एकादशोऽध्यायः

सनत्कुमार उवाच

वारव्रतानि सर्वाणि त्वत्तो देव श्रुतानि मे।
तव वागमृतं पीत्वा तृप्तिर्मे नैव जायते॥१॥
श्रावणेन समो मासो नास्त्यन्यः प्रतिभाति मे।
अथातस्तिथिमाहात्म्यं कथयस्व जगत्प्रभो॥२॥

ईश्वर उवाच

मासानां कार्तिकः श्रेष्ठस्तस्मान्माघः परो मतः।
ततोऽपि माधवः श्रेष्ठः सहश्चापि हरिप्रियः॥३॥
विश्वरूपेण चत्वारो मासाश्चैते मम प्रियाः।
द्वादशस्वपि मासेषु श्रावणः शिवरूपकः॥४॥
तिथयः श्रावणे मासि सर्वाश्च व्रतसंयुताः।
प्राधान्यतस्तथापि त्वां वच्मि काश्चित्सुशोभनाः॥५॥
तिथिवारविमिश्रं तु व्रतमाद्यं वदामि ते।
प्रतिपच्छ्रावणे मासि यदा सोमयुता भवेत्॥६॥
सोमवारास्तदा पञ्च पतन्त्यत्र हि मासिके।
रोटकाख्यं व्रतं तत्र कर्तव्यं श्रावणे नरैः॥७॥
सार्धमासत्रयं वापि रोटकाख्यं व्रतं भवेत्।
लक्ष्मीवृद्धिकरं प्रोक्तं सर्वकामार्थसिद्धिदम्॥८॥
विधानं तस्य वक्ष्यामि शृणुष्वावहितो मुने।
श्रावणस्य सिते पक्षे प्रतिपत्सोमवासरे॥९॥
प्रातः सङ्कल्पयेद् विद्वान् करिष्ये रोटकव्रतम्।
अद्यारभ्य सुरश्रेष्ठ कृपां कुरु जगद्गुरो॥१०॥
दिने दिने प्रकर्तव्या पूजा देवस्य शूलिनः।
बिल्वपत्रैरखण्डैश्च तुलसीपत्रकैस्तथा॥११॥
नीलोत्पलैश्च कमलैः कहारैः कुसुमैस्तथा।
चम्पकैर्मालतीपुष्पैः कुविन्दैरकपुष्पकैः॥१२॥
अन्यैर्नानाविधैः पुष्पैर्ऋतुकालोद्भवैः शुभैः।
धूपैर्दीपैश्च नैवेद्यैः फलैर्नानाविधैरपि॥१३॥
नैवेद्यमर्पयेन्मुख्यं रोटकानां विशेषतः।
कर्तव्या रोटकाः पञ्च पुरुषाहारमानतः॥१४॥
द्वौ तु विप्राय दातव्यौ द्वाभ्यां च भोजनं मतम्।
एको देवाय दातव्यो नैवेद्यार्थं सदा बुधैः॥१५॥
शेषपूजां विधायाथ अर्घ्यं दद्याद्विचक्षणः।
रम्भाफलं नारिकेलं जम्बीरं बीजपूरकम्॥१६॥
खर्जूरी कर्कटी द्राक्षा नारङ्गं मातुलिङ्गकम्।
अक्षोटकं च दाडिम्बं यच्चान्यदृतुसम्भवम्॥१७॥
प्रशस्तमर्घ्यदाने पुण्यफलं शृणु।
सप्तसागरसंयुक्तां भूमिं दत्त्वा तु यत्फलम्॥१८॥
तत्फलं समवाप्नोति व्रतं कृत्वा विधानतः।
पञ्चवर्षं प्रकर्तव्यमतुलं धनमीप्सुभिः॥१९॥
पश्चादुद्यापनं कुर्याद्रोटकाख्यव्रतस्य तु।
| उद्यापने तु कर्तव्यौ हेमरूप्यौ च रोटकौ॥२०॥
पूर्वेद्युरधिवास्याथ प्रातर्होमं समाचरेत्।
सर्पिषा शिवमन्त्रेण बिल्वपत्रैश्च शोभनैः॥२१॥
एवं कृते व्रते तात सर्वान्कामानवाप्नुयात्।
सनत्कुमार वक्ष्यामि द्वितीयायां व्रतं शुभम्॥२२॥
यत्कृत्वा श्रद्धया मर्त्यो लक्ष्मीवान्पुत्रवान्भवेत्।
औदुम्बराभिधं चैव तद्वतं पापनाशनम्॥२३॥
श्रावणे मासि सम्प्राप्ते द्वितीयायां शुभे तिथौ।
प्रातः सङ्कल्प्य विधिवद् व्रतं कुर्याद्विचक्षणः॥२४॥
नारी वाथ नरो वापि पात्रं स्यात्सर्वसम्पदाम्।
साक्षादुदुम्बरः पूज्यस्तदभावे तु कुड्यके॥२५॥
लिखित्वा पूजयेत्तत्र चतुर्भिर्नाममन्त्रकैः।
उदुम्बर नमस्तुभ्यं नमस्ते हेमपुष्पक॥२६॥
नमो रक्ताण्डशालिने।
तत्राधिदेवते पूज्ये शिवः शुक्रस्तथैव च॥२७॥
सजन्तुफलयुक्ताय त्रयस्त्रिंशत्फलान्यस्य गृहीत्वा भागमाचरेत्।
एकादश ब्राह्मणाय दद्यात्तावन्ति दैवते॥२८॥
तावन्ति स्वयमश्नीयान्नान्नाहारस्तु तद्दिने।
शिवं शुक्रं च सम्पूज्य रात्रौ जागरणं चरेत्॥२९॥
एवं कृत्वा व्रतं तात वर्षाण्येकादशैव तु।
पश्चादुद्यापनं कुर्याद् व्रतसम्पूर्णहेतवे॥३०॥
उदुम्बरः सुवर्णेन फलपुष्पदलान्वितः।
तत्र सम्पूजयेद्विद्वान्प्रतिमे शिवशुक्रयोः॥३१॥
प्रातर्होमं चरेच्चैव ह्युदुम्बरफलैः शुभैः।
कोमलैरल्पमात्रैश्च सङ्ख्ययाऽष्टोत्तरं शतम्॥३२॥
उदुम्बरसमिद्भिश्च तिलैराज्यैश्च होमयेत्।
एवं समाप्य होमं तु आचार्यं पूजयेत्ततः॥३३॥
ब्राह्मणान्भोजयेत्पश्चाच्छतं शक्तौ दशाथ वा।
एवं व्रते कृते वत्स फलं यत्स्याच्छृणुष्व तत्॥३४॥
बहुजन्तुफलो वृक्षो यथायं साधकस्तथा।
भवेदनेकसुतवान्वंशवृद्धिस्तथा भवेत्॥३५॥
हेमपुष्यैर्यथा वृक्षस्तथा लक्ष्मीप्रदो भवेत्।
अद्यावधि न कस्यापि व्रतमेतत्प्रकाशितम्॥३६॥
गोप्याद् गोप्यतरं चैव तवाग्रे कथितं मया।
नैवात्र संशयः कार्यो भक्त्या चैतद् व्रतं चरेत्॥३७॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये प्रतिपोटकव्रतद्वितीयोदुम्बरव्रतकथनं नामैकादशोऽध्यायः॥११॥