अष्टमोऽध्यायः

ईश्वर उवाच

बुधगुर्वोरथो वक्ष्ये व्रतं पापप्रणाशनम्।
यत्कृत्वा श्रद्धया मर्त्यः परां सिद्धिमवाप्नुयात्॥१॥
प्रजापतिः शीतरश्मिं द्विजराज्येऽभ्यषेचयत्।
स कदाचिद् गुरोर्भार्यां तारानाम्नीं ददर्श ह॥२॥
रूपयौवनसम्पन्नां लावण्यमदगर्विताम्।
मोहितो रूपसम्पत्या कामबाणवशं गतः॥३॥
स्वगृहे स्थापयित्वा तु बलात्स बुभुजे च ताम्।
एवं बहुतिथे काले गते पुत्रो बभूव ह॥४॥
बुधो बुधो रूपशाली सर्वलक्षणसंयुतः।
अन्वेषयन्नगुरुः पत्नीं ज्ञातवाञ्छशिसद्यनि॥५॥
ययाचे देहि मे भार्यां त्वं कथं गुरुतल्पगः।
गुरुतल्पकृतात्पापान्निष्कृतिस्ते कथं भवेत्॥६॥
महापातकसंयोगे कथं ते बुद्धिरादृता।
गुप्तमेव प्रयच्छेमां गुरुभार्यां मम प्रियाम्॥७॥
रहसि प्रायश्चित्तं च कृत्वा निष्कल्मषो भव।
नोचेदिन्द्रसमीपे ते आगः सङ्कथयाम्यहम्॥८॥
इत्येवं बहुधोक्तोऽपि न ददौ तां कलङ्कितः।
तदा देवसभां गत्वा कथयामास गीष्पतिः॥९॥
चन्द्रेण मे ह्यपहृता भार्या तां न ददाति सः।
देवराजोऽसि शक्र त्वं दापनीया त्वयाज्ञया॥१०॥
नोचेत्ते तत्कृतं पापं सङ्क्रमिष्यत्यसंशयम्।
राजा राष्ट्रकृतं पापं भुङ्गे शास्त्रविनिर्णयात्॥११॥
दुर्बलस्य बलं राजा पुराणे त्विति भण्यते।
इति श्रुत्वा गुरोर्वाक्यं चन्द्रमाहूय वासवः॥१२॥
आज्ञापयामास रुषा देहि भार्यां गुरोर्विधो।
अन्यदाराभिगमनं केवलं पापसंज्ञितम्॥१३॥
गुरुदाराभिगमनं महापातकसंज्ञितम्।
तस्माच्चन्द्र गुरोर्भार्यां देहि त्वमविचारयन्॥१४॥
देवेन्द्रवचनं श्रुत्वा निशापतिरथाब्रवीत्।
दास्ये त्वदाज्ञया भार्यां पुत्रं नैव ददाम्यहम्॥१५॥
मत्सकाशात्सुतो जातो वैभवयुग्यतः।
गीष्पतिस्त्वाह मत्तोऽभूत्ततः संशयिताः सुराः॥१६॥
ततस्ते निर्णयं चक्रुर्माता जानाति चाङ्गजम्।
पप्रच्छुस्ते तदा तारां केनायं गर्भ आहितः॥१७॥
सत्यं वदस्व कल्याणि न मिथ्या वक्तुमर्हसि।
तदा लज्जान्विता तारा औरसोऽयं विधोः सुतः॥१८॥
गीष्यतेः क्षेत्रजश्चातो योग्यः स्यात्तस्य दीयताम्।
शास्त्रतस्ते विचार्याथ ददुश्चन्द्राय तं बुधम्॥१९॥
तदा खिन्नं गुरुं दृष्ट्वा ददुर्देवा वरं तयोः।
गच्छस्व त्वं चन्द्र गृहं तवाप्यस्ति सुतो ह्ययम्॥२०॥
चन्द्रस्य गीष्पतेश्चायं ग्रहत्वं यात्वसौ सुतः।
अन्यच्चापि सुराचार्य गृहाणेमं वरं शुभम्॥२१॥
यः करिष्यति मेधावी मिलित्वा युवयोर्व्रतम्।
तस्य स्यात्सकला सिद्धिः सत्यं सत्यं न संशयः॥२२॥
श्रावणे मासि सम्प्राप्ते शङ्करस्य महाप्रिये।
बुधगुर्वोर्वासरयोर्ये करिष्यन्ति पूजनम्॥२३॥
नैवेद्यं दधिभक्तेन साधने मूलकं भवेत्।
युवयोर्मूर्तिमालिख्य स्थानभेदात्फलं लभेत्॥२४॥
बालान्दोलोपरिस्थाने लिखित्वा पूजयेद्यदि।
स पुत्रं लभते दीर्घायुषं सर्वगुणान्वितम्॥२५॥
कोशागारे लिखित्वा तु पूजयेद्यदि मानवः।
तस्य कोशा विवर्धन्ते क्षीयन्ते न कदाचन॥२६॥
पाकागारे पाकवृद्धिर्देवागारे तु तत्कृपा।
शय्यागारे पूजने तु स्त्रीवियोगो न कर्हिचित्॥२७॥
धान्यागारे धान्यवृद्धिरेवं तत्तत्फलं लभेत्।
सप्तवर्षाणि कृत्वैवं तत उद्यापनं चरेत्॥२८॥
अधिवास्याह्नि पूर्वस्मिन् रात्रौ जागरणं चरेत्।
सुवर्णप्रतिमां कृत्वा पूजयित्वा यथाविधि॥२९॥
उपचारैः षोडशभिस्ततो होमं समाचरेत्।
तिलैराज्येन चरुणा तथैव च समिद्धजैः॥३०॥
अपामार्गाश्वत्थमयैस्ततः पूर्णाहुतिं चरेत्।
स्वस्त्रीयमातुलौ चैव भोजनीयौ प्रयत्नतः॥३१॥
ब्राह्मणान्भोजयेदन्यान्भुञ्जीत स्वयमेव च।
एवं कृते सप्तवर्षं सर्वान्कामानवाप्नुयात्॥३२॥
विद्याकामनया कुर्याद्वेदशास्त्रार्थविद्भवेत्।
बुधस्तु बुधतां दद्याद् गुरुस्तु गुरुतां तथा॥३३॥

सनत्कुमार उवाच

भगवन्यत्त्वया प्रोक्तं भोज्यौ स्वस्त्रीयमातुलौ।
एतन्निमित्तं कथय यदि वक्तुं क्षमं भवेत्॥३४॥

ईश्वर उवाच

पुरा कौचिद् द्विजन्मानौ दीनौ स्वस्त्रीयमातुलौ।
दरिद्रौ पर्यटन्तौ तावुदरार्थे कृतश्रमौ॥३५॥
कस्मिंश्चिन्नगरे रम्ये गतौ धान्यं प्रयाचितुम्।
गृहे गृहेऽपश्यतां तौ श्रावणे मासि तद्व्रतम्॥३६॥
तत्तद्वारे व्रतं तत्तद् बुधगुर्वोर्न कुत्रचित्।
अन्योन्यं तौ तदा तत्र विचारं चक्रतुश्चिरात्॥३७॥
वासराणां तु सर्वेषां व्रतं सर्वत्र दृश्यते।
बुधगुर्वोर्विना तस्मादावाभ्यां तद्व्रतं शुभम्॥३८॥
अनुच्छिष्टं यतश्चास्ति तस्मात्कर्तव्यमादरात्।
विध्यज्ञानात्परं तस्य संशयं प्रापतुः पुनः॥३९॥
तावत्तस्यां निशायां तु स्वप्नोऽभूद्विधिदर्शनः।
तथा तौ चक्रतुः पश्चात्परां सम्पदमापतुः॥४०॥
प्रत्यहं वृद्धिगा चाभूत्सम्पत्तिः सर्वगोचरा।
एवं कृत्वा सप्तवर्षं पुत्रपौत्रादिसंयुतौ॥४१॥
साक्षाद्भूतौ बुधगुरू वरं च ददतुस्तयोः।
आवाभ्यामावयोर्यस्माद् व्रतमेतत्प्रवर्तितम्॥४२॥
इति चारभ्य तस्माद्यः करिष्यति शुभं व्रतम्।
स्वस्त्रीयमातुलौ तेन भोजनीयौ प्रयत्नतः॥४३॥
एतद्व्रतप्रभावेण सर्वसिद्धिः परा भवेत्।
अन्ते चास्मल्लोकवासो यावच्चन्द्रदिवाकरौ॥४४॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये बुधगुरुव्रतकथनं नामाष्टमोऽध्यायः॥८॥