चतुर्थोऽध्यायः

ईश्वर उवाच

सनत्कुमार वक्ष्यामि धारणापारणाव्रतम्।
पुण्याहं वाचयेत्पूर्वमारभ्य प्रतिपद्दिनम्॥१॥
सङ्कल्पयेन्मम प्रीत्यै धारणापारणाव्रतम्।
एकस्मिन्धारणं कुर्यात्पारणं च तथापरे॥२॥
उपवासो धारणे स्यात्पारणे भोजनं भवेत्।
समाप्ते मासि चैवात्र कुर्यादुद्यापनं व्रती॥३॥
समाप्ते श्रावणे मासि पुण्याहं कारयेत्पुरा।
आचार्यं वरयेत्पश्चाद् ब्राह्मणांश्चैव मानद॥४॥
पार्वतीशङ्करस्यापि प्रतिमां स्वर्णनिर्मिताम्।
पूर्णकुम्भे तु संस्थाप्य पूजयेन्निशि भक्तितः॥५॥
रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः।
प्रातरग्निं समाधाय होमं कुर्याद्यथाविधि॥६॥
त्र्यम्बकेणेति मन्त्रेण जुहुयाच्च तिलौदनम्।
तथैव शिवगायत्र्या जुहुयाच्च घृतौदनम्॥७॥
षडक्षरेण मन्त्रेण पायसं जुहुयात्ततः।
पूर्णाहुतिं ततो हुत्वा होमशेषं समापयेत्॥८॥
ब्राह्मणान्भोजयेत्पश्चादाचार्यं चैव पूजयेत्।
एवं कृत्वा महाभाग ब्रह्महत्यादिपातकैः॥९॥
मुच्यते नात्र सन्देहस्तस्मात्कुर्यान्महाव्रतम्।
शृणु मासोपवासस्य श्रावणे विधिमादरात्॥१०॥
सङ्कल्पयेत्तु प्रतिपद्दिने प्रातर्वतं मुने।
नारी वा पुरुषो वापि संयतात्मा जितेन्द्रियः॥११॥
ततोऽर्चयेदमायां तु शङ्करं लोकशङ्करम्।
सम्पूजयेत् षोडशभिरुपचारैर्वृषध्वजम्॥१२॥
ब्राह्मणान्पूजयेच्चैव वस्त्रालङ्करणादिभिः।
भोजयेच्च यथाशक्त्या प्रणिपत्य विसर्जयेत्॥१३॥
एवं मासोपवासस्तु मम प्रीतिकरो भवेत्।
रुद्रवर्तिविधानं च सम्मितं लक्षसङ्ख्यया॥१४॥
शृणुष्वावहितो भूत्वा सर्वसिद्धिकरं नृणाम्।
कार्पासतन्तुभिः कार्या एकादशभिरादरात्॥१५॥
वर्तयस्ता रुद्रवर्तिसंज्ञाः प्रीतिकरा मम।
श्रावणस्याद्यदिवसे सङ्कल्प्य विधिपूर्वकम्॥१६॥
देवदेवं महादेवं लक्षवर्तिभिरादरात्।
नीराजयामि गौरीशं श्रावणे मासि भक्तितः॥१७॥
पूजयित्वा प्रतिदिनं वर्तीनां तु सहस्रशः।
नीराजयेदन्त्यदिने सहस्राण्येकसप्ततिः॥१८॥
अथवा प्रत्यहं दद्यात्सहस्त्रत्रयमादृतः।
चरमे तु दिने दद्यात्सहस्त्राणि त्रयोदश॥१९॥
एकस्मिन्वा दिने रुद्रवर्तिलक्षं प्रदीपयेत्।
सुघृतेनापि बहुना स्निग्धास्ता मम वल्लभाः॥२०॥
पूजयित्वा तु विश्वेशं शृणुयाच्च कथां ततः॥२१॥

सनत्कुमार उवाच

देवदेव जगन्नाथ जगदानन्दकारक।
व्रतस्यास्य प्रभावं मे कृपां कृत्वा वद प्रभो।
केन चीर्णं व्रतमिदं विधिरुद्यापने कथम्॥२२॥

ईश्वर उवाच

शृणु वैधात्र यत्नेन व्रतानामुत्तमं व्रतम्।
रुद्रवर्त्या महापुण्यं सर्वोपद्रवनाशनम्॥२३॥
प्रीतिसौभाग्यजननं पुत्रपौत्रसमृद्धिदम्।
शङ्करप्रीतिजननं शिवलोकं परं पदम्॥२४॥
रुद्रवर्तिसमं नास्ति त्रिषु लोकेषु सुव्रतम्।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्॥२५॥
क्षिप्रानद्यास्तटे रम्ये पुरी उज्जयिनी शुभा।
तस्यामासीत्सुगन्धाख्या वारस्त्री ह्यतिसुन्दरा॥२६॥
तया शुल्कं कृतं स्वीये सुरते तु सुदुःसहम्।
सुवर्णानां शतं लोके प्रतिज्ञां कृतवत्यथ॥२७॥
युवानश्च तया विप्रा भ्रंशिताश्च सुगन्धया।
राजानो राजपुत्राश्च नग्नीकृत्य पुनः पुनः॥२८॥
तेषां भूषां गृहीत्वा तु धिक्कृतास्तु सुगन्धया।
एवं हि बहवो लोका लुण्ठितास्ते सुगन्धया॥२९॥
तस्यास्तु देहगन्धेन कोशमात्रं सुगन्धितम्।
रूपलावण्यकान्तीनां सा प्रतिष्ठा धरातले॥३०॥
षट्त्रिंशद्रागभार्याणां षड्रागाणां गायने।
तत्सन्तत्या अनन्तायाः कुशला गानकर्मणि॥३१॥
नृत्ये रम्भादिकाः सर्वास्तर्जयन्ती सुराङ्गनाः।
गत्या गजांश्च हंसांश्च विहसन्ती पदे पदे॥३२॥
कामबाणान्प्रेरयन्ती कटाक्षैर्भूकृतैश्च तैः।
कदाचित्सा गता क्षिप्रां कौतुकाविष्टमानसा॥३३॥
ददर्श सा मनोरम्यामृषिभिः परिसेविताम्।
केचिद् ध्यानपरा विप्राः केचिज्जपपरायणाः॥३४॥
रताः शिवार्चने केचिद्विष्णोः केचित्प्रपूजने।
तेषां मध्ये वसिष्ठो हि तया दृष्टो महामुने॥३५॥
तस्या धर्मेऽभवद् बुद्धिस्तद्दर्शनमहत्त्वतः।
विगताशा जीवनेऽपि विषयेषु विशेषतः॥३६॥
विनम्रकन्धरा भूत्वा प्रणिपत्य पुनः पुनः।
स्वकर्मपरिहाराय पप्रच्छ मुनिपुङ्गवम्॥३७॥

सुगन्धोवाच

अनाथनाथ विप्रेन्द्र सर्वविद्याविशारद।
मया कृतानि योगीश पापानि सुबहून्यपि।
तत्सर्वपापनाशाय उपायं ब्रूहि मे प्रभो॥३८॥

ईश्वर उवाच

एवमुक्तस्तया विप्रो वसिष्ठो मुनिरादरात्।
तस्याः कर्म प्रविज्ञाय सोऽब्रवीद्दीनवत्सलः॥३९॥

वसिष्ठ उवाच

शृणुष्वावहिता भूत्वा तव पापस्य सङ्क्षयः।
येन जायेत पुण्येन तत्सर्वं कथयामि ते॥४०॥
गच्छ वाराणसीं भद्रे त्रिषु लोकेषु विश्रुताम्।
गत्वा कुरुष्व तत्क्षेत्रे व्रतं त्रैलोक्यदुर्लभम्॥४१॥
रुद्रवर्त्य महापुण्यं शिवप्रीतिकरं परम्।
कृत्वा व्रतमिदं भद्रे प्राप्स्यसि त्वं परां गतिम्॥४२॥

ईश्वर उवाच

ततः सा कोशमादाय भृत्यं चैव समित्रकम्।
गत्वा काशीं व्रतं चक्रे वसिष्ठोक्तविधानतः॥४३॥
ततः सा सशरीरेण तस्मिन् लिङ्गे लयं ययौ॥४४॥
एवं या कुरुते नारी व्रतमेतत्सुदुर्लभम्।
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयः॥४५॥
माहात्म्यं शृणु माणिक्यवर्तीनामपि सुव्रत।
व्रतेन तासां विप्रेन्द्र मदर्धासनभागिनी॥४६॥
जायते मत्प्रिया सा हि यावदाभूतसम्प्लवम्।
उद्यापनमथो वक्ष्ये व्रतसम्पूर्णहेतवे॥४७॥
कलशे स्थापयेद्देवमुमया सहितं शिवम्।
सुवर्णनिर्मितं देवं वृषभे रौप्यनिर्मिते॥४८॥
विधिना पूजनं कृत्वा रात्रौ जागरणं चरेत्।
ततः प्रभाते विमले स्नात्वा नद्यां विधानतः॥४९॥
आचार्यं वरयेद्भक्त्या द्विजैरेकादशैः सह।
होमश्चैव प्रकर्तव्यो घृतपायसबिल्वकैः॥५०॥
रुद्रसूक्तेन गायत्र्या मूलमन्त्रेण वा पुनः।
ततः पूर्णाहुतिं हुत्वा आचार्यादीन्प्रपूजयेत्॥५१॥
तथैकादश सद्विप्रान्सपत्नीकांस्तु भोजयेत्।
एवं या कुरुते नारी सर्वपापैः प्रमुच्यते॥५२॥
कथां श्रुत्वा विधानेन स्थाप्यं सर्वं न्यवेदयेत्।
अश्वमेधसहस्रस्य फलं भवति निश्चितम्॥५३॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये धारणापारणा-मासोपवासरुद्रवर्तिकथनं नाम चतुर्थोऽध्यायः॥४॥