दशमोऽध्यायः

अतः ईश्वर उवाच परं प्रवक्ष्यामि मन्दवारविधिं तव।
सनत्कुमार यत्कृत्वा मन्दत्वं नैव जायते॥१॥
श्रावणे मासि देवानां त्रयाणां पूजनं शनौ।
नृसिंहस्य शनेश्चैव अञ्जनीनन्दनस्य च॥२॥
कुड्ये स्तम्भेऽथवालिख्य नृसिंहप्रतिमां शुभाम्।
हरिद्रायुक्चन्दनेन लक्ष्म्या सह जगत्पतिम्॥३॥
सम्पूज्य नीलपुष्पैश्च रक्तैः पीतैश्च शोभनैः।
नैवेद्यं खिच्चडीसंज्ञं शाकं कुञ्जरसंज्ञितम्॥४॥
स्वयं चैव तदश्नीयाद् ब्राह्मणांश्चैव भोजयेत्।
तिलतैलं घृतस्नानं नृसिंहस्य प्रियं भवेत्॥५॥
शनैश्चरदिने तैलं प्रशस्तं सर्वकर्मसु।
अभ्यज्या ब्राह्मणास्तद्वत्सुवासिन्यस्तु तैलतः॥६॥
स्वयमभ्यज्य च स्नायात्कुटुम्बसहितः शनौ।
माषान्नं च प्रकर्तव्यं प्रीणाति नरकेसरी॥७॥
एवं चतुर्षु वारेषु श्रावणे मासि तद् व्रतम्।
कुर्वीत तस्य सदने लक्ष्मीः स्थिरतरा भवेत्॥८॥
धनधान्यसमृद्धिश्च अपुत्रः पुत्रवान्भवेत्।
इह लोके सुखं भुक्त्वा अन्ते वैकुण्ठमाप्नुयात्॥९॥
दिग्व्यापिनी च सत्कीर्तिर्नृसिंहस्य प्रसादतः।
एतत्ते कथितं सौम्य नृसिंहव्रतमुत्तमम्॥१०॥
एवं शनिप्रीणना कर्तव्यं तच्छृणुष्व भोः।
खञ्जं ब्राह्मणमेकं तु तदभावे तु कञ्चन॥११॥
तिलतैलेन स्नापयेदुष्णवारिणा।
नृसिंहोक्तेन चान्नेन भोजयेच्छ्रद्धयान्वितः॥१२॥
तैलं लोहं तिलान्माषान्दद्यात्कम्बलमेव च।
शनैश्चरप्रीणनाय शनिर्मे प्रीयतामिति॥१३॥
अभ्यज्य शनैश्चरस्याभिषेकं तिलतैलेन कारयेत्।
प्रशस्ता अक्षतास्तस्य पूजने तिलमाषयोः॥१४॥
ध्यानं तस्य च वक्ष्यामि शृणुष्वावहितो मुने।
शनैश्चरः कृष्णवर्णो मन्दः काश्यपगोत्रजः॥१५॥
सौराष्ट्रदेशसम्भूतः सूर्यपुत्रो वरप्रदः।
दण्डाकृतिर्मण्डले स्यादिन्द्रनीलसमद्युतिः॥१६॥
बाणबाणासनधरः शूलधृग्गृध्रवाहनः।
यमाधिदैवतश्चैव ब्रह्मप्रत्यधिदैवतः॥१७॥
कस्तूर्यगुरुगन्धः स्यात्तथा गुग्गुलुधूपकः।
कृसरान्नप्रियश्चैवं विधिरस्य प्रकीर्तितः॥१८॥
प्रतिमा पूजने चास्य कार्या लोहमयी शुभा।
अस्योद्देशेन पूजायां दानं कृष्णं द्विजोत्तम॥१९॥
कृष्णवस्त्रयुगं दद्याद्दद्याद् गां कृष्णवत्सकाम्।
एवं सम्पूज्य विधिवत्प्रार्थयेच्च स्तुवीत च॥२०॥
यः पुनर्नष्टराज्याय नीलाय शनिं नीलाञ्जनप्रख्यं परितोषितः।
ददौ निजं महाराज्यं स मे सौरिः प्रसीदतु॥२१॥
मन्दचेष्टाप्रसारिणम्।
छायामार्तण्डसम्भूतं तन्नमामि शनैश्चरम्॥२२॥
नमस्ते कोणसंस्थाय पिङ्गलाय नमोऽस्तु ते।
प्रसादं कुरु देवेश दीनस्य प्रणतस्य च॥२३॥
एवं स्तुत्या प्रार्थयित्वा प्रणमेच्च पुनः पुनः।
पूजने वैदिको मन्त्रः शन्नोदेवीरिति स्मृतः॥२४॥
त्रैवर्णानां च शूद्राणां नाममन्त्रः प्रकीर्तितः।
य एवं विधिना मन्दं पूजयेत्सुसमाहितः॥२५॥
तदीयं तु भयं तस्य स्वजेऽपि न भविष्यति।
एवमेतद् व्रतं विप्र ये करिष्यन्ति मानवाः॥२६॥
वासरे वासरे प्राप्ते श्रावणे मासि भक्तितः।
तेषां शनैश्चरकृतः पीडालेशोऽपि नो भवेत्॥२७॥
प्रथमो वा द्वितीयो वा चतुर्थः पञ्चमोऽपि वा।
सप्तमश्चाष्टमो वापि नवमो द्वादशोऽपि वा॥२८॥
जन्मराशेः स्थितो मन्दः पीडां च कुरुते सदा।
शमग्निरिति मन्त्रस्य तत्प्रसादे जपो मतः॥२९॥
इन्द्रनीलमणेर्दानं प्रदद्यात्तस्य तुष्टये।
अतः परं प्रवक्ष्यामि हनुमत्तुष्टये विधिम्॥३०॥
शनिवारे श्रावणे च च अभिषेकं समाचरेत्।
रुद्रमन्त्रेण तैलेन हनुमत्प्रीणनाय च॥३१॥
तैलमिश्रितसिन्दूरलेपं तस्य समर्पयेत्।
जपाकुसुममालाभिरर्कमालाभिरेव च॥३२॥
मालाभिर्मान्दराभिश्च वटकानां तथैव च।
पूजयेदञ्जनीपुत्रं तथान्यैरुपचारकैः॥३३॥
यथाविधि यथावित्तं श्रद्धाभक्तिसमन्वितः।
जपेद् द्वादश नामानि हनुमत्प्रीतये बुधः॥३४॥
हनुमानञ्जनीसूनुर्वायुपुत्रो महाबलः।
रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः॥३५॥
उदधिक्रमणश्चैव सीताशोकविनाशकः।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा॥३६॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्।
नाशुभं जायते तस्य सर्वसम्पत्प्रजायते॥३७॥
श्रावणे मन्दवारे तु एवमाराध्य वायुजम्।
वज्रतुल्यशरीरः स्यादरोगो बलवान्नरः॥३८॥
वेगवान्कार्यकरणे बुद्धिवैभवभूषितः।
शत्रुः सङ्क्षयमाप्नोति मित्रवृद्धिः प्रजायते॥३९॥
वीर्यवान्कीर्तिमांश्चैव प्रसादादञ्जनीजनेः।
आञ्जनेयालये लक्षं हनुमत्कवचं पठेत्॥४०॥
अणिमाद्यष्टसिद्धीनां साधकः स्वामितामियात्।
यक्षराक्षसवेताला दर्शनात्तस्य वेगतः॥४१॥
पलायन्ते दशदिशः कम्पिता भयविह्वलाः।
अश्वत्थालिङ्गनं चैव ह्यश्वत्थस्य च पूजनम्॥४२॥
मन्दभिन्ने न कर्तव्यः स्पर्शोऽश्वत्थस्य सत्तम।
शनावालिङ्गनं तस्य सर्वसम्पत्समृद्धिदम्।
पूजनं सप्तवारेषु तत्रापि श्रावणेऽधिकम्॥४३॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये शनैश्चरनृसिंहहनुमत्पूजनादि-शनैश्चरकृत्यकथनं नाम दशमोऽध्यायः॥१०॥