षष्ठोऽध्यायः
सनत्कुमार उवाच
रविवारस्य माहात्म्यं श्रुतं मे हर्षकारकम्।
सोमवारस्य माहात्म्यं श्रावणे मासि मे वद॥१॥
ईश्वर उवाच
रविर्मे नयनं तस्य माहात्म्यमिदमुत्तमम्।
उमासहितमन्नाम्नस्तस्य सोमस्य किं पुनः॥२॥
माहात्म्यं वर्णनीयं मे यत्किञ्चिदपि ते ब्रुवे।
सोमश्चन्द्रो विप्रराजः सोमः स्याद्यज्ञसाधनम्॥३॥
निमित्तानि च तन्नाम्नः शृणु मत्तः समाहितः।
मत्स्वरूपो यतो वारस्ततः सोम इति स्मृतः॥४॥
प्रदाता सर्वराज्यस्य श्रेष्ठश्चैव ततो हि सः।
समस्तराज्यफलदो व्रतकर्तुर्यतो हि सः॥५॥
तस्य शृणु विधिं विप्र विस्तरात्कथयामि ते।
द्वादशेष्वपि मासेषु सोमवारः प्रशस्यते॥६॥
तावत्कर्तुमशक्तश्चेछ्रावणे मासि कारयेत्।
अस्मिन्मासे व्रतं कृत्वा अब्दव्रतफलं लभेत्॥७॥
श्रावणे शुक्लपक्षे तु प्रथमे सोमवासरे।
सङ्कल्पयेद् व्रतं सम्यक् शिवो मे प्रीयतामिति॥८॥
एवं चतुर्षु वारेषु भवेयुः पञ्च वा यदि।
प्रातः सङ्कल्पयेत्तत्र नक्तं च शिवपूजनम्॥९॥
उपचारैः षोडशभिः सायं च पूजयेच्छिवम्।
शृणुयाच्च कथां दिव्यामेकाग्रकृतमानसः॥१०॥
सोमवारव्रतस्यास्य कथ्यमानं निबोध मे।
श्रावणे प्रथमे सोमे गृह्णीयाद् व्रतमुत्तमम्॥११॥
सुस्नातश्च शुचिर्भूत्वा शुक्लाम्बरधरो नरः।
कामक्रोधाद्यहङ्कारद्वेषपैशून्यवर्जितः॥१२॥
आहरेच्छ्रेतपुष्पाणि मालतीमल्लिकादिकाः।
अन्यैश्च विविधैः पुष्पैरभीष्टैरुपचारकैः॥१३॥
पूजयेन्मूलमन्त्रेण त्र्यम्बकेण ततः परम्॥१४॥
शर्वाय भवनाशाय महादेवाय धीमहि।
उग्राय चोग्रनाथाय भवाय शशिमौलिने॥१५॥
रुद्राय नीलकण्ठाय शिवाय भवहारिणे।
एवं सम्पूज्य देवेशमुपचारैर्मनोहरैः॥१६॥
यथाविभवसारेण तस्य पुण्यफलं शृणु।
सोमवारे यजन्ते ये पार्वत्या सहितं शिवम्।
ते लभन्त्यक्षयांल्लोकान्पुनरावृत्तिदुर्लभान्॥१७॥
अत्र नक्तेन यत्पुण्यं कथयामि समासतः।
सप्तजन्मार्जितं पापमभेद्यं देवदानवैः॥१८॥
प्रणश्येन्नक्तभुक्तेन नात्र कार्या विचारणा।
उपवासेन वा कुर्याद् व्रतमेतदनुत्तमम्॥१९॥
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम्।
यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः॥२०॥
इह लोके चिरं स्थित्वा भुक्त्वा भोगान्यथेप्सितान्।
विमानवरमारुह्य रुद्रलोके महीयते॥२१॥
चलं चित्तं चलं वित्तं चलं जीवितमेव च।
एवं ज्ञात्वा प्रयत्नेन व्रतस्योद्यापनं चरेत्॥२२॥
उमामहेश्वरौ हैमौ राजते वृषभे स्थितौ।
यथाशक्त्या प्रकर्तव्यौ वित्तशाठ्यं न कारयेत्॥२३॥
मण्डलं लिङ्गतोभद्रं दिव्यं वै कारयेच्छुभम्।
तत्र संस्थापयेत्कुम्भं श्वेतवस्त्रयुगान्वितम्॥२४॥
ताम्रपात्रं वैणवं वा कुम्भस्योपरि विन्यसेत्।
तस्योपरि न्यसेद्देवमुमया सहितं शिवम्॥२५॥
श्रुतिस्मृतिपुराणोक्तैर्मन्त्रैः सम्पूजयेच्छिवम्।
पुष्पमण्डपिका कार्या वितानं चैव शोभनम्॥२६॥
रात्रौ जागरणं कार्यं गीतवादित्रनिःस्वनैः।
स्वगृह्येोक्तविधानेन ततोऽग्निं स्थापयेद् बुधः॥२७॥
ततो होमं च शर्वाद्यैरेकादशसुनामभिः।
पालाशाभिः समिद्भिश्च हुनेदष्टाधिकं शतम्॥२८॥
यवव्रीहितिलाद्यैश्च आप्यायस्वेति मन्त्रतः।
बिल्वपत्रैस्त्र्यम्बकेण षड्वर्णेनापि वा पुनः॥२९॥
पूर्णाहुतिं ततो हुत्वा कृत्वा स्विष्टकृतादिकम्।
आचार्यं पूजयेत्पश्चाद् गां च तस्मै प्रदापयेत्॥३०॥
ब्राह्मणान्भोजयेत्पश्चादेकादश सुशोभनान्।
एकादश घटास्तेभ्यो वंशपात्रसमन्विताः॥३१॥
सम्पूजितं ततो देवं देवोपकरणानि च।
आचार्याय ततो दद्यात्प्रार्थयेत्तदनन्तरम्॥३२॥
परिपूर्ण व्रतं मे स्याच्छिवो मे प्रीयतामिति।
बन्धुभिः सह भुञ्जीत ततो हर्षपुरःसरम्॥३३॥
अनेनैव विधानेन य इदं व्रतमाचरेत्।
यं यं चिन्तयते कामं तं तं प्राप्नोति मानवः॥३४॥
शिवलोके ततो गत्वा तस्मिँल्लोके महीयते।
कृष्णेनाचरितं पूर्वं सोमवारव्रतं शुभम्॥३५॥
नृपैः श्रेष्ठैस्तथा चीर्णमास्तिकैर्धर्मतत्परैः।
इदं यः शृणुयान्नित्यं सोऽपि तत्फलमाप्नुयात्॥३६॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये सोमवारव्रतकथनं नाम षष्ठोऽध्यायः॥६॥