अष्टादशोऽध्यायः
सनत्कुमार उवाच
भगवन्पार्वतीनाथ भक्तानुग्रहकारक।
कथयस्व दयासिन्धो माहात्म्यं दशमीतिथेः॥१॥
ईश्वर उवाच
श्रावणे शुक्लपक्षे तु दशम्यां प्रारभेद् व्रतम्।
प्रतिमासे दशम्यां तु शुक्लायां व्रतमाचरेत्॥२॥
एवं द्वादशमासेषु कृत्वा व्रतमनुत्तमम्।
नभःशुक्लदशम्यां तु तत उद्यापनं चरेत्॥३॥
राज्याशयो राजपुत्रः कृष्यर्थं च कृषीबलः।
वाणिज्यार्थं वणिक्पुत्रः पुत्रार्थं गुर्विणी तथा॥४॥
धर्मार्थकामसिद्ध्यर्थं लोकः कन्या वरार्थिनी।
यष्टुकामो द्विजवरो रोग्यारोग्यार्थमेव च॥५॥
चिरप्रवसिते कान्ते पत्नी तस्यागमाय च।
एतेष्वन्येषु कर्तव्यमाशाव्रतमिदं तदा॥६॥
यस्माद्यस्य भवेदार्तिः कार्यं तेन तदा व्रतम्।
नभःशुक्लदशम्यां तु स्नात्वा सम्पूज्य देवताम्॥७॥
नक्तमाशासु पूज्या वै पुष्पपल्लवचन्दनैः।
गृहाङ्गणे लेखयित्वा यवपिष्टातकेन वा॥८॥
स्त्रीरूपाश्चाधिदेवस्य शस्त्रवाहनचिह्निताः।
दत्त्वा घृताक्तं नैवेद्यं पृथग्दीपांश्च दापयेत्॥९॥
फलानि कालजातानि ततः कार्यं निवेदयेत्।
आशाः स्वाशाः सदा सन्तु सिध्यन्तु मे मनोरथाः॥१०॥
भवतीनां प्रसादेन सदा कल्याणमस्त्विति।
एवं सम्पूज्य विधिवद् दद्याद्विप्राय दक्षिणाम्॥११॥
अनेन क्रमयोगेन मासि मासि सदाचरेत्।
वर्षमेकं मुनिश्रेष्ठ तत उद्यापनं चरेत्॥१२॥
सौवर्णीः कारयेदाशा रौप्याः पिष्टातकेन वा।
ज्ञातिबन्धुजनैः सार्धं स्नातः सम्यगलङ्कृतः॥१३॥
पूजयेद्भक्तियुक्तेन चेतसा दश देवताः।
स्थापयेत्क्रमयोगेन मन्त्रैरेभिर्गृहाङ्गणे॥१४॥
त्वयि सन्निहितः शक्रः सुरासुरनमस्कृतः।
स्वामी च भुवनस्यास्य ऐन्द्रीदिग्देवते नमः॥१५॥
अग्नेः परिग्रहादाशे त्वमाग्नेयीति पठ्यसे।
तेजोरूपा पराशक्तिरतस्त्वं वरदा भव॥१६॥
धर्मराजः समाश्रित्य लोकान्संयमयत्यसौ।
तेन संयमिनी चासि याम्ये सत्कामदा भव॥१७॥
खड्गहस्तातिविक्रान्ता निरृतिस्थानमाश्रिता।
तेन निर्ऋतिरूपासि त्वमाशां पूरयस्व मे॥१८॥
त्वय्यास्ते भुवनाधारो वरुणो यादसां पतिः।
कार्यार्थं मम धर्मार्थं वारुणि प्रवणा भव॥१९॥
अधिष्ठितासि यस्मात्त्वं वायुना जगदादिना।
वायव्ये त्वमतः शान्तिं नित्यं यच्छ ममालये॥२०॥
धनाधिपाधिष्ठितासि प्रख्याता त्वमिहोत्तरा।
निरुत्तरा भवास्मासु दत्त्वा सद्यो मनोरथम्॥२१॥
ऐशानि जगदीशेन शम्भुना त्वमलङ्कृता।
पूरयस्व शुभे देवि वाञ्छितानि नमो नमः॥२२॥
सर्वलोकोपरिगता सर्वदा त्वं शिवप्रदा।
सनकाद्यैः परिवृता मां त्राहि त्राहि सर्वदा॥२३॥
नक्षत्राणि च सर्वाणि ग्रहास्तारागणास्तथा।
नक्षत्रमातरो याश्च भूतप्रेतविनायकाः॥२४॥
पूजितास्तु मया भक्त्या भक्तिप्रवणचेतसा।
सर्वे ममेष्टसिद्ध्यर्थं भवन्तु प्रवणाः सदा॥२५॥
भुजङ्गनकुलेन त्वं सेवितासि यतो ह्यधः।
नागाङ्गनाभिः सहिता तुष्टा भव ममाद्य वै॥२६॥
एभिर्मन्त्रैः समभ्यर्च्य पुष्पधूपादिना ततः।
अलङ्कारांश्च वासांसि फलानि च निवेदयेत्॥२७॥
ततो वाद्यादिनादेन गीतनृत्यादिमङ्गलैः।
नृत्यन्तीभिर्वरस्त्रीभिर्जागरेण निशां नयेत्॥२८॥
कुङ्कुमाक्षतताम्बूलदानमानादिभिः सुखम्।
अतिवाह्य च तां रात्रिं हर्षयुक्तेन चेतसा॥२९॥
प्रभाते प्रतिमा अर्च्य ब्राह्मणाय निवेदयेत्।
अनेन विधिना कृत्वा क्षमाप्य प्रणिपत्य च॥३०॥
भुञ्जीत मित्रैः सहितः सुहृद्बन्धुजनेन च।
एवं यः कुरुते तात दशमीव्रतमादरात्॥३१॥
सर्वान्कामानवाप्नोति मनसोऽभिमतान्नरः।
स्त्रीभिर्विशेषतः कार्यं व्रतमेतत्सनातनम्॥३२॥
प्राणिवर्गे यतो नार्यः श्रद्धाकामपरायणाः।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम्॥३३॥
कथितं च मुनिश्रेष्ठ मया व्रतमिदं तव।
नानेन सदृशं चान्यद् व्रतमस्ति जगत्त्रये॥३४॥
ये मानवा विधिजपुङ्गव कामकामाः
सम्पूजयन्ति दशमीषु सदा दशाशाः।
तेषामशेषनिहितान्हृदयेऽतिकामानाशाः
फलन्ति किमिहास्ति बहूदितेन॥३५॥
मोक्षप्रदं व्रतं ह्येतन्नात्र कार्या विचारणा।
व्रतं चानेन सदृशं न भूतं न भविष्यति॥३६॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये आशादशमीव्रतकथनं नामाष्टादशोऽध्यायः॥१८॥