पञ्चमोऽध्यायः

ईश्वर उवाच

माहात्म्यं कोटिलिङ्गानां पुण्यं वक्तुं न शक्यते।
एकैकस्यापि लिङ्गस्य किं पुनः कोटिसङ्ख्यया॥१॥
अशक्तौ लक्षकं कुर्यात्सहस्त्रमथवा शतम्।
एकस्यापि हि लिङ्गस्य कारणान्मम सन्निधिः॥२॥
षडक्षरेण मन्त्रेण पूजा कार्या स्मरद्विषः।
उपचारैः षोडशभिर्भक्तियुक्तेन चेतसा॥३॥
उद्यापनं च कर्तव्यं ग्रहयज्ञपुरःसरम्।
सम्पादनीयो होमश्च ब्राह्मणांश्चैव भोजयेत्॥४॥
नाकालमरणं तस्य वन्ध्यत्वहरणं परम्।
सर्वापत्तिक्षयकरं सर्वसम्पत्प्रवर्धनम्॥५॥
प्रेत्य कैलासवासश्च आकल्पं मम सन्निधौ।
पञ्चामृताभिषेकं च यः कुर्याच्छ्रावणे नरः॥६॥
स पञ्चामृतभोजी स्यात्सम्पन्नो गोधनेन च।
अत्यन्तं मधुरालापो प्रियश्च त्रिपुरद्विषः॥७॥
अनोदनव्रती चैव हविष्याशी च यो नरः।
व्रीह्यादिसर्वधान्यानामक्षय्योऽसौ निधिर्भवेत्॥८॥
पत्रावल्यां तु भुञ्जानः स्वर्णभाजनभोजनः।
शाकवर्जनतः स्याद्वै शाककर्ता नरोत्तमः॥९॥
केवलं भूमिशायी तु कैलासे वा समाप्नुयात्।
प्रातः स्नानान्नभोमासि अब्दं तत्फलभाङ्मतः॥१०॥
जितेन्द्रियत्वान्मासेऽस्मिन्बलमैन्द्रियकं भवेत्।
स्फाटिकेऽश्ममये वापि मार्ने मारकतेऽपि वा॥११॥
स्वयम्भौ वास्वयम्भौ वा पैष्टे धातुमयेऽपि वा।
चन्दने नावनीते वा अन्यस्मिन्वापि लिङ्गके॥१२॥
सकृत्पूजां प्रकुर्वाणो ब्रह्महत्याशतं दहेत्।
सूर्यचन्द्रोपरागेषु सिद्धिः क्षेत्रेऽपि वा क्वचित्॥१३॥
सिद्धिर्या लक्षजाप्येन सकृत्स्याज्जपतोऽत्र सा।
अन्यकाले कृता ये स्युर्नमस्काराः प्रदक्षिणाः॥१४॥
सहस्रेण फलं यत्स्यान्मासेऽस्मिन्नेकवारतः।
मत्प्रिये श्रावणे मासि वेदपारायणे कृते॥१५॥
सर्वेषां वेदमन्त्राणां सिद्धिः सम्यक्प्रजायते।
मासेऽस्मिन्पौरुषं सूक्तं जपते श्रद्धयान्वितः॥१६॥
कृत्वा सङ्ख्यासहस्त्रं तु कलौ स्यात्तु चतुर्गुणम्।
वर्णानां सङ्ख्यया वापि शतं कुर्यादतन्द्रितः॥१७॥
अशक्तः सङ्ख्यया कर्तुं शतमानेन वा जपेत्।
बह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः॥१८॥
गुरुतल्पे कृते पापे प्रायश्चित्तमिदं परम्।
नास्त्येतत्सदृशं पुण्यं पवित्रं पापनाशनम्॥१९॥
विना पौरुषजाप्येन न नयेदेकमप्यहः।
अर्थवादमिमं ब्रूयात्स नरो निरयी भवेत्॥२०॥
ग्रहयज्ञः प्रकर्तव्यः समिच्चरुतिलाज्यकैः।
धूपगन्धप्रसूनादिनैवेद्यादिप्रभेदतः॥२१॥
तद्रूपाणां च ध्यानादि सम्पाद्य च यथायथम्।
कोटिहोमो लक्षहोमो ऽयुतहोमस्तु शक्तितः॥२२॥
तिलैर्व्याहतिभिः कार्यों ग्रहयज्ञाभिधोऽप्यसौ।
अथ वक्ष्यामि वाराणां व्रतानि शृणु साम्प्रतम्॥२३॥
तत्रादौ रविवारस्य व्रतं वक्ष्यामि तेऽनघ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्॥२४॥
प्रतिष्ठानपुरे रम्ये सुकर्मा नाम वै द्विजः।
आसीद्दरिद्रः कृपणो भैक्ष्यचर्यापरायणः॥२५॥
एकदा स गतो धान्यं याचितुं पर्यटन्पुरम्।
स्त्रियो ददर्श सदने कस्यचिद् गृहमेधिनः॥२६॥
चरन्त्यो रविवारस्य मिलिता व्रतमुत्तमम्।
तदोचुस्ताश्च तं दृष्ट्वा आच्छादयत सत्वरम्॥२७॥
पूजाविधिं ततो विप्रः प्रार्थयामास ताः स्त्रियः।
छाद्यते किं नु भो साध्व्यो भवतीभिरिदं व्रतम्॥२८॥
कथयध्वं कृपां कृत्वा ममोपरि दयालवः।
परोपकारसदृशो धर्मो नास्ति जगत्त्रये॥२९॥
साधूनां समचित्तानां परार्थः स्वार्थ एव हि।
दरिद्रः पीडितश्चाहं श्रुत्वेदं व्रतमुत्तमम्॥३०॥
चरिष्यामि विधिं ब्रूत फलं चास्य व्रतस्य हि॥३१॥

स्त्रिय ऊचुः

उन्मादं वा प्रमादं वा विस्मृतिं वा करिष्यसि।
अभक्तिं वाप्यनास्थां वा कथं देयं तव द्विज॥३२॥
इति तासां वचः श्रुत्वा विप्रेन्द्रो वाक्यमब्रवीत्।
ज्ञानवानस्मि भो साध्व्यो भक्तिमांश्चास्मि सुव्रताः॥३३॥
एवं तद्वचनं श्रुत्वा प्रौढा तासु च याभवत्।
सा प्रोवाच व्रतं तस्मै यथाभूतं च तद्विधिम्॥३४॥
श्रावणे शुक्लपक्षे तु प्रथमे रविवासरे।
मौनेनोत्थायावगाहं कुर्याच्छीतोदकेन तत्॥३५॥
स्वनित्यकर्म सम्पाद्य नागवल्लीदले शुभे।
परिधिद्वादशयुतं मण्डलं तत्र संलिखेत्॥३६॥
अर्कवद्वर्तुले सम्यग् रक्तचन्दनतः शुभम्।
तत्र संज्ञायुतं सूर्यं पूजयेद्रक्तचन्दनात्॥३७॥
जानुभ्यामवनीं गत्वा अर्घ्यं द्वादशमण्डलैः।
रक्तचन्दनमिश्रं च जपाकुसुमसंयुतम्॥३८॥
दद्याद् गभस्तये सम्यक् श्रद्धाभक्तिपुरःसरम्।
रक्ताक्षतैर्जपापुष्पैस्तथान्यैरुपचारकैः॥३९॥
नारीकेलस्य बीजं तु खण्डशर्करया युतम्।
नैवेद्यमर्पयित्वा तु मन्त्रैरादित्यलिङ्गकः॥४०॥
स्तुवीत द्वादशवरैर्नमस्कारान्प्रदक्षिणाः।
षट्तन्तुनिर्मितं सूत्रं षड्भिर्ग्रन्थिभिरन्वितम्॥४१॥
अर्पयित्वा तु देवेशं बध्नीयात्तु गले च तत्।
द्विजाय वायनं दद्यात्फलैर्द्वादशभिर्युतम्॥४२॥
एतद्व्रतप्रकारं न श्रावयेत्कस्यचित्पुरा।
एवं व्रते कृते विप्र निर्धनो धनमाप्नुयात्॥४३॥
अपुत्रो लभते पुत्रं कुष्ठी कुष्ठात्प्रमुच्यते।
बद्धः स्याद्बन्धरहितो रोगी रोगेण हीयते॥४४॥
किं बहूक्तेन विप्रेन्द्र यद्यदिच्छति वाञ्छितम्।
तत्तल्लभेत्साधकोऽसौ व्रतस्यास्य प्रभावतः॥४५॥
एवं चतुर्षु वारेषु कदाचिदपि पञ्चसु।
उद्यापनं ततः कार्य व्रतसम्पूर्णहेतवे॥४६॥
एवं कुरुष्व विप्रेन्द्र सर्वसिद्धिर्भविष्यति।
नमस्कृत्वा तु ताः साध्वीर्विप्रः स्वगृहमाययौ॥४७॥
तथा चकार तत्सर्वं व्रतं चैव यथाश्रुतम्।
स्वकन्यकाद्वयस्यापि श्रावयामास तद्विधिम्॥४८॥
तस्य श्रवणमात्रेण दर्शनात्पूजनस्य च।
स्वरङ्गनोपमे कन्ये जाते तस्य प्रभावतः॥४९॥
तदाप्रभृति विप्रस्य गृहे लक्ष्मीर्विवेश ह।
नानामार्गैर्निमित्तैश्च लक्ष्मीवानिति सोऽभवत्॥५०॥
कदाचिद् गच्छता राज्ञा विप्रसद्म पुरोऽध्वना।
वातायने स्थिते कन्ये दृष्टे निरुपमे शुभे॥५१॥
देहावयवसंस्थानैर्वस्तु यद्यच्च सुन्दरम्।
त्रैलोक्ये भर्त्सयन्त्यौ ते पद्मचन्द्रादिकं च यत्॥५२॥
राजा मोहं समापेदे तत्रैवावस्थितः क्षणम्।
आमन्त्र्य ब्राह्मणं सद्यः प्रार्थयामास कन्यके॥५३॥
विप्रोऽपि हृषितो भूत्वा प्रादाद्राज्ञे सुताद्वयम्।
राजानं प्राप्य भर्तारं तेऽपि कन्ये मुदान्विते॥५४॥
पुत्रपौत्रादिसम्पन्ने चक्रतुश्च स्वयं व्रतम्।
व्रतमेतत्समाख्यातं मुने तव महोदयम्॥५५॥
यस्य श्रवणमात्रेण सर्वान्कामानवाप्नुयात्।
अनुष्ठानफलं तस्य किं वर्ण्य विधिनन्दन॥५६॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये प्रकीर्णकनानाव्रत-रविवारव्रतादिकथनं नाम पञ्चमोऽध्यायः॥५॥