अतो देवेति मन्त्रेण द्विजो विष्णोर्निवेदयेत्।
स्त्रीशूद्राणां नाममन्त्रो येन सम्पूजयेद्धरिम्॥२७॥
कद्रुद्रायेति मन्त्रेण द्विजः शम्भोर्निवेदयेत्।
स्त्रीशूद्राणां नाममन्त्रो येन सम्पूजयेद्धरम्॥२८॥
कृते मणिमयं कार्यं त्रेतायां हेमसम्भवम्।
पट्टजं द्वापरे सूत्रं कार्पासं तु कलौ स्मृतम्॥२९॥
यतिभिर्मानसं कार्यं पवित्रारोपणं शुभम्।
कृतानि च पवित्राणि वैणवे पट्टले शुभे॥३०॥
संस्थाप्य शुचिवस्त्रेण पिधाय्य पुरतो न्यसेत्।
क्रियालोपविधानार्थं यत्त्वया पिहितं प्रभो॥३१॥
मयैतत्क्रियते देव तव तुष्ट्यै पवित्रकम्।
न मे विघ्नो भवेद्देव कुरु नाथ दयां मयि॥३२॥
सर्वथा सर्वदा देव मम त्वं परमा गतिः।
एतत्पवित्रतोऽहं त्वां तोषयामि जगत्पते॥३३॥
कामक्रोधादयोऽप्येते न मे स्युर्व्रतघातकाः।
अद्यप्रभृति देवेश यावत् स्याद्वार्षिकं दिनम्॥३४॥
तावद्रक्षा त्वया कार्या त्वद्भक्तस्य नमोऽस्तु ते।
देवं सम्प्रार्थ्य कलशे पात्रे वेणुमये शुभे॥३५॥
संस्थितस्य पवित्रस्य कुर्यात्प्रार्थनमादृतः।
संवत्सरकृतार्चायाः पवित्रीकरणाय भोः॥३६॥
विष्णुलोकात्पवित्राद्य आगच्छेह नमोऽस्तु ते।
विष्णुतेजोद्भवं रम्यं सर्वपापप्रणाशनम्॥३७॥
सर्वकामप्रदं देव तवाङ्गे धारयाम्यहम्।
आमन्त्रितोऽसि देवेश पुराणपुरुषोत्तम॥३८॥
अतस्त्वां पूजयिष्यामि सान्निध्यं कुरु ते नमः।
निवेदयाम्यहं तुभ्यं प्रातरेतत्पवित्रकम्॥३९॥
ततः पुष्पाञ्जलिं दत्त्वा रात्रौ जागरणं चरेत्।
एकादश्यामधिवसेद् द्वादश्यामर्चयेदुषः॥४०॥
गन्धदूर्वाक्षतैर्युक्तं समादाय पवित्रकम्।
देवदेव नमस्तुभ्यं गृहाणेदं पवित्रकम्॥४१॥
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्।
पवित्रं मां कुरुष्वाद्य यन्मया दुष्कृतं कृतम्॥४२॥
शुद्धो भवाम्यहं देव त्वत्प्रसादात्सुरेश्वर।
मूलसम्पुटितैरेतैर्मन्त्रैर्दद्यात्पवित्रकम्॥४३॥
महानैवेद्यकं दत्त्वा नीराज्य प्रार्थयेत्ततः।
मूलमन्त्रेण जुहुयाद्वह्नौ सघृतपायसम्॥४४॥
विसर्जयित्वा मन्त्रेण अनेनैव पवित्रकम्।
सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम॥४५॥
व्रजेदानीं पवित्र त्वं विष्णुलोकं विसर्जितम्।
उत्तार्य ब्राह्मणे दद्यात्तोये वाथ विसर्जयेत्॥४६॥
एतत्ते कथितं वत्स पवित्रारोपणं हरेः।
इह लोके सुखं भुक्त्वा ह्यन्ते वैकुण्ठमाप्नुयात्॥४७॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये उभयैकादशीव्रतकथनं द्वादश्यां विष्णुपवित्रारोपणकथनं नामैकोनविंशोऽध्यायः॥१९॥