षोडशोऽध्यायः
ईश्वर उवाच
अतः परं प्रवक्ष्यामि शीतलासप्तमीव्रतम्।
श्रावणे शुक्लपक्षे तु सप्तम्यामाचरेद् व्रतम्॥१॥
कुड्ये लिखित्वा वापीं तु तथा सलिलदेवताः।
सप्तसङ्ख्या दिव्यरूपा अशरीरिणसंज्ञकाः॥२॥
बालद्वययुता नारी पुरुषत्रयसंज्ञिता।
अश्वश्च वृषभश्चैव शिबिका नरवाहना॥३॥
पूजा वार्देवतानां स्यात्षोडशैरुपचारकैः।
दध्योदनस्य नैवेद्यं साधने कर्कटीफलम्॥४॥
द्विजाय वायनं दद्यान्नैवेद्यस्य पदार्थकैः।
सप्तवर्षाणि कृत्वैवं सुवासिन्यश्च सप्त वै॥५॥
प्रत्यब्दं भोजनीयाः स्युः पश्चादुद्यापनं चरेत्।
वार्देवतानां प्रतिमा एकस्मिन् स्वर्णपात्रके॥६॥
बालेन सहिताः पूज्याः सायं पूर्वेऽह्नि भक्तितः।
प्रातर्होमं च चरुणा ग्रहहोमपुरःसरम्॥७॥
व्रतमेतत्पुरा चीर्णं फलितं च तथा तथा शृणु।
सौराष्ट्रदेशे नगरमासीच्छोभनसंज्ञितम्॥८॥
तत्रासीद्धनिकः कश्चित्सर्वधर्मपरायणः।
स वापीं खानयामास निर्जले विजने वने॥९॥
पादमार्गां शुभां रम्यां बहुद्रव्यव्ययेन सः।
पशूनां जलपानाय अपि योग्यां दृढाश्मभिः॥१०॥
बद्धां चिरस्थायिनीं च बहिः प्रान्ते द्रुमैर्युतम्।
आरामं कारयामास श्रान्तपान्थसुखाय च॥११॥
परं शुष्कं जलं तत्र न लब्धं बिन्दुमात्रकम्।
प्रयासो मे वृथा जातो द्रव्यं च व्ययितं वृथा॥१२॥
इति चिन्तापरश्चासीद्धनिको धनदाभिधः।
रात्रौ तत्रैव सुष्वाप स्वप्ने तं जलदेवताः॥१३॥
आगत्य कथयामासुः शृणूपायं जलागमे।
दास्यसे यदि ते पौत्रं बलिमस्माकमादृतः॥१४॥
तदैव वापिकेयं ते जलपूर्णा भविष्यति।
दृष्ट्वैवं गृहमागत्य पुत्रायाकथयद्धनी॥१५॥
द्रविणो नाम तत्पुत्रः सोऽपि धर्मपरायणः।
शृणुष्व मम वत्सस्य भवान्मज्जनको यतः॥१६॥
तत्राप्येतद्धर्मकार्यं किं विचार्यमिह त्वया।
स्थावरश्चास्ति धर्मोऽयं नश्वरं च सुतादिकम्॥१७॥
अल्पमौल्यं महावस्तु लाभोऽयं दुर्लभः क्रयः।
शीतांशुश्चैव चण्डांशुर्वर्तेते तनयौ मम॥१८॥
शीतांशुर्नाम ज्येष्ठोऽयं बलिर्देयोऽविचारतः।
मन्त्रोऽयं सर्वथा स्त्रीभिर्ज्ञातव्यो नैव भोः पितः॥१९॥
उपायस्तत्र मत्पत्नी गर्भिणी वर्ततेऽधुना।
आसन्नप्रसवा चैव गन्त्र्यसौ स्वपितुर्गृहे॥२०॥
प्रसूत्यर्थं कनिष्ठोऽसौ तया सह गमिष्यति।
तदा कार्यमिदं तात निर्विघ्नेन भविष्यति॥२१॥
इति श्रुत्वा पुत्रवाक्यं पिता तं स तुतोष ह।
धन्योऽसि पुत्र धन्योऽहं त्वया पुत्रेण पुत्रवान्॥२२॥
एतस्मिन्नन्तरे तस्याः सुशीलायाः पितुर्गृहात्।
आकारणं समगमत्तदा सा च जगाम ह॥२३॥
ज्येष्ठोऽस्माकं समीपेऽस्तु कनिष्ठो नीयतां त्वया।
सा तथैव सती चक्रे भर्तृश्वशुरवाक्यतः॥२४॥
तदा तौ पुत्रपितरौ तैलेनाभ्यज्य बालकम्।
स्नापयित्वा सुवस्त्रैश्च भूषणैः समलङ्कृतम्॥२५॥
पूर्वाषाढावारुणर्क्षे स्थापयामासतुर्मुदा।
वाप्या वार्देवतास्तुष्टा भवन्त्विति समूचतुः॥२६॥
तदैव वापी पूर्णाभूत्सुधातुल्येन वारिणा।
उभौ गृहं जग्मतुस्तौ हर्षशोकसमन्वितौ॥२७॥
सा सुशीला पितुर्गेहेऽसूत पुत्रं तृतीयकम्।
मासत्रयोत्तरं गेहं निजं गन्तुं च निर्गता॥२८॥
वापीसमीपं प्राप्तासौ वापीं पूर्णां ददर्श च।
विस्मयं परमं प्राप तत्र स्नानं चकार ह॥२९॥
श्वशुरस्य प्रयासो मे सार्थकश्च धनव्ययः।
तद्दिने सप्तमी चासीच्छ्रावणे शुक्लपक्षके॥३०॥
सुशीलाया व्रतं चासीच्छीतलासंज्ञितं शुभम्।
सा तत्र पाकमकरोदोदनं चानयद् दधि॥३१॥
वार्देवताश्च सम्पूज्य दध्यन्नं कर्कटीफलम्।
नैवेद्यं कल्पयामास दत्त्वा विप्राय वायनम्॥३२॥
स्वयं तदेव बुभुजे सहिता सहवासिभिः।
ततो योजनमात्रं तु तस्या ग्रामो बभूव ह॥३३॥
ततः सा निर्गता चासीदारुह्य शिबिकां शुभाम्।
बालकद्वयसंयुक्ता ततस्ता जलदेवताः॥३४॥
ऊचुः परस्परं चास्याः पुत्रो देयो यतोऽनया।
अस्माकं व्रतमाचीर्णं प्रज्ञा च विहिता परा॥३५॥
एतद्व्रतप्रभावेण नूतनो दीयते सुतः।
पूर्वजातो यदि ग्राह्यो ह्यस्मत्तोषस्य किं फलम्॥३६॥
विसर्जयामासुरिति चोक्त्वान्योन्यं दयालवः।
मातरं दर्शयामासुर्वाप्या निष्कास्य बाह्यतः॥३७॥
अधावत्पृष्ठतो मातुर्मातरित्याह्वयञ्छिशुः।
संश्रुत्य पुत्रशब्दं सा परावृत्यावलोकयत्॥३८॥
दृष्ट्वा सा नन्दनं स्वीयं चकिता साभवद्धृदि।
स्थाप्याङ्के मूर्ध्न्यवघ्राय किञ्चित्पप्रच्छ नो सुतम्॥३९॥
बिभेष्यतीति बुद्ध्या सा हृदये त्वन्वचिन्तयत्।
तस्करैर्यदि वा नीतस्तर्ह्यलङ्कारवान्कथम्॥४०॥
पिशाचैर्यदि वा नीतो मोक्षितश्च पुनः कथम्।
चिन्तासमुद्रे मग्नाः स्युर्गृहसम्बन्धिनो जनाः॥४१॥
इत्येवं चिन्तयन्ती सा नगरद्वारमाप सा।
जनाः सङ्कथयामासुः सुशीला सुसमागता॥४२॥
श्रुत्वा तु पितृपुत्रौ तौ परां चिन्तामवापतुः।
किं वदिष्यति चास्माकमस्माभिर्वा किमुच्यताम्॥४३॥
एतस्मिन्नन्तरे प्राप्ता पुत्रत्रयसमन्विता।
ज्येष्ठं दृष्ट्वा तु तं बालं श्वशुरश्च पतिश्च सः॥४४॥
आश्चर्यं परमं प्राप परां मुदमवाप च।
त्वया किं पुण्यमाचीर्णं व्रतं वापि शुचिस्मिते॥४५॥
पतिव्रतासि धन्यासि पुण्यवत्यसि भामिनि।
मासद्वयं तु सञ्जातमकस्मान्नास्त्यभूच्छिशुः॥४६॥
स च त्वया पुनर्लब्धो वापी पूर्णापि चाभवत्।
एकपुत्रा गतासीस्त्वमागतासि त्रयान्विता॥४७॥
त्वयोद्धृतं कुलं सुभ्रु किं त्वां स्तौमि शुभानने।
श्वशुरेण स्तुतैवं सा पत्या प्रेम्णा च वीक्षिता॥४८॥
श्वश्र्वा चानन्दितोवाच पुण्यं मार्गस्य सर्वशः।
प्रापुः सर्वेऽपि चानन्दं भुक्त्वा भोगान्यथेप्सितान्॥४९॥
इत्येतत्कथितं वत्स शीतलासप्तमीव्रतम्।
दध्योदनं शीतलं च शीतलं कर्कटीफलम्॥५०॥
वापीजलं शीतलं तु शीतलाश्चापि देवताः।
तापत्रयस्य सन्तापाच्छीतलाव्रतिनस्ततः॥५१॥
अतो हेतोः सप्तमीयं शीतलेति यथार्थिका॥५२॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये शीतलासप्तमीव्रतकथनं नाम षोडशोऽध्यायः॥१६॥