चतुर्दशोऽध्यायः
ईश्वर उवाच
अतः परं प्रवक्ष्यामि श्रावणे शुक्लपक्षके।
पञ्चम्यां यच्च कर्तव्यं तच्छृणुष्व महामुने॥१॥
चतुर्थ्यामेकभुक्तं तु नक्तं स्यात्पञ्चमीदिने।
कृत्वा स्वर्णमयं नागमथवा रौप्यसम्भवम्॥२॥
कृत्वा दारुमयं वापि अथवा मृण्मयं शुभम्।
पञ्चम्यामर्चयेद्भक्त्या नागं पञ्चफणान्वितम्॥३॥
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः।
पूजयेद् विधिवच्चैव दधिदूर्वाङ्करैः शुभैः॥४॥
करवीरैर्मालतीभिर्जातिपुष्पैश्च चम्पकैः।
तथा गन्धैरक्षतैश्च धूपैर्दीपैर्मनोहरैः॥५॥
ब्राह्मणान्भोजयेत्पश्चाद् घृतमोदकपायसैः।
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम्॥६॥
तथा कर्कोटकं नाम नागमश्वं तथाष्टमम्।
धृतराष्ट्रं शङ्खपालं कालीयं तक्षकं तथा॥७॥
हरिद्रया चन्दनेन कुड्ये नागकुलाधिपान्।
नवकडूंश्च संलिख्य पूजयेत्कुसुमादिभिः॥८॥
वल्मीके पूजयेन्नागान्दुग्धं चैव तु पाययेत्।
घृतयुक्तं शर्कराढ्यं यथेष्टं चार्पयेद् बुधः॥९॥
लोहपात्रे पोलिकादि न कुर्यात्तद्दिने नरः।
गोधूमपायसं कुर्यान्नैवेद्यार्थं तु भक्तितः॥१०॥
भर्जिताश्चणकाश्चैव व्रीहयो यावनालिकाः।
अर्पणीयाश्च सर्पेभ्यः स्वयं चैव तु भक्षयेत्॥११॥
बालकेभ्योऽर्पणीयाश्च दृढा दन्ता भवन्ति हि।
वल्मीकस्य समीपे च गायनं वाद्यमेव च॥१२॥
स्त्रीभिः कार्यं भूषिताभिः कार्यश्चैवोत्सवो महान्।
एवं कृते कदाचिच्च सर्पतो न भयं भवेत्॥१३॥
अन्यच्च शृणुयाद्विप्र लोकानां हितकाम्यया।
कथयिष्यामि किञ्चित्ते तच्छृणुष्व महामुने॥१४॥
नागदष्टो नरो वत्स प्राप्य मृत्युं व्रजत्यधः।
अधो गत्वा भवेत्सर्पस्तामसो नात्र संशयः॥१५॥
पूर्वोक्तविधिना सर्वमेकभुक्तादि कारयेत्।
नागनिर्माणपूजादि विप्रैः सह तथादरात्॥१६॥
एवं द्वादशमासेषु मासि मासि व्रतं चरेत्।
पञ्चम्यां शुक्लपक्षस्य पूर्णे संवत्सरे पुनः॥१७॥
ब्राह्मणांश्च यतींश्चैव नागानुद्दिश्य भोजयेत्।
इतिहासविदे नागं काञ्चनं रत्नचित्रितम्॥१८॥
गां च दद्यात्सवत्सां वै सर्वोपस्करसंयुताम्।
दानकाले पठेदेतत्स्मरन्नारायणं विभुम्॥१९॥
सर्वगं सर्वदातारमनन्तमपराजितम्।
ये केचिन्मे कुले सर्पदष्टाः प्राप्ता ह्यधोगतिम्॥२०॥
व्रतदानेन गोविन्द मुक्तिभाजो भवन्तु ते।
इत्युच्चार्याक्षतैर्युक्तं सितचन्दनमिश्रितम्॥२१॥
वासुदेवाग्रतो भक्त्या तोये तोयं विनिक्षिपेत्।
अनेन विधिना सर्वे ये मरिष्यन्ति वा मृताः॥२२॥
सर्पतस्तेऽभियास्यन्ति स्वर्गतिं मुनिसत्तम।
एवं सर्वान्समुद्धृत्य कुलजान्कुलनन्दन॥२३॥
प्रयाति शिवसान्निध्यं सेव्यमानोऽप्सरोगणैः।
वित्तशाठ्यविहीनो यः सर्वमेतत्फलं लभेत्॥२४॥
नक्तेन भक्तिसहिताः सितपञ्चमीषु ये हि भवन्ति पूजयन्ति सुभगान्कुसुमोपहारैः।
तेषां गृहेष्वभयदा हि भवन्ति सर्पा हर्षान्विता मणिमयूखविभासिताङ्गाः॥२५॥
प्रतिग्रहं ये च कुर्युर्गृहदानस्य वाडवाः।
प्रयान्ति सर्पतां तेऽपि घोरां भुक्त्वा तु यातनाम्॥२६॥
अन्तकाले च ये केचिन्नागहत्यावशादिह।
मृतापत्या अपुत्रा वा भवन्ति मुनिसत्तम॥२७॥
कार्पण्यवशतः स्त्रीणां सर्पतां यान्ति केचन।
निक्षेपानृतवादाच्च केचित्सर्पा भवन्ति हि॥२८॥
अन्यैश्चापि निमित्तैर्ये सर्पतां यान्ति मानवाः।
उपायोऽयं विनिर्दिष्टः सर्वेषां निष्कृतौ परः॥२९॥
वित्तशाठ्यविहीनेन कृता चेन्नागपञ्चमी।
तद्धितार्थं हरिं शेषः सर्वनागाधिपो विभुम्॥३०॥
बद्धाञ्जलिः प्रार्थयते वासुकिश्च सदाशिवम्।
शेषवासुकिविज्ञप्त्या शिवविष्णू प्रसादितौ॥३१॥
मनोरथांस्तस्य सर्वान्कुरुतः परमेश्वरौ।
नागलोके तु तान्भोगान्भुक्त्वा तु विविधान्बहून्॥३२॥
ततो वैकुण्ठमासाद्य कैलासं वापि शोभनम्।
शिवविष्णुगणो भूत्वा लभते परमं सुखम्॥३३॥
एतत्ते कथितं वत्स नागानां पञ्चमीव्रतम्।
अतः परं किमन्यत्त्वं श्रोतुमिच्छसि तद्वद॥३४॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये नागपञ्चमीव्रतकथनं नाम चतुर्दशोऽध्यायः॥१४॥