सप्तदशोऽध्यायः
ईश्वर उवाच
अथ वक्ष्यामि देवेश पवित्रारोपणं शुभम्।
सप्तम्यामधिवास्याथ ह्यष्टम्यामर्पयेत्तु तत्॥१॥
पवित्रं कारयेद्यस्तु तस्य पुण्यफलं शृणु।
सर्वयज्ञव्रतं दानं सर्वतीर्थाभिषेचनम्॥२॥
प्राप्नुयान्नात्र सन्देहो यस्मात्सर्वगता शिवा।
नाधनो न च दुःखानि न पीडा व्याधयोऽपि च॥३॥
न भयं शत्रुजं तस्य न ग्रहैः पीड्यते क्वचित्।
सिध्यन्ति सर्वकार्याणि ह्यल्पानि च महान्ति च॥४॥
नातः परतरं वत्स ह्यन्यत्पुण्यविवृद्धये।
नराणां च नृपाणां च स्त्रीणां चैव विशेषतः॥५॥
सौभाग्यजननं तात तव स्नेहात्प्रकाशितम्।
श्रावणे शुक्लसप्तम्यामधिवास्य विधातृज॥६॥
सर्वोपस्करसंयुक्तो देव्यां सद्भक्तिमांश्च सः।
सर्वाणि पूजाद्रव्याणि गन्धपुष्पफलानि च॥७॥
नैवेद्यान् विविधांश्चैव वस्त्राद्याभरणानि च।
सम्पाद्य शोधयेदेतान्प्राशयेत्पञ्चगव्यकम्॥८॥
चरुणा दिग्बलिं दद्यात्कार्यं चैवाधिवासनम्।
छादयेत्सदृशैर्वस्त्रैः पत्रैश्चैतत्पवित्रकम्॥९॥
देव्यास्तन्मूलमन्त्रेण शतवाराभिमन्त्रितम्।
स्थापयेत्पुरतो देव्याः सर्वशोभासमन्वितम्॥१०॥
देव्यास्तु मण्डपं कृत्वा रात्रौ जागरणं चरेत्।
नटनर्तकवेश्यानां कुशलान्विविधान्गणान्॥११॥
स्थायेद्वाद्यगीतादी नृत्यविद्याविशारदान्।
प्रत्यूषे विधिवत् स्नात्वा दिग्भ्यो दद्यात्पुनर्बलीन्॥१२॥
देवीं सम्पूज्य विधिवत् स्त्रियो भोज्यास्तथा द्विजाः।
पवित्रमर्पयेद्देव्या आदावन्ते च दक्षिणाम्॥१३॥
यथाशक्त्या भवेद्वत्स नियमः कार्यसाधकः।
स्त्रियोऽक्षा मृगया मांसं राज्ञा वर्ज्य प्रयत्नतः॥१४॥
स्वाध्यायश्च द्विजाचार्यैर्न कार्यं कर्षणं कृषेः।
वणिग्भिर्न च वाणिज्यं सप्तपञ्चदिनानि वा॥१५॥
अथवा त्रीणि चैकं वा दिनं तस्यार्धमेव वा।
देव्या व्यापार आसक्तिः कर्तव्या सततं हृदि॥१६॥
न करोति विधानेन पवित्रारोपणं बुधः।
तस्य सांवत्सरी पूजा निष्फला मुनिसत्तम॥१७॥
तस्माद्भक्तिसमायुक्तैर्नरैर्देवीपरायणैः।
वर्षे वर्षे प्रकर्तव्यं पवित्रारोपणं शुभम्॥१८॥
कर्काटकगते सूर्ये तथा सिंहगतेऽपि वा।
अष्टम्यां शुक्लपक्षस्य दद्याद्देव्याः पवित्रकम्॥१९॥
एतस्याकरणे दोषो नित्यमेतत्प्रकीर्तितम्॥२०॥
सनत्कुमार उवाच
देवदेव महादेव पवित्रं यत्त्वयोदितम्।
निर्मितव्यं कथं स्वामिंस्तद्विधिं वद सर्वशः॥२१॥
ईश्वर उवाच
हेमताम्रक्षौमरूप्यैः सूत्रैः कौशेयपट्टजैः।
कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः॥२२॥
कृत्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य साधयेत्।
ततोत्तमं पवित्रं तु षष्ट्या सह शतैस्त्रिभिः॥२३॥
सप्तत्या सहितं द्वाभ्यां शताभ्यां मध्यमं स्मृतम्।
साशीतिना शतेनैव कनिष्ठं तत्समाचरेत्॥२४॥
उत्तमं तु शतग्रन्थि पञ्चाशद्ग्रन्थि मध्यमम्।
पवित्रकं कनिष्ठं स्यात्षट्त्रिंशद्ग्रन्थि शोभनम्॥२५॥
अथ अथवाङ्गगुणैर्वेदैर्द्वाभ्यां द्वादशतोऽपि वा।
चतुर्विंशद्वा दशाष्टग्रन्थिभिर्वा पवित्रकम्॥२६॥
चाष्टोत्तरशतं चतुःपञ्चाशदेव वा।
सप्तविंशतिरेवैवं ज्येष्ठमध्यकनीयसम्॥२७॥
अधमं नाभिमात्रं स्यादूरुमात्रं तु मध्यमम्।
उत्तमं जानुमात्रं तत्प्रतिमाया निगद्यते॥२८॥
रञ्ज्याः सर्वाः कुङ्कुमेन पवित्रग्रन्थयः शुभाः।
देवीं पूज्य पुरोभागे सर्वतोमण्डले शुभे॥२९॥
कलशे वेणुपटले पवित्राणि निधापयेत्।
त्रिसूत्र्यां ब्रह्मविष्ण्वीशानावाह्य च ततः शृणु॥३०॥
नवसूत्र्यां तथोङ्कारं सोमं वनिं विधिं तथा।
नागांश्चन्द्ररवीशांश्च विश्वेदेवांश्च स्थापयेत्॥३१॥
अतः परं प्रवक्ष्यामि स्थाप्या ग्रन्थिषु देवताः।
क्रिया च पौरुषी वीरा विजया चापराजिता॥३२॥
मनोन्मनी जया भद्रा मुक्तिरीशा तथैव च।
प्रणवादिनमोन्तैश्च नामभिर्ग्रन्थिसङ्ख्यया॥३३॥
आवर्त्यमानैरावाह्य पूजयेच्चन्दनादिभिः।
धूपितं प्रणवेनाभिमन्त्र्य देव्यै समर्पयेत्॥३४॥
एतत्ते कथितं देव्याः पवित्रारोपणं शुभम्।
अन्येषां चैव देवानां प्रतिपत्प्रभृतिष्वपि॥३५॥
पवित्रारोपणं कार्यं देवतास्ता वदामि ते।
धनदः श्रीस्तथा गौरी गणेशः सोमराड् गुरुः॥३६॥
भास्करश्चण्डिकाम्बा च वासुकिश्च तथर्षयः।
चक्रपाणिर्ह्यनन्तश्च शिवः कः पितरस्तथा॥३७॥
प्रतिपत्प्रभृतिष्वेताः पूज्यास्तिथिषु देवताः।
मुख्याया देवतायास्तु पवित्रारोपणं त्विदम्॥३८॥
तदङ्गदेवतायास्तु त्रिसूत्रं स्यात्पवित्रकम्॥३९॥
ईश्वर उवाच
अतः परं प्रवक्ष्यामि कर्तव्यं नवमीदिने।
श्रावणे मासि विप्रेन्द्र पक्षयोरुभयोरपि॥४०॥
कुमारी नामिका दुर्गा पूजनीया यथाविधि।
कुर्यान्नक्तव्रतं तत्र क्षीरमाक्षिक भोजनम्॥४१॥
उपवासपरो वा स्यान्नवम्यां पक्षयोर्द्वयोः।
कुमारी वेति नाम्ना वै चण्डिकामर्चयेत्सदा॥४२॥
कृत्वा रौप्यमय भक्त्या दुर्गां वै पापनाशिनीम्।
करवीरस्य पुष्पैस्तु गन्धैरगरुचन्दनैः॥४३॥
धूपेन च दशाङ्गेन मोदकैश्चापि पूजयेत्।
कुमारीं भोजयेत्पश्चात्स्त्रियो विप्रांश्च भक्तितः॥४४॥
भुञ्जीत वाग्यतः पश्चाद् बिल्वपत्रकृताशनः।
एवं यः पूजयेद्दुर्गां श्रद्धया परया युतः॥४५॥
स याति परमं स्थानं यत्र देवो गुरुः स्थितः।
एतत्ते नवमीकृत्यं कथितं विधिनन्दन॥४६॥
सर्वपापप्रशमनं सर्वसम्पत्करं नृणाम् पुत्रपौत्रादिजननमन्ते सद्गतिदायकम्॥४७॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्येऽष्टम्यां देवीपवित्रारोपणं नाम सप्तदशोऽध्यायः॥१७॥