तृतीयोऽध्यायः
सनत्कुमार उवाच
भगवन् व्रतसङ्घस्य उद्देशः कथितस्त्वया।
तृप्तिर्न जायते स्वामिन् विस्तराद्वक्तुमर्हसि॥१॥
यच्छ्रुत्वा कृतकृत्योऽहं भविष्यामि सुरेश्वर॥२॥
ईश्वर उवाच
नक्तव्रतेन योगीश श्रावणं यो नयेत्सुधीः।
द्वादशस्वपि मासेषु स नक्तफलभाग्भवेत्॥३॥
दिनावसानपूर्व तु नक्तं स्याद्रात्रिभोजनम्।
तत्राद्यास्त्रिघटीस्त्यक्त्वा कालः स्यान्नक्तभोजने॥४॥
ततः सन्ध्या त्रिघटिका अस्तादुपरि भास्वतः।
चत्वारीमानि कर्माणि सन्ध्यायां परिवर्जयेत्॥५॥
आहारं मैथुनं निद्रां स्वाध्यायं च चतुर्थकम्।
गृहस्थयतिभेदेन तद्व्यवस्थां च मे शृणु॥६॥
आत्मनो द्विगुणी छाया मन्दीभवति भास्करे।
यतेर्नक्तं तु तत्प्रोक्तं न नक्तं निशि भोजनम्॥७॥
नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः स्मृतम्।
यतेर्दिनाष्टमे भागे रात्रौ तस्य निषिध्यते॥८॥
नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः।
यतिश्च विधवा चैव विधुरश्च ससूर्यकम्॥९॥
विधुरश्चेत्पुत्रवान् स्यात्स तु रात्रौ समाचरेत्।
अनाश्रमोऽप्याश्रमी स्यादपत्नीकोऽपि पुत्रवान्॥१०॥
एवं यथाधिकारं तु कुर्यान्नक्तव्रतं सुधीः।
अत्र नक्तव्रती मासे परां गतिमवाप्नुयात्॥११॥
प्रातःस्नानं करिष्यामि ब्रह्मचर्यव्रते स्थितः।
भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम्॥१२॥
प्रारब्धेऽस्मिन्वते देव यद्यपूर्णे म्रिये ह्यहम्।
तदा सम्पूर्णतां यातु प्रसादात्ते जगत्पते॥१३॥
इति सङ्कल्प्य मेधावी मासे नक्तव्रतं चरेत्।
एवं नक्तव्रतं कुर्वन्मम प्रियतमो भवेत्॥१४॥
विप्रद्वारातिरुद्रेण महारुद्रेण वा स्वयम्।
अभिषेकं मासमात्रं रुद्रेण प्रत्यहं चरेत्॥१५॥
तस्य प्रीणाम्यहं वत्स जलधाराप्रियो यतः।
कुर्याद्रुद्रेण वा होमं मम प्रीतिकरं परम्॥१६॥
स्वस्य यद्रोचतेऽत्यन्तं भोज्यं वा भोग्यमेव वा।
सङ्कल्प्य द्विजवर्याय दत्त्वा मासे स्वयं त्यजेत्॥१७॥
अतः परं शृणु मुने लक्षपूजाविधिं परम्।
श्रीकामो बिल्वपत्रैश्च दूर्वाभिः शान्तिकामुकः॥१८॥
आयुष्कामेन कर्तव्यं चम्पकैः पूजनं हरेः।
विद्याकामेन कर्तव्यं मल्लिकाजातिभिस्तथा॥१९॥
शिवविष्ण्वोः प्रसन्नत्वं तुलसीभिः प्रसिध्यति।
पुत्रकामेन कर्तव्यं बार्हतैः पूजनं शुभम्॥२०॥
दुःस्वप्नप्रशमार्थाय शस्तं धान्यप्रपूजनम्।
रङ्गवल्ल्यादिभिर्देवं देवस्याग्रे विनिर्मितैः॥२१॥
पद्मादिभिः स्वस्तिकाद्यैश्चक्राद्यैः पूजयेद्विभुम्।
एवं हि सर्वपुष्यैश्च सर्वकामार्थसिद्धये॥२२॥
लक्षपूजां प्रकुर्याच्चेत्सुप्रसन्नो हरो भवेत्।
उद्यापनं ततः कार्यं मण्डपं चैव साधयेत्॥२३॥
वेदिका च प्रकर्तव्या मण्डपस्य त्रिभागतः।
पुण्याहवाचनं कृत्वा आचार्यं वरयेत्ततः॥२४॥
गीतवादित्रनिर्घोषैर्ब्रह्मघोषेण भूयसा।
प्रविश्य मण्डपे तस्मिन् रात्रौ जागरणं चरेत्॥२५॥
वेदिकायां प्रकर्तव्यं लिङ्गतोभद्रमुत्तमम्।
तन्मध्ये तण्डुलैः कुर्यात्कैलासं च सुशोभनम्॥२६॥
कलशं स्थापयेत्तत्र ताम्र चैव महाप्रभम्।
पञ्चपल्लवसंयुक्तं न्यसेद् वस्त्रं सुसूक्ष्मकम्॥२७॥
सौवर्णी प्रतिमां तत्र स्थापयेत्पार्वतीपतेः।
पूजां तत्र प्रकुर्वीत पञ्चामृतपुरःसरैः॥२८॥
सनैवेद्यैर्गीतवादित्रनृत्यकैः।
वेदशास्त्रपुराणैश्च रात्रौ जागरणं चरेत्॥२९॥
प्रभातसमये सुस्नातः सुशुचिर्भवेत्।
स्थण्डिलं कारयेत्तत्र स्वशाखोक्तविधानतः॥३०॥
होमं च सतिलाज्येन पायसेन च कारयेत्।
मूलमन्त्रेण गायत्र्या शिवनाम्नां सहस्रकैः॥३१॥
येन मन्त्रेण पूजा तु कृता तेनैव होमयेत्।
शर्कराघृतमिश्रेण चरुणा जुहुयात्ततः॥३२॥
ततः स्विष्टकृतं हुत्वा पूर्णाहुतिमनन्तरम्।
आचार्यं पूजयेत्सम्यग्वस्त्रालङ्कारभूषणैः॥३३॥
ब्राह्मणान्पूजयेत्पश्चात्तेभ्यो दद्याच्च दक्षिणाम्।
येन येन प्रकुर्याच्च लक्षपूजामुमापतेः॥३४॥
तत्तद्दद्यात्सुवर्णेन कृत्वा शम्भुं प्रपूजयेत्।
यदि दीपः कृतस्तेन तद्दानं चैव कारयेत्॥३५॥
सुवर्णवर्तिकां कृत्वा दीपमात्रं च रौप्यकम्।
गोघृतेन समायुक्तं सर्वकामार्थसिद्धये॥३६॥
क्षमापयेत्ततो देवं ब्राह्मणान्भोजयेच्छतम्।
एवं यः कुरुते पूजां तस्य प्रीणाम्यहं मुने॥३७॥
तत्रापि श्रावणे कुर्यात्तदानन्त्याय कल्पते।
स्वप्रीतिविषयः कश्चित्पदार्थस्त्यज्यते यदि॥३८॥
मदर्पणधिया चात्र मासि तस्य फलं शृणु।
इहामुत्र च तत्प्राप्तिर्भवेल्लक्षगुणाधिका॥३९॥
सकामत्वे तु चैवं स्यान्निष्कामत्वे परा गतिः।
रुद्राभिषेकं कुर्वाणस्तत्रत्याक्षरसङ्ख्यया॥४०॥
प्रत्यक्षरं कोटिवर्ष रुद्रलोके महीयते।
पञ्चामृतस्याभिषेकादमृतत्वं समश्नुते॥४१॥
तस्मिन्मासे भूमिशायी फलं तस्यापि मे शृणु।
प्रवालनिर्मितां श्रेष्ठां गजदन्तभवामपि॥४२॥
पाटीरनिर्मितां चापि खचितां नवरत्नकैः।
निःसीममृदुपक्षीन्द्रविशेषां द्विजसत्तम॥४३॥
वरवस्त्रेण सञ्छन्नां तूलिकां चात्र शोभनाम्।
दशोपबर्हणैर्युक्तां शय्यां स लभते शुभाम्॥४४॥
रम्याङ्गनासमायुक्तां रत्नदीपविभूषिताम्।
ब्रह्मचर्येण चाप्यत्र वीर्यपुष्टिर्भवेद् दृढा॥४५॥
ओजो बलं देहदार्ढ्यं यद्धर्मस्योपकारकम्।
प्रत्यक्षैव भवेत्तस्य ब्रह्मप्राप्तिर्न संशयः॥४६॥
निष्कामस्य सकामस्य स्वर्गं देवाङ्गना शुभा।
अत्र मौनव्रतधरो महान्वक्ता प्रजायते॥४७॥
अहोरात्रं दिने वापि भुक्तिकालेऽथवा पुनः।
घण्टायाः पुस्तकस्यापि व्रतान्ते दानमाचरेत्॥४८॥
सर्वशास्त्रप्रवीणः स्याद्वेदवेदाङ्गपारगः।
वाचस्पतिसमो बुद्धौ मौनमाहात्म्यतो भवेत्॥४९॥
मौनिनः कलहो नास्ति तस्मान्मौनव्रतं परम्॥५०॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये नक्तव्रतलक्षपूजा-भूमिशयनमौनादिव्रतकथनं नाम तृतीयोऽध्यायः॥३॥