सप्तमोऽध्यायः
ईश्वर उवाच
सनत्कुमार वक्ष्यामि भौमव्रतमनुत्तमम्।
यस्यानुष्ठानमात्रेण अवैधव्यं प्रजायते॥१॥
विवाहानन्तरं पञ्चवर्षाणि व्रतमाचरेत्।
नामास्य मङ्गलागौरीव्रतं पापप्रणाशनम्॥२॥
विवाहानन्तरं चाद्ये श्रावणे शुक्लपक्षके।
प्रथमं भौमवारस्य व्रतमेतत्तु कारयेत्॥३॥
पुष्पमण्डपका कार्यां कदलीस्तम्भमण्डिता।
नानाविधैः फलैश्चैव पट्टकूलैश्च भूषयेत्॥४॥
तत्र संस्थापयेद्देव्याः प्रतिमां स्वर्णनिर्मिताम्।
अन्यधातुमयीं वापि स्वशक्त्या तत्र पूजयेत्॥५॥
उपचारैः षोडशभिर्मङ्गलागौरिसंज्ञिताम्।
दूर्वादलैः षोडशभिरपामार्गदलैस्तथा॥६॥
तावत्सङ्ख्यैस्तण्डुलैश्च चणानां शकलैस्तथा।
षोडशोन्मितवर्तीभिस्तावद्दीपांश्च दीपयेत्॥७॥
दध्योदनं च नैवेद्यं तत्र भक्त्या प्रकल्पयेत्।
समीपं स्थापयेद्देव्या दृषदं चोपलं तथा॥८॥
एवं कृत्वा तु पञ्चाब्दं तत उद्यापनं चरेत्।
मात्रे दद्याद्वायनं तु प्रकारं शृणु तस्य च॥९॥
प्रतिमां मङ्गलागौर्याः सुवर्णपलनिर्मिताम्।
तदर्थेन तदर्धेन शक्त्या वाप्यथ कारयेत्॥१०॥
तण्डुलैः पूरिते भाण्डे शक्त्या स्वर्णादिनिर्मिते।
संस्थाप्य परिधानीयं रमणीयां च कञ्चुकीम्॥११॥
तयोरुपरि देव्यास्तु प्रतिमां स्थापयेत्ततः।
समीपभागे संस्थाप्य दृषदं चोपलं तथा॥१२॥
रौप्येण निर्मितं मात्रे एवं दद्यात्तु वायनम्।
षोडशापि सुवासिन्यो भोजनीयाः प्रयत्नतः॥१३॥
एवं कृते व्रते व सौभाग्यं सप्तजन्मसु।
पुत्रपौत्रादिभिश्चैव रमते सम्पदा युता॥१४॥
सनत्कुमार उवाच
केनेदं व्रतमाचीर्णं कस्य जातं फलं पुरा।
यथा स्यात्प्रत्ययः शम्भो कृपां कृत्वा तथा वद॥१५॥
ईश्वर उवाच
कुरुदेशे पुरा राजा श्रुतकीर्तिरिति श्रुतः।
बभूव श्रुतसम्पन्नः कीर्तिमान्हतशात्रवः॥१६॥
चतुःषष्टिकलाभिज्ञो धनुर्विद्याविशारदः।
पुत्रादन्यच्छुभं सर्वं तस्य राज्ञो बभूव ह॥१७॥
सन्तानविषयेऽथासौ बहुचिन्ताकुलोऽभवत्।
देव्या आराधनं चक्रे जपध्यानपुरःसरम्॥१८॥
क्रूरेण तपसा तस्य देवी तुष्टा बभूव ह।
उवाच वचनं तस्मै वरं वरय सुव्रत॥१९॥
श्रुतकीर्तिरुवाच
यदि देवि प्रसन्नासि पुत्रं मे देहि शोभनम्।
अन्यद्देवि त्वत्प्रसादान्न न्यूनं किञ्चिदस्ति मे॥२०॥
इति तस्य वचः श्रुत्वा देवी प्राह शुचिस्मिता।
दुर्लभं याचितं राजन्दास्ये तुभ्यं कृपावशात्॥२१॥
परं शृणुष्व राजेन्द्र पुत्रश्चेद् गुणवत्तरः।
ईप्सितश्चेत्षोडशाब्दं जीविष्यति न चाधिकम्॥२२॥
रूपविद्याविहीनश्चेच्चिरञ्जीवी भविष्यति।
इति देव्या वचः श्रुत्वा नृपश्चिन्तातुरोऽभवत्॥२३॥
भार्यया सह सम्मन्त्र्य ययाचे गुणभूषितम्।
सर्वलक्षणसम्पन्नं षोडशाब्दायुषं सुतम्॥२४॥
आज्ञापयामास तदा देवी भक्तं नराधिपम्।
आम्रवृक्षो मम द्वारे वर्तते नृपनन्दन॥२५॥
तस्यैकं फलमादाय पत्यै देहि ममाज्ञया।
भक्षणार्थं च सा धर्त्री गर्भं सद्यो न संशयः॥२६॥
हृष्टो राजा तथा चक्रे पत्नी गर्भं च सा दधौ।
दशमे मासि सुषुवे पुत्रं देवसुतोपमम्॥२७॥
जातकर्मादिकं चक्रे हर्षशोकसमन्वितः।
चिरायुरिति नामास्य पिता चक्रे शिवं भजन्॥२८॥
प्राप्ते तु षोडशे वर्षे चिन्तामाप सभार्यकः।
ततश्चक्रे विचारं स कष्टलब्धो ह्ययं सुतः॥२९॥
स्वसमीपे कथं मृत्युर्द्रष्टव्यो दुःखदोऽस्य तु।
काशीं प्रस्थापयामास मातुलेन समं विभुः॥३०॥
भ्रातरं प्रार्थयामास राजपत्नी यशस्विनी।
धृत्वा कार्पटिकं वेषं काशीं प्रति सुतं नय॥३१॥
मृत्युञ्जयः प्रार्थितोऽस्ति पुत्रार्थं तु मया पुरा।
प्रेषयिष्यामि विश्वेश यात्रार्थं च जगत्पतेः॥३२॥
तस्मान्नेयः सुतो मेऽद्य पालनीयश्च यत्नतः।
इति श्रुत्वा स्वसुर्वाक्यं स्वस्त्रीयेण समं ययौ॥३३॥
दिनानि कतिचिद् गच्छन्नानन्दनगरं ययौ।
तत्र राजा वीरसेनो नाम्ना सर्वसमृद्धिमान्॥३४॥
मङ्गलागौरी सर्वलक्षणसंयुता।
वयोमध्यगता रम्या रूपलावण्यशालिनी॥३५॥
उपमानानि सर्वाणि तुच्छीकृत्योदयं गता।
नगरोपवने रम्ये सखीभिः परिवारिता॥३६॥
ततस्तावपि सम्प्राप्तौ चिरायुर्मातुलश्च सः।
विश्रान्तिं प्रापतुस्तत्र तासां दर्शनलालसौ॥३७॥
क्रीडन्तीनां विनोदेन कुपिता तत्र काचन।
उवाच राजतनयां सा रण्डेत्यति दुर्वचः॥३८॥
श्रुत्वा तदशुभं वाक्यमुवाच नृपनन्दिनी।
अयोग्यं भाषसे त्वं किं मत्कुले नैव तद्विधा॥३९॥
प्रसादान्मङ्गलागौर्यांस्तद्व्रतस्य प्रभावतः।
मत्करादक्षता यस्य प्रपतिष्यन्ति मूर्धनि॥४०॥
विवाहे स चिरायुः स्यादल्पायुरपि चेत्सखि।
ततः समस्तास्ताः कन्याः स्वं स्वं वेश्म ययुस्तदा॥४१॥
स एव दिवसो राजकन्यायाः पाणिपीडने।
राज्ञो बाह्लीकदेशस्य दृढधर्माभिधस्य वै॥४२॥
सुकेतुनाने पुत्राय दातुं सा निश्चिताभवत्।
स सुकेतुरविद्यश्च कुरूपो बधिरस्तथा॥४३॥
ततस्ते मन्त्रयामासुर्नेयोऽन्योऽद्य वरः परः।
अथ सिद्धे विवाहे च सुकेतुस्तत्र गच्छतु॥४४॥
ततश्चिरायुषं गत्वा याचिरे मातुलं प्रति।
देयोऽस्मभ्यमयं बालः कार्यसिद्धिर्हि नो भवेत्॥४५॥
परोपकारतुल्यो हि धर्मो नास्त्यपरो भुवि।
मातुलस्तद्वचः श्रुत्वा ह्यन्तर्हृष्टमना अभूत्॥४६॥
पूर्व श्रुतं चोपवने कन्यावाक्यमनेन यत्।
एकवारं तथाप्याह युष्माभिर्याच्यते कथम्॥४७॥
वस्त्रालङ्करणादीनि याच्यं कार्यस्य साधने।
न वरो याच्यते क्वापि दीयते गौरवाद्धि वः॥४८॥
विवाहं साधयामासुनित्वा तत्र चिरायुषम्।
सप्तपद्यादिके जाते रात्रौ गौरीहरान्तिके॥४९॥
सहासौ मङ्गला गौर्या सुप्तो हर्षसमन्वितः।
तदहिन षोडशाब्दानि समाप्तानि चिरायुषः॥५०॥
निशीथे सर्परूपेण कालस्तत्र समीयिवान्।
तदन्तरे भूपसुता जागृता दैवयोगतः॥५१॥
सा ददर्श महासर्प चकम्पे भयविह्वला।
धैर्यं कृत्वा तदा वाला पूजयामास सोरगम्॥५२॥
उपचारैः षोडशभिर्दुग्धं पातुं ददौ बहु।
प्रार्थयामास तं सर्प दीनवाण्या च तुष्टुवे॥५३॥
ययाचे मङ्गलागौरी करिष्ये व्रतमुत्तमम्।
जीव्यान्मे पतिरेतस्माच्चिरं जीवेत्तथा कुरु॥५४॥
एतस्मिन्नन्तरे सर्पः करके प्रविवेश ह।
कञ्चुक्या स्वीयया सा तु चक्रे तन्मुखबन्धनम्॥५५॥
एतस्मिन्नन्तरे भर्ता अङ्गमोटनपूर्वकम्।
जागृतश्चाब्रवीद्भार्यां क्षुधा मां बाधते प्रिये॥५६॥
मातुः सकाशं गत्वा सा आनयामास पायसम्।
लड्डुकादि च तद्दत्तं बुभुजे प्रीतमानसः॥५७॥
हस्तक्षालनकाले तु तद्धस्तान्मुद्रिकापतत्।
ताम्बूलं भक्षयित्वा तु प्रसुप्तः पुनरेव सः॥५८॥
ततः सा करके त्यक्तुमगच्छत्तु विधेर्गतिः।
हारकान्तिं बहिर्दृष्ट्वा स्फुरन्तीं विस्मयं ययौ॥५९॥
दृष्ट्वा घटस्थं तं हारं स्वकण्ठे च दधार सा।
किञ्चिन्निशावशेषे तु मातुलस्तं निनाय सः॥६०॥
ततस्ते वरपक्षीयाः सुकेतुं तत्र चानयन्।
दृष्ट्वा तं मङ्गलागौरी उवाचायं न मे पतिः॥६१॥
तामूचुस्ते ततः सर्वे किमिदं भाषसे शुभे।
परिचायकमस्तीह किञ्चित्ते तद्वदस्व नः॥६२॥
मङ्गलागौर्युवाच
मे दत्तं येन रात्रौ च नवरत्नाङ्गुलीयकम्।
अस्याङ्गुलौ तन्निक्षिप्य पश्यध्वं परिचायकम्॥६३॥
पत्या दत्तोऽस्ति में हारो रात्रौ तद्रत्नसञ्चयः।
कीदृशोऽनेन वाच्योऽसौ प्रतिवीरपरान्वितम्॥६४॥
किञ्चाम्रसेचने रात्रौ तत्पदं कुङ्कुमान्वितम्।
ऊरौ मे वर्तते तच्च सर्वे पश्यन्तु माचिरम्॥६५॥
किञ्च रात्रौ भाषणादि भक्षणादि च यत्कृतम्।
तदनेन च वक्तव्यं तदा स्यान्मे पतिः स्वयम्॥६६॥
एवं श्रुत्वा तु तद्वाक्यं साधु साध्विति चाब्रुवन्।
एकस्यापि न योगोऽभूत्तदा सर्वैर्निषेधितः॥६७॥
तदा ते वरपक्षीया जग्मुः सर्वे यथागतम्।
जनको मङ्गलागौर्याः श्रुतकीर्तिः कुलोद्वहः॥६८॥
अन्नपानादिकं सत्रं चकार सुमहामनाः।
वरपक्षस्य वृत्तान्तः श्रुतः कर्णापकर्णतः॥६९॥
स्वरूपाय कुरूपत्वादानीतः कश्चनादृतः।
स्थापयामास सौधे तु कन्यां जवनिकावृताम्॥७०॥
एवं गते हायने तु यात्रां कृत्वा समातुलः।
चिरायुः प्रययौ तत्र किं जातमवलोकितुम्॥७१॥
तं सा जालान्तराद् दृष्ट्वा लोकोत्तरमुदान्विता।
पितरौ कथयामास मम भर्ता समागतः॥७२॥
सुहृद्गणं समाहूय पूर्वोक्तं परिचायकम्।
दृष्ट्वा सर्वमपि हास्मै ददौ कन्यां शुचिस्मिताम्॥७३॥
शिष्टैः परिणयोत्साहं कारयामास भूपतिः।
वस्त्राण्याभरणादीनि सेनामश्वान्गजान् रथान्॥७४॥
प्रस्थापयामास नृपो दत्त्वान्यदपि भूरिशः।
पल्या सह चिरायुः स मातुलेन समन्वितः॥७५॥
स्वपुरं सेनया सार्धं जगाम कुलनन्दनः।
श्रुत्वा जनमुखात्तं तु ह्यागतं पितरावुभौ॥७६॥
विश्वासं लेभतुर्नैव स्यात्कथं दैवमन्यथा।
एतस्मिन्नन्तरे प्राप्तः पित्रोरन्तिकमेव सः॥७७॥
पपात पादयोर्भक्त्या पित्रोः स्नेहपरिप्लुतः।
मूर्ध्न्यवनाय तं पुत्रं परमां मुदमापतुः॥७८॥
स्नुषापि मङ्गलागौरी श्वशुरौ प्रणनाम सा।
अङ्के निवेश्य तां श्वश्रूः पप्रच्छोदन्तमञ्जसा॥७९॥
स्नुषापि मङ्गला गौर्या व्रतमाहात्म्यमुत्तमम्।
कथयामास तत्सर्वं यथावृत्तं महामुने॥८०॥
इत्येतत्कथितं तुभ्यं मङ्गलागौरिकाव्रतम्।
य एतच्छृणुयात्कश्चिद्यश्चापि परिकीर्तयेत्॥८१॥
मनोरथास्तस्य सर्वे सिध्यन्त्यत्र न संशयः॥८२॥
सूत उवाच
सनत्कुमारमित्येवं कथयामास धूर्जटिः।
स चानन्दं परं लेभे श्रुत्वा कार्यकरं व्रतम्॥८३॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये मङ्गलागौरीव्रतकथनं नाम सप्तमोऽध्यायः॥७॥