त्रयोदशोऽध्यायः
सनत्कुमार उवाच
केन व्रतेन भगवन्सौभाग्यमतुलं भवेत्।
पुत्रपौत्रधनैश्वर्यं मनुजः सुखमेधते।
तन्मे वद महादेव व्रतानामुत्तमं व्रतम्॥१॥
ईश्वर उवाच
अस्ति दूर्वा गणपतेर्व्रतं त्रैलोक्यविश्रुतम्।
भगवत्या पुरा चीर्णं पार्वत्या श्रद्धया सह॥२॥
सरस्वत्या महेन्द्रेण विष्णुना धनदेन च।
अन्यैश्च देवैर्मुनिभिर्गन्धर्वैः किन्नरैस्तथा।
चीर्णमेतद् व्रतं सर्वैः पुराभून्मुनिसत्तम॥३॥
चतुर्थी या भवेच्छुद्धा नभोमासि सुपुण्यदा।
तस्यां व्रतमिदं कुर्यात्सर्वपापौघनाशनम्॥४॥
गजाननं चतुर्थ्यां तु एकदन्तविपाटितम्।
विधाय हेम्ना विघ्नेशं हेमपीठासने स्थितम्॥५॥
तदा हेममयी दूर्वा तदाधारे व्यवस्थितम्।
संस्थाप्य विघ्नहर्तारं कलशे ताम्रभाजने॥६॥
वेष्टिते रक्तवस्त्रेण सर्वतोभद्रमण्डले।
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः॥७॥
अपामार्गशमीदूर्वातुलसीबिल्वपत्रकैः।
अन्यैः सुगन्धैः कुसुमैर्यथालब्धैः सुगन्धिभिः॥८॥
फलैश्च मोदकैः पश्चादुपहारं प्रकल्पयेत्।
यथावदुपचारैश्च पूजयेद् गिरिजासुतम्॥९॥
प्रतिमायां स्वर्णमय्यां निर्मितायां यथाविधि।
आवाहयामि विघ्नेशमागच्छतु कृपानिधिः॥१०॥
रत्नबद्धमिदं हैमं सिंहासनमनुत्तमम्।
आसनार्थमिदं दत्तं प्रतिगृह्णातु विश्वराट्॥११॥
उमासुत नमस्तुभ्यं विश्वव्यापिन्सनातन।
विघ्नौघं छिन्धि सकलं मम पाद्यं ददामि ते॥१२॥
गणेश्वराय देवाय उमापुत्राय वेधसे।
अर्घ्यमेतत्प्रयच्छामि गृहाण भगवन्मम॥१३॥
विनायकाय शूराय वरदाय नमो नमः।
इदमाचमनीयं ते ददामि प्रतिगृह्यताम्॥१४॥
गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम्।
स्नानार्थं ते मया दत्तं गृहाण सुरपुङ्गव॥१५॥
सिन्दूरेण यथा लक्ष्म कुङ्कुमै रञ्जितं मया।
वस्त्रयुग्ममिदं दत्तं गृहाण च नमोऽस्तु ते॥१६॥
लम्बोदराय देवाय सर्वविघ्नापहारिणे।
उमाङ्गमलसम्भूत चन्दनं प्रतिगृह्यताम्॥१७॥
अक्षताश्च सुरश्रेष्ठ रक्तचन्दनचर्चिताः।
मया निवेदिता भक्त्या गृहाण सुरसत्तम॥१८॥
चम्पकैः केतकीपत्रैर्जपाकुसुमसङ्घकैः।
गौरीपुत्रं पूजयामि प्रसीद तु ममोपरि॥१९॥
अनुग्रहाय लोकानां दानवानां वधाय च।
अवतीर्णः स्कन्दगुरुर्धूपं गृह्णातु वै मुदा॥२०॥
परं ज्योतिः सर्वसिद्धिप्रदाय च।
दीपं तुभ्यं प्रदास्यामि महादेवात्मने नमः॥२१॥
गणानां त्वेति नैवेद्यमर्पयेन्मोदकादिकम्।
अन्नं चतुर्विधं चैव पायसं लड्डुकादिकम्॥२२॥
कर्पूरैलादिसंयुक्तं नागवल्लीदलान्वितम्।
ताम्बूलं ते प्रदास्यामि मुखवासार्थमादरात्॥२३॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
दक्षिणां ते प्रदास्यामि ह्यतः शान्तिं प्रयच्छ मे॥२४॥
गणेश्वर गणाध्यक्ष गौरीपुत्र गजानन।
व्रतं सम्पूर्णतां यातु त्वत्प्रसादादिभानन॥२५॥
एवं सम्पूज्य विघ्नेशं यथाविभवविस्तरैः।
सोपस्करं गणाध्यक्षमाचार्याय निवेदयेत्॥२६॥
गृहाण भगवन्ब्रह्मन्गणराजं सदक्षिणम्।
एतत्त्वद्वचनादद्य पूर्णतां यातु मे व्रतम्॥२७॥
एवं यः पञ्चवर्षाणि कृत्वोद्यापनमाचरेत्।
ईप्सितांल्लभते कामान्देहान्ते शाङ्करं पदम्॥२८॥
यद्वा वर्षत्रयं कुर्यात्सर्वसिद्धिमवाप्नुयात्।
उद्यापनं विना यस्तु करोति व्रतमुत्तमम्॥२९॥
सर्वं निष्फलतां याति यथाविध्यपि यत्कृतम्।
उद्यापनदिने प्रातस्तिलैः स्नानं समाचरेत्॥३०॥
हेम्नः पलात्तदर्धार्धात्कृत्वा गणपतिं बुधः।
पञ्चगव्यैस्तु संस्नाप्य दूर्वाभिस्तु प्रपूजयेत्॥३१॥
मन्त्रैस्तु दशभिर्भक्त्या श्रद्धया सहितो नरः।
गणाधीश नमस्तुभ्यमुमापुत्राघनाशन॥३२॥
विनायकेशपुत्रेति सर्वसिद्धिप्रदायक।
एकदन्तेभवक्त्रेति तथा मूषकवाहन॥३३॥
कुमारगुरवे तुभ्यमितिनामपदैः पृथक्।
पूर्वेद्युरधिवास्यैव प्रातर्होमं समाचरेत्॥३४॥
दूर्वाभिर्मोदकैश्चैव ग्रहहोमपुरःसरम्।
पूर्णाहुतिं ततो हुत्वा आचार्यादीन्प्रपूजयेत्॥३५॥
गां सवत्सां घटोध्नीं च दद्याद्वित्तानुसारतः।
एवं कृते व्रते वत्स सर्वान्कामानवाप्नुयात्॥३६॥
मदीयप्रियपुत्रस्य व्रतेनाहं च तोषितः।
भुवि दत्त्वा सर्वभोगं ददाम्यन्ते च सद्गतिम्॥३७॥
यथा शाखाप्रशाखाभिर्दूर्वा वृद्धिं गता भवेत्।
तथैव पुत्रपौत्रादिसन्ततिर्वृद्धिगामिनी॥३८॥
इत्येतत्कथितं गुह्यं दूर्वागणपतिव्रतम्।
श्रेष्ठाच्छ्रेष्ठतरं चैव कर्तव्यं सुखमीप्सुभिः॥३९॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये दूर्वागणपतिव्रतकथनं नाम त्रयोदशोऽध्यायः॥१३॥