द्वादशोऽध्यायः
ईश्वर उवाच
परं प्रवक्ष्यामि स्वर्णगौरीव्रतं शुभम्।
श्रावणे शुक्लपक्षे तु तृतीयायां विधातृज॥१॥
प्रातः स्नात्वा नित्यकर्म कृत्वा सङ्कल्पमाचरेत्।
पार्वतीशङ्करौ पूज्यौ षोडशैरुपचारकैः॥२॥
देवदेव समागच्छ प्रार्थयेऽहं जगत्पते।
इमां मया कृतां पूजां गृहाण सुरसत्तम॥३॥
वायनानि प्रदेयानि दम्पतीभ्यस्तु षोडश।
भवान्याश्च महादेव्या व्रतसम्पूर्णहेतवे॥४॥
प्रीतये द्विजवर्याय वायनं प्रददाम्यहम्।
धानाषोडशपक्वान्नैर्वेणुपात्राणि षोडश॥५॥
कुर्याद्वस्त्रादिभिर्युक्तान्याहूय द्विजदम्पतीन्।
व्रतसम्पूर्णतार्थं तु ब्राह्मणेभ्यो ददाम्यहम्॥६॥
स्वलङ्कृताः सुवासिन्यः पातिव्रत्येन भूषिताः।
मम कार्यसमृद्ध्यर्थं प्रतिगृह्णन्तु शोभनाः॥७॥
एवं षोडशवर्षाणि ह्यष्टौ चत्वारि वा पुनः।
एकवर्षं तु सद्यो वा कृत्वा चोद्यापनं चरेत्॥८॥
पूजान्ते च कथां श्रुत्वा वाचकं सम्प्रपूजयेत्॥९॥
सनत्कुमार उवाच
केन चीर्णं व्रतमिदं माहात्म्यं चास्य कीदृशम्।
उद्यापनं कथं कार्यं तत्सर्वं वद मे प्रभो॥१०॥
ईश्वर उवच
साधु पृष्टं महाभाग कथयामि तवाग्रतः।
स्वर्णगौरीव्रतं नाम सर्वसम्पत्करं नृणाम्॥११॥
पुरा सरस्वतीतीरे सुविलाख्या महापुरी।
तत्र चन्द्रप्रभो नाम राजासीद्धनदोपमः॥१२॥
तस्यास्तां रूपलावण्ये सौन्दर्यस्मेरविभ्रमे।
महादेवीविशालाख्ये द्विभार्ये कमलेक्षणे॥१३॥
तयोः प्रियतरा ज्येष्ठा तस्यासीन्नृपतेर्मता।
स कदाचिद्वनं भेजे मृगयासक्तमानसः॥१४॥
सिंहशार्दूलवाराहवनमाहिषकुञ्जरान्।
हत्वा बभ्राम तृष्णार्तः स राजा विपिनं महत्॥१५॥
चक्रकारण्डवाकीर्णं चञ्चरीकपिकाकुलम्।
उत्फुल्लमल्लिकाजातिकुमुदोत्पलमण्डितम्॥१६॥
अपूर्वमवनीशोऽसौ ददर्शाप्सरसां सरः।
समासाद्य सरस्तीरं पीत्वा जलमनुत्तमम्॥१७॥
भक्त्या गौरीमर्चयन्तं ददर्शाप्सरसां गणम्।
किमेतदिति पप्रच्छ राजा राजीवलोचनः॥१८॥
स्वर्णगौरीव्रतमिदं क्रियतेऽस्माभिरुत्तमम्।
सर्वसम्पत्करं नृणां तत्कुरुष्व नृपोत्तम॥१९॥
राजोवाच
विधानं कीदृशं ब्रूत किं फलं विस्तरान्मम।
ता ऊचुर्योषितः सर्वास्तृतीयायां नभोयुजि॥२०॥
कर्तव्यं व्रतमेतद्धि स्वर्णगौरीतिसंज्ञितम्।
पार्वतीशङ्करौ पूज्यौ भक्त्या परमया मुदा॥२१॥
बध्नीयाद्दक्षिणे करे।
नरो वामे तु नारीणां गले वा बन्धनं मतम्॥२२॥
दोरकं षोडशगुणं तत्कृत्वा सोऽपि जग्राह व्रतं नियतमानसः।
गुणैः षोडशभिर्युक्तं दोरकं दक्षिणे करे॥२३॥
बध्नामि देवदेवेशि प्रसादं कुरु मे वरम्।
एवं देव्या व्रतं कृत्वा आजगाम निजं गृहम्॥२४॥
पप्रच्छ दोरकं हस्ते दृष्ट्वा ज्येष्ठातिकोपना।
त्रोटयित्वा च चिक्षेप बाह्यं शुष्कतरूपरि॥२५॥
न कर्तव्यं न कर्तव्यमिति राज्ञि वदत्यपि।
तेन संस्पृष्टमात्रेण तरुः पल्लवितोऽभवत्॥२६॥
तद् द्वितीया ततो दृष्ट्वा विस्मयाकुलिताभवत्।
तत्रस्थं दोरकं छिन्नं गृहीत्वा सा बबन्ध ह॥२७॥
ततस्तन्मासमाहात्म्यात्पत्युः प्रियतराभवत्।
ज्येष्ठा व्रतापचारेण सा त्यक्ता दुःखिता वनम्॥२८॥
प्रययौ सा महादेवीं ध्यायन्ती मनसा च ह।
मुनीनामाश्रमे पुण्ये निवसन्ती क्वचित् क्वचित्॥२९॥
निवारिता मुनिवरैर्गच्छ पापे यथासुखम्।
धावन्ती विपिनं घोरं निर्विण्णा निषसाद ह॥३०॥
ततस्तत्कृपया देवी प्रादुरासीत्तदग्रतः।
तां दृष्ट्वा दण्डवद्भूमौ नत्वा स्तुत्वा नृपप्रिया॥३१॥
जय देवि नमस्तुभ्यं जय भक्तवरप्रदे।
जय शङ्करवामाङ्गे जय मङ्गलमङ्गले॥३२॥
ततो भक्त्या वरं लब्ध्वा गौरीमभ्यर्च्य यद् व्रतम्।
चक्रे तस्य प्रभावेण भर्ता तां चानयद् गृहम्॥३३॥
ततो देव्याः प्रसादेन सर्वान्कामानवाप सा।
ततस्ताभ्यां नृपो राज्यं चक्रे सर्वं समृद्धिमान्॥३४॥
अन्ते शिवपदं प्राप्तः कान्ताभ्यां सहितो नृपः॥३५॥
यः शोभनं व्रतमिदं कुरुते शिवायाः कुर्यान्मम प्रियतरो भविता च गौर्याः।
प्राप्य श्रियं समधिकां भुवि शत्रुसङ्घ निर्जित्य निर्मलपदं स शिवस्य याति॥३६॥
एतस्योद्यापनविधिं सावधानमनाः शृणु।
शुभे तिथौ शुभे वारे चन्द्रे ताराबलान्विते॥३७॥
मण्डपेऽष्टदले पद्मे कुम्भं धान्योपरि न्यसेत्।
पूर्णपात्रं ताम्रमयं पलषोडशनिर्मितम्॥३८॥
तिलपूर्णं तत्र देवीशङ्करप्रतिमे न्यसेत्।
श्वेतवस्त्रयुगच्छन्नं श्वेतयज्ञोपवीतिनम्॥३९॥
वेदोक्तेन प्रतिष्ठा च कर्तव्या तु यथाविधि।
सम्यक्पूजां तु सम्पाद्य रात्रौ जागरणं चरेत्॥४०॥
प्रातः पूजां ततः कृत्वा ततो होमं समाचरेत्।
ग्रहहोमं पुरा कृत्वा प्रधानं जुहुयात्ततः॥४१॥
तिलाश्च यवसम्मिश्रा आज्येन च परिप्लुताः।
द्रव्यप्रधाने सङ्ख्या तु सहस्रमथ वा शतम्॥४२॥
आचार्यं पूजयेत्पश्चाद्वस्त्रालङ्कारधेनुभिः।
वायनानि च देयानि ब्राह्मणांश्चैव भोजयेत्॥४३॥
दम्पतीन् भोजयेच्चैव सङ्ख्यया षोडशैव तु।
भूयसीं दक्षिणां दद्यात् स्वस्य वित्तानुसारतः।
बन्धुभिः सह भुञ्जीत हर्षोत्सवसमन्वितः॥४४॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये तृतीयायां स्वर्णगौरीव्रतकथनं नाम द्वादशोऽध्यायः॥१२॥