नवमोऽध्यायः

ईश्वर उवाच

अतः परं प्रवक्ष्यामि शुक्रवारकथानकम्।
यच्छ्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वसङ्कटात्॥१॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
सुशीलो नाम राजासीत्पाण्ड्यवंशसमुद्भवः॥२॥
बहुप्रयत्नशीलोऽपि अपत्यं नैव चाप्तवान्।
तस्य भार्या सुकेशीति नाम्ना सर्वगुणान्विता॥३॥
अपत्यं न यदा लेभे महाचिन्तामवाप सा।
स्त्रीस्वभावात्तदा वस्त्रखण्डानि प्रतिमासिके॥४॥
बध्वोदरं महच्चक्रे महासाहसमानसा।
अन्वेषयद्गर्भिणीं सा स्वप्रसूत्यनुसारिणीम्॥५॥
भाविना दैवयोगेन गृहिणी तत्पुरोधसः।
गर्भिण्यासीत्तदा राज्ञः पत्नी कपटकारिणी॥६॥
प्रसूतिकारिणी काञ्चित्तत्कार्ये सा न्ययोजयत्।
दत्त्वा बहुधनं तस्यै सूतिकायै रहो गता॥७॥
राजा चक्रे पुंसवनं तथैवानवलोभनम्।
सीमन्तोन्नयने काले महाहर्षसमन्वितः॥८॥
तस्याः प्रसूतिसमयं श्रुत्वा सापि तथाकरोत्।
आद्यगर्भवती यस्मात्सा पुरोधः कुटुम्बिनी॥९॥
अज्ञा प्रसूतिकाकृत्ये सूतिकावचने स्थिता।
तां सूतिका वञ्चयन्ती चक्रे तन्नेत्रबन्धनम्॥१०॥
प्रेषयामास तं पुत्रं सा राजमहिषीं प्रति।
कस्यचिद्धस्ततः शीघ्रमज्ञातमपि केनचित्॥११॥
राज्ञी गृहीत्वा तं पुत्रं प्रसूतास्मीत्यघोषयत्।
पुरोधः स्त्रीनेत्रबन्धं मोक्षयामास सूतिका॥१२॥
सहानीतं मांसपिण्डं तस्यै प्रादर्शयच्च सा।
विस्मयं चैव खेदं च स्वयं चक्रे तदग्रतः॥१३॥
किमरिष्टमिदं जातं पत्या कार्य च शान्तिकम्।
सन्ततिर्नास्ति चेन्मास्तु स्वदिष्ट्या जीवितासि भोः॥१४॥
परं संशयिता सासीत्प्रसवस्पर्शचिन्तनात्॥१५॥

ईश्वर उवाच

राजा श्रुत्वा पुत्रजन्म जातकर्माद्यकारयत्।
गजानश्वान् रथांश्चैव ब्राह्मणेभ्यो ददौ नृपः॥१६॥
बद्धान् कारागृहे सर्वान्मोचयामास हर्षितः।
सूतकान्ते नामकर्म संस्कारान्सर्वतोऽकरोत्।
चक्रे प्रियव्रत इति नाम पुत्रस्य भूमिपः॥१७॥
श्रावणे मासि सम्प्राप्ते पुरोधोदयिता सती।
जीवन्तिकां शुक्रवारे पूजयामास भक्तितः॥१८॥
कुड्ये विलिख्य तन्मूर्ति बहुबालसमन्विताम्।
पुष्पमालिकया पूज्य पञ्चदीपैरदीपयत्॥१९॥
गोधूमपिष्टसम्भूतैस्तानभक्षयत स्वयम्।
अक्षतांश्चैव चिक्षेप यत्र मे बालको भवेत्॥२०॥
तत्र त्वया रक्षणीयो जीवन्ति करुणार्णवे।
इति प्रार्थ्य कथां श्रुत्वा नमश्चक्रे यथाविधि॥२१॥
जीवन्तिकाप्रसादेन दीर्घायुर्बालकोऽभवत्।
ररक्ष तमहोरात्रं देवी तन्मातृगौरवात्॥२२॥
एवं काले गते राजा कालधर्ममुपेयिवान्।
पितृभक्तोऽथ तत्पुत्रश्चक्रे तत्साम्परायिकम्॥२३॥
प्रियव्रतोऽभिषिक्तोऽभूद्राज्ये मन्त्रिपुरोहितैः।
पालयित्वा प्रजा राज्यं भुक्त्वा स कतिचित्समाः॥२४॥
पित्रर्णस्य विमोक्षाय गयां गन्तुं प्रचक्रमे।
राज्यभारममात्येषु स्थाप्य वृद्धेषु भक्तितः॥२५॥
राजभावं परित्यज्य वेषं कार्पटिकं दधे।
मार्गमध्ये क्वचित्पुर्यां कस्यचिद् गृहमेधिनः॥२६॥
चक्रे वासं गृहे तस्य प्रसूता गृहिणी त्वभूत्।
पुरा षष्ठ्या पञ्चमेऽह्नि तत्पुत्राः पञ्च मारिताः॥२७॥
तदापि पञ्चमदिनेऽप्यासीत्तत्र नृपो गतः।
रात्रौ सुप्ते नृपे षष्ठी बालं नेतुं समागता॥२८॥
जीवन्त्या वारिता सा तु नृपमुल्लङ्घ्य मा व्रज।
षष्ठी निषेधाज्जीवन्त्याः सा जगाम यथागता॥२९॥
जीवितं पञ्चमदिने बालं लेभे गृहाधिपः।
एतत्प्रभावः प्रायोऽयं प्रार्थयामास तं नृपम्॥३०॥
राजन्नद्यतने चाह्नि तव वासोऽस्तु मे गृहे।
तव प्रसादान्मे बालः षष्ठोऽयं जीवितः प्रभो॥३१॥
एवं सम्प्रार्थितस्तेन उवाच करुणानिधिः।
ततो गतो गयां राजा प्रवृत्तः पिण्डपातने॥३२॥
विष्णुपादे तत्र किञ्चिद्दत्त्वाश्चर्यमभूत्तदा।
पिण्डस्य ग्रहणार्थं हि निःसृतं तु करद्वयम्॥३३॥
परं विस्मयमापन्नः संशयं प्राप भूपतिः।
ब्राह्मणानुमतः पश्चात्पिण्डं विष्णुपदे ददौ॥३४॥
पप्रच्छ ब्राह्मणं कञ्चिज्ज्ञानिनं सत्यवादिनम्।
स चाह ब्राह्मणस्तस्मै पितृद्वयकराविमौ॥३५॥
किमिदं तद् गृहे गत्वा मात्रे पृच्छ वदिष्यति।
ततश्चिन्तापरो दुःखी हृदि नाना व्यचारयत्॥३६॥
यात्रां कृत्वा तत्र यातो यत्रासौ जीवितः शिशुः।
तदापि पञ्चमदिनमासीत्सैव प्रसूतिका॥३७॥
द्वितीयोऽप्यभवत्पुत्रो रात्रौ षष्ठी समाययौ।
पुनश्च जीवन्तिकया निषिद्धा साब्रवीच्च ताम्॥३८॥
एतस्यावश्यकं किं ते एतन्मात्रा च किं व्रतम्।
क्रियते हि यतस्त्वं च एनं रक्षस्यहर्निशम्॥३९॥
षष्ठीवाक्यमिति श्रुत्वा जीवन्ती प्राह सुस्मिता।
तन्निमित्तं निशि द्रष्टुं जाग्रदासीन्मृषा स्वपन्॥४०॥
संवादमुभयो राजा शुश्राव सकलं तदा।
श्रावणे भृगुवारे तु एतन्माता ममार्चने॥४१॥
व्रतस्य नियमं सर्वं कुरुते तं वदामि ते।
परिधत्ते न वसनं हरितं कञ्चुकीं तथा॥४२॥
न धारयति तद्वर्णं काचकङ्कणकं करे।
कदापि नोल्लङ्घयति तन्दुलक्षालनोदकम्॥४३॥
नैव गच्छत्यधस्ताच्च हरित्पल्लवमण्डपम्।
कृकलस्य च शाकं सा नाश्नाति हरिवर्णतः॥४४॥
सर्वमेव मम प्रीत्यै मारयिष्यामि मा सुतम्।
श्रुत्वा सर्वं नृपः प्रातर्जगाम स्वपुरं प्रति॥४५॥
प्रत्युद्गता नागरिका दैशिकाः सर्व एव हि।
पप्रच्छ मातरं राजा त्वया जीवन्तिकाव्रतम्॥४६॥
क्रियते तु कथं मातर्न वेद्मीति च साब्रवीत्।
साद्गुण्यार्थं तु यात्राया ब्राह्मणांश्च सुवासिनीः॥४७॥
इच्छन्नृपो भोजयितुं व्रतं चापि परीक्षितुम्।
सुवासिनीभ्यो वस्त्राणि कञ्चुक्यः कङ्कणानि च॥४८॥
आगन्तव्यं भोजनार्थं सर्वाभी राजसद्मनि।
ततः पुरोधसः पत्नी तत्र दूतमुवाच ह॥४९॥
हरिद्वर्णं मया किञ्चिद् गृह्यते न कदाचन।
दूतो निवेदयामास राज्ञे तस्याः प्रभाषितम्॥५०॥
राजा सर्वं रक्तवर्णं तस्यै सम्प्रेषयच्छुभम्।
अङ्गीकृत्य च तत्सर्वं सापि राजगृहं ययौ॥५१॥
पूर्वद्वारे तण्डुलानां दृष्ट्वा क्षालनजं जलम्।
मण्डपं च हरिद्वर्णं दृष्ट्वान्यद्द्वारतो ययौ॥५२॥
राजा पुरोधसः पत्नीं नत्वा पप्रच्छ चाखिलम्।
निमित्तं नियमस्यास्य सा प्रोवाच व्रतं भृगोः॥५३॥
तं दृष्ट्वा तु तदात्यन्तं प्रस्तुतौ तत्पयोधरौ।
सिषिञ्चतुस्तं राजानं धाराभिः सर्वतः स्तनौ॥५४॥
गयायां करयुग्मेन देव्योः संवादतस्तथा।
स्तनयोः प्रस्रवाच्चैव राजा प्रत्ययमाप सः॥५५॥
पालिकां मातरं गत्वा पप्रच्छ विनयान्वितः।
मा भैर्मातब्रूहि सत्यं वृत्तान्तं मम जन्मनः॥५६॥
श्रुत्वा सुकेशिनी प्राह याथातथ्येन सर्वशः।
हृष्टो भूत्वा नमश्चक्रे पितरौ स्वस्य जन्मदौ॥५७॥
सम्पत्त्या वर्धयामास तौ परां मुदमापतुः।
एकस्मिन्दिवसे राजा जीवन्तीं प्रार्थयन्निशि॥५८॥
जीवन्त्ययं जन्मदो मे गयायां च करौ कथम्।
तदा स्वप्नगता देवी प्राह संशयनाशकम्॥५९॥
मया त्वत्प्रत्ययार्थेयं कृता माया न संशयः।
एतत्ते सर्वमाख्यातं श्रावणे भृगुवासरे॥६०॥
एतद् व्रतमनुष्ठाय सर्वान्कामानवाप्नुयात्॥६१॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये शुक्रवारजीवन्तिकाव्रतकथनं नाम नवमोऽध्यायः॥९॥