द्वितीयोऽध्यायः
ईश्वर उवाच
साधु साधु महाभाग विनीतोऽसि विरिञ्चिज।
श्रोता गुणयुतो यस्माच्छ्रद्धालुर्भक्तिभूषितः॥१॥
श्रावणे मासि विनयाद्यत्पृष्टं भवतानघ।
अपृष्टमपि ते वक्ष्ये प्रेम्णा परमया मुदा॥२॥
प्रियो भवति चाद्वेष्टा नम्रस्त्वं च तथाविधः।
पञ्चमो मस्तकश्छिन्नः प्रोद्धतस्य पितुस्तव॥३॥
त्वं च तं मत्सरं त्यक्त्वा मां यतः शरणं गतः।
अतो वक्ष्यामि ते तात भूत्वा चैकमनाः शृणु॥४॥
कुर्यान्नक्तव्रतं योगिन् श्रावणे नियतो नरः।
रुद्राभिषेकं कुर्वीत मासमात्रं दिने दिने॥५॥
स्वप्रीतिविषयस्थापि कस्यचित्त्यागमाचरेत्।
पुष्पैः फलैश्च धान्यैश्च तुलसीमञ्जरीदलैः॥६॥
बिल्वपत्रैर्लक्षपूजां शङ्करस्य समाचरेत्।
कोटिलिङ्गादि कर्तव्यं ब्राह्मणांश्चैव भोजयेत्॥७॥
धारणापारणे कुर्यादुपोषणमथापि च।
पञ्चामृताभिषेकं च मम प्रीतिकरं परम्॥८॥
अस्मिन्मासे कृतं यद्यत्तदानन्त्याय कल्पते।
भूमिशायी ब्रह्मचारी सत्यवाक्यो भवेन्मुने॥९॥
न नयेन्मासमेनं तु व्रतवन्ध्यं कदाचन।
अनोदनं समश्नीयाद्धविष्यान्नमथापि वा॥१०॥
पत्रे चैव समश्नीयाच्छाकमात्रं त्यजेद् व्रती।
किञ्चिद्व्रती सर्वथा स्याद्भक्तिमान्मुनिसत्तम॥११॥
सदाचारो भूमिशायी प्रातः स्नायी जितेन्द्रियः।
मत्पूजां प्रत्यहं कुर्यादेकाग्रकृतमानसः॥१२॥
पुरश्चरणमप्यत्र मन्त्राणां सिद्धिदं परम्।
शिवषड्वर्णमन्त्रस्य गायत्र्याश्च जपं चरेत्॥१३॥
प्रदक्षिणा नमस्कारान् वेदपारायणं तथा।
जपः पुरुषसूक्तस्य अधिकं फलदो भवेत्॥१४॥
ग्रहयज्ञः कोटिहोमो लक्षहोमोऽयुतस्तथा।
कृतः फलति सद्योऽत्र वाञ्छितार्थफलप्रदः॥१५॥
अस्मिन्मासे चैकदिनं यो वन्ध्यं व्रततो नयेत्।
स याति नरकं घोरं यावदाभूतसम्प्लवम्॥१६॥
यथायं मे प्रियो मासस्तथा किञ्चिन्न मे प्रियम्।
कामिनः फलदश्चायं निष्कामस्य तु मोक्षदः॥१७॥
तत्र व्रतानि ये धर्मास्तान्मत्तः शृणु सत्तम।
रवौ रविव्रतं सोमे मत्पूजा नक्तभोजनम्॥१८॥
प्रथमं सोममारभ्य व्रतं स्याद्रोटकाभिधम्।
सार्धमासत्रयं तत्स्यात्सर्वकामार्थसिद्धिदम्॥१९॥
भौमे मङ्गलगौर्याश्च तदह्नोर्बुधजीवयोः।
शुक्रे जीवन्तिकायाश्च आञ्जनेयनृसिंहयोः॥२०॥
शनौ व्रतं समादिष्टं तिथिष्वथ मुने शृणु।
नभः शुक्लद्वितीयायां व्रतमौदुम्बराभिधम्॥२१॥
गौरीवतं तृतीयायां श्रावणे शुक्लपक्षके।
तथा शुक्लचतुर्थ्यां तु दूर्वागणपतिव्रतम्॥२२॥
विनायकीति तस्याश्च संज्ञा स्यादपरा मुने।
नागानां पूजने शस्ता पञ्चमी शुक्लपक्षके॥२३॥
इमां रौरवकल्यादि जानीहि मुनिसत्तम।
सूपौदनव्रतं षष्ठ्यां सप्तम्यां शीतलाव्रतम्॥२४॥
पवित्रारोपणं देव्या वसौ भूते यथा भवेत्।
शुक्लकृष्णनवम्योस्तु नक्तव्रतविधिः स्मृतः॥२५॥
दशम्यां शुक्लपक्षे तु आशासंज्ञं व्रतं भवेत्।
पक्षद्वये विशेषोऽस्मिन्नेकादश्योस्तु कश्चन॥२६॥
पवित्रारोपणं शुक्लद्वादश्यां तु हरेः स्मृतम्।
द्वादश्यां श्रीधरं पूज्य परां गतिमवाप्नुयात्॥२७॥
उत्सर्जनमुपाकर्म सभादीपस्तथैव च।
उपाकर्म सभायां तु रक्षाबन्धस्ततः परम्॥२८॥
श्रवणाकर्म तत्रैव तथा सर्पबलिः तथा सर्पबलिः स्मृतः।
हयग्रीवस्यावतारः पूर्णिमायां तु सप्तकम्॥२९॥
नभःकृष्णे तु सङ्कष्टचतुर्थीव्रतमुच्यते।
ज्ञेया मानवकल्पादिः श्रावणे कृष्णपञ्चमी॥३०॥
पूर्णावतारः कृष्णस्य कृष्णाष्टम्यां द्विजोत्तम।
अवतारः समभवद् व्रतं तत्र महोत्सवम्॥३१॥
इयं मन्वादिरपि च ज्ञातव्या मुनिपुङ्गव।
अमायां श्रावणे मासि पिठोराव्रतमुच्यते॥३२॥
कुशानां ग्रहणं चैव वृषभाणां च पूजनम्।
शुक्लाद्यतिथिमारभ्य तत्तत्तिथिषु देवताः॥३३॥
वह्निर्देवः प्रतिपदि द्वितीया ब्रह्मदेवता।
तृतीयायास्तथा गौरी चतुर्थ्यां गणनायकः॥३४॥
सर्पाधिपा पञ्चमी स्यात्षष्ठी स्यात्स्कन्ददेवता।
सप्तम्यां भास्करो देवः शिवदेवाष्टमी तिथिः॥३५॥
दुर्गाधिपा तु नवमी दशम्यन्तकदेवता।
एकादश्यधिपाश्चैव विश्वेदेवाः प्रकीर्तिताः॥३६॥
द्वादश्याश्च तु हरिः कामस्त्रयोदश्यधिपो मतः।
चतुर्दश्यां शिवश्चैव पौर्णमास्याः शशी पतिः॥३७॥
अमायाः पितरो देवा एते तिथ्यधिपाः स्मृताः।
स देवस्तत्र पूज्यः स्याद्यस्य देवस्य या तिथिः॥३८॥
अगस्त्यस्योदयो मासे प्रायेणात्रैव जायते।
कथयामि च तं कालं शृणुष्वैकमना मुने॥३९॥
सिंहसङ्क्रान्तिदिवसाद्यदा द्वादश यान्ति च।
चत्वारिंशच्च घटिकास्तदागस्योदयो भवेत्॥४०॥
सप्ताहानि ततः पूर्वमगस्त्यार्घ्यं समाचरेत्।
द्वादशेष्वपि मासेषु आदित्यो भिन्नसंज्ञया॥४१॥
तपते श्रावणे तत्र गभस्तिरितिसंज्ञितः।
तत्पूजनं च कर्तव्यं मासेऽस्मिन्भक्तितत्परैः॥४२॥
चतुर्षु यानि मासेषु वर्ज्यानि शृणु सत्तम।
श्रावणे च त्यजेच्छाकं दधि भाद्रपदे तथा॥४३॥
दुग्धमाश्वयुजे मासि कार्तिके द्विदलं त्यजेत्।
इत्यादीनि समस्तानि तानि कर्तुमशक्नुवन्॥४४॥
एकस्मिन् श्रावणे मासि कुर्वंस्तत्फलभाग्भवेत्।
उद्देशोऽयं मया प्रोक्तः सङ्क्षेपात्तव मानद॥४५॥
अत्रत्यानां व्रतानां तु धर्माणां मुनिसत्तम।
केनापि विस्तरो वक्तुं नालं वर्षशतैरपि॥४६॥
मम प्रीत्यै हरेर्वापि कुर्याद् व्रतमशेषतः।
आवयोर्नहि भेदोऽस्ति परमार्थविचारतः॥४७॥
कल्पयन्त्यत्र ये भेदं ते वै निरयगामिनः।
सनत्कुमार तस्मात्त्वं श्रावणे धर्ममाचर॥४८॥
॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये श्रावणव्रतोद्देशकथनं नाम द्वितीयोऽध्यायः॥२॥