पञ्चदशोऽध्यायः
सनत्कुमार उवाच
श्रुतमाश्चर्यजनकं नागानां पञ्चमीव्रतम्।
षष्ठ्यां कथय देवेश किं व्रतं कीदृशो विधिः॥१॥
ईश्वर उवाच
शुक्लपक्षे श्रावणे तु षष्ठ्यां कार्यं व्रतं शुभम्।
सूपौदनाख्यं विप्रेन्द्र महामृत्युविनाशनम्॥२॥
शिवालये गृहे वापि शिवं सम्पूज्य यत्नतः।
सूपौदनस्य नैवेद्यमर्पयेद्विधिसंयुतः॥३॥
आम्रस्य लवणं शाकं साधने परिकल्पयेत्।
नैवेद्यस्य पदार्थैस्तु वायनं ब्राह्मणस्य च॥४॥
य एतद्विधिना कुर्यात्तस्य पुण्यमनन्तकम्।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥५॥
राजासीद्रोहितो नाम बहुकालमपुत्रवान्।
पुत्रार्थी स तपश्चक्रे महत्परमदारुष्णम्॥६॥
प्रारब्धे नास्ति ते पुत्रो बोधितोऽपि स वेधसा।
निर्बन्धान्न निवृत्तोऽभूत्तपसः सोऽतिलालसः॥७॥
ततः सङ्कटमापन्नो वेधाः प्रादुरभूत्पुनः।
पुत्रो दत्तस्तव मया अल्पायुः स भविष्यति॥८॥
पत्नी राजा मन्त्रयेतां वन्ध्यात्वं तु गमिष्यति।
अपुत्रत्वापवादश्च अलमित्येव जायताम्॥९॥
ततो ब्रह्मवरात्पुत्रो हर्षशोकपरोऽभवत्।
जातकर्मादिसंस्कारांश्चक्रे राजा यथाविधि॥१०॥
राज्ञी सा दक्षिणा नाम राजा चैव स रोहितः।
शिवदत्त इति प्रेम्णा चक्रतुर्नाम तस्य तौ॥११॥
उपनीतश्च तनयो राज्ञा तु भयचेतसा।
विवाहं न चकारास्य भूमिपालो मृतेर्भयात्॥१२॥
तदा षोडशवर्षेऽसौ मरणं प्राप पुत्रकः।
चिन्तामाप परां राजा ब्रह्मचारिमृतिं स्मरन्॥१३॥
येषां कुले ब्रह्मचारी निधनं प्राप्नुयाद्यदि।
तत्कुलं क्षयमायाति सोऽपि दुर्गतिमापतेत्॥१४॥
सनत्कुमार उवाच
देवदेव जगन्नाथ परिहारोऽस्ति वा न वा।
अस्ति चेच्च वदस्वाद्य दोषशान्तिर्यदा भवेत्॥१५॥
ईश्वर उवाच
स्नातको ब्रह्मचारी च निधनं प्राप्नुयाद्यदि।
स योज्यश्चार्कविधिना संयोज्यौ तौ ततः परम्॥१६॥
देशकालौ तु सङ्कीर्त्यांमुकगोत्रादिनामतः।
व्रतं वैसर्गिकं कुर्वे मृतस्य ब्रह्मचारिणः॥१७॥
हेम्नाभ्युदयिकं कृत्वा प्रतिष्ठाप्य च पावकम्।
आघारान्तं च सम्पाद्य चतुर्व्याहृतिभिर्हुनेत्॥१८॥
व्रतपत्यग्नये चैव व्रतानुष्ठानसत्फलम्।
सम्पादनाय विश्वेभ्यो देवेभ्यश्च हुनेद् घृतम्॥१९॥
ततः स्विष्टकृते हुत्वा होमशेषं समापयेत्।
देशकालौ पुनः स्मृत्वा करिष्येऽर्कविवाहकम्॥२०॥
हेम्नाभ्युदयिकं कृत्वा अर्कशाखां शवं तथा।
लिप्त्वा तैलहरिद्राभ्यां पीतसूत्रेण वेष्टयेत्॥२१॥
पीतवस्त्रयुगेनापि अग्निं संस्थापयेत्ततः।
आघारान्तेऽग्नये चैव विवाहविधियोजकम्॥२२॥
बृहस्पतये कामाय चतुर्व्याहृतिभिस्तथा।
आज्यं स्विष्टकृतं हुत्वा कर्म चैवं समापयेत्॥२३॥
अर्कशाखां शवं चैव दाहयेच्च यथाविधि।
मृतस्य म्रियमाणस्य षडब्दं व्रतमाचरेत्॥२४॥
त्रिंशद्भ्यो ब्रह्मचारिभ्यो दद्यात्कौपीनकान्नवान्।
हस्तमात्राः कर्णमात्रा दद्यात्कृष्णाजिनानि च॥२५॥
पादुकां छत्रमाल्यानि गोपीचन्दनमेव च।
मणिप्रवालमाल्यं च भूषणानि समर्पयेत्॥२६॥
एवं कृते विधानेन विघ्नः कोऽपि न जायते।
ईश्वर उवाच
एवं श्रुत्वा ब्राह्मणेभ्यो राजा हृद्यविचारयत्॥२७॥
भाति मेऽर्कविवाहोऽयमनुकल्पो न मुख्यकः।
न ददाति प्रमीतस्य कन्यां कश्चिद्वधूं यतः॥२८॥
अहं राजास्मि प्रददे रत्नानि न धनं बहु।
ददामि तस्मै यः कश्चिद्दास्यतेऽस्य वधूं यदि॥२९॥
विप्रः कश्चित्पुरे तस्मिन्नासीद्देशान्तरं गतः।
तस्य पूर्वं मृतायास्तु भार्यायाः कन्यका शुभा॥३०॥
आसीद् द्वितीया भार्या तु दुष्टचित्ताविचारयत्।
सपत्नीद्वेषतश्चापि बहुद्रव्यस्य लोभतः॥३१॥
दशवर्षा तु सा बाला दीना मातृवशं गता।
सापत्नमाता सा लक्षं गृहीत्वा प्रददौ सुताम्॥३२॥
कन्यां गृहीत्वा जग्मुस्ते श्मशानं सरितस्तटे।
विवाहं चक्रतुश्चैव शवेन सह कन्यकाम्॥३३॥
योजयित्वा विधानेन दग्धुं समुपचक्रमुः।
ततः सा कन्यकापृच्छत्किमिदं क्रियते जनाः॥३४॥
ततस्ते दुःखिताः प्रोचुर्दह्यतेऽयं पतिस्तव।
ततः प्रोवाच सा भीता रुदती बालभावतः॥३५॥
पतिः किं दह्यते मेऽसौ दग्धुं नैव ददाम्यहम्।
गच्छध्वं सहिताः सर्वे तिष्ठाम्यत्राहमेकिका॥३६॥
पत्या सह गमिष्यामि उत्तिष्ठति यदा ह्यसौ।
दृष्ट्वा तस्यास्तु निर्बन्धं करुणादीनचेतसः॥३७॥
प्रारब्धवादिनो वृद्धाः केचित्तत्रैवमूचिरे।
अहो किं वा भावि कर्म ज्ञायते नैव कस्यचित्॥३८॥
दीनपालः कृपालुश्च भगवान् किं करिष्यति।
निराश्रिता च कन्येयं मात्रा सापत्नभावतः॥३९॥
विक्रीता स्यादतो देवः कदाचित्पालको भवेत्।
अतोऽस्माभिरशक्येयं दग्धुं चायं तथा शवः॥४०॥
अतोऽस्माभिश्च गन्तव्यं सर्वेषां रोचते यदि।
सम्मन्त्र्यैवं तु सर्वेऽपि गतास्ते नगरं प्रति॥४१॥
सैका शिवं पार्वतीं च स्मरन्ती भयविह्वला।
अजानन्ती बालभावात्किमेतदिति विह्वला॥४२॥
तस्याः संस्मरणाद्देव्याः सर्वज्ञौ पार्वतीशिवौ।
करुणापूर्णहृदयौ तत्राजग्मतुरञ्जसा॥४३॥
वृषारूढौ तु तौ दृष्ट्वा दम्पती तेजसां निधी।
ननाम दण्डवद्भूमौ न जानन्त्यपि देवते॥४४॥
आश्वासनं परं लेभे आगता सङ्गतिस्त्विति।
उवाच च पतिः किं मे जागृतो नैव जायते॥४५॥
प्रसन्नौ बालभावेन दयया च परिप्लुतौ।
उचतुस्ते जनन्यास्तु व्रतं सूपौदनाभिधम्॥४६॥
व्रतं सङ्कल्प्य सतिलं गृहीत्वास्य प्रयच्छ मे।
ब्रूहि यन्मज्जनन्यास्ति व्रतं सूपौदनाभिधम्॥४७॥
कृतं तस्य प्रभावेण उत्तिष्ठतु पतिर्मम।
तया कृतं तथा सर्वं शिवदत्तस्तथोत्थितः॥४८॥
उपदिश्य व्रतं तस्यास्तदान्तर्दधतुः शिवौ।
शिवदत्तस्तु पप्रच्छ का त्वं क्वेहागतोऽस्म्यहम्॥४९॥
सा चाह किञ्चिद् वृत्तान्तं रात्रिश्चापि गताभवत्।
प्रातर्नदीतीरगता जना राज्ञे न्यवेदयन्॥५०॥
राजन् पुत्रः स्नुषा चैव नदीतीरेऽवतिष्ठतः।
प्रामाणिकेभ्यः श्रुत्वासौ हर्षं लोकोत्तरं ययौ॥५१॥
हर्षभेरीं वादयन्स नदीतीरे समाययौ।
जनाश्च मुदिताः सर्वे प्रशशंसुर्जनाधिपम्॥५२॥
राजन् गतः कालगृहं पुत्रस्ते पुनरागतः।
प्रशशंस स्नुषां राजा किमहं शस्यते जनैः॥५३॥
दुरदृष्टोऽधमश्चाहं धन्येयं सुभगा स्नुषा।
एतत्पुण्यप्रभावेण पुत्रोऽयं जीवितो मम॥५४॥
एवं स्नुषां सुसम्भाव्य राजा ब्राह्मणसत्तमान्।
पूजयामास विभवैर्दानमानपुरः सुरम्॥५५॥
बहिनतप्रमीतस्य पुनर्ग्रामप्रवेशने।
विधिं ब्राह्मणसन्दिष्टं शान्तिकं विधिनाचरत्॥५६॥
एतत्ते कथितं वत्स व्रतं सूपौदनाभिधम्।
पञ्चवर्षाणि कृत्वैतत्पश्चादुद्यापनं चरेत्॥५७॥
प्रतिमां पार्वतीशस्य अर्चयेत्प्रतिवासरे।
प्रातर्होमं प्रकुर्वीत चरुणाम्रदलैस्तथा॥५८॥
नैवेद्यं वायनं चैव व्रतोक्तविधिनाचरेत्।
पुत्रं चिरायुषं लब्ध्वा अन्ते शिवपुरं व्रजेत्॥५९॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये सूपौदनषष्ठीव्रतकथनं नाम पञ्चदशोऽध्यायः॥१५॥