प्रथमोऽध्यायः

शौनक उवाच

सूत सूत महाभाग व्यासशिष्य ह्यकल्मष।
त्वदीयवदनाम्भोजान्नानाख्यानानि शृण्वताम्॥१॥
तृप्तिर्न जायते भूयः श्रवणेच्छा प्रवर्धते।
कार्तिकस्य च माहात्म्यं तुलासंस्थे दिवाकरे॥२॥
माघमासस्य माहात्म्यं मकरस्थे विभावसौ।
वैशाखमासमाहात्म्यं तथा मेषगते रवौ॥३॥
तत्र तत्र च ये धर्माः कथिताः सर्वशस्त्वया।
एतेभ्योऽप्यधिकः कश्चिन्मासश्चेत्तव सम्मतः॥४॥
धर्म ईशप्रियो नित्यं तं त्वं कथय साम्प्रतम्।
यच्छ्रुत्वा पुनरन्यत्र श्रोतुमिच्छा न नो भवेत्॥५॥
श्रद्धालोः श्रोतुरग्रे तु वक्ता गोप्यं न कारयेत्॥६॥

सूत उवाच

शृणुध्वं मुनयः सर्वे भवतो वाक्यगौरवात्।
तुष्टोऽहं न च गोप्यं मे भवदग्रे तु किञ्चन॥७॥
अदाम्भिक्यं तथास्तिक्यमशठत्वं सुभक्तिता।
शुश्रूषत्वं विनीतत्वं ब्रह्मण्यत्वं सुशीलता॥८॥
ध्रुवत्वं च शुचित्वं च तपस्वित्वानसूयते।
एते द्वादशसङ्ख्याका गुणाः श्रोतुः प्रकीर्तिताः॥९॥
ते सर्वेऽपि भवत्स्वेव तुष्टस्तत्त्वं ब्रवीम्यतः।
सनत्कुमारो मेधावी धर्मजिज्ञासुरानतः॥१०॥
ईश्वरं परिपप्रच्छ भक्त्या परमया युतः॥११॥

सनत्कुमार उवाच

देवदेव महाभाग तव योगिध्येयपदाम्बुज।
व्रतानि बहुशस्त्वत्तः श्रुता धर्माश्च सर्वशः॥१२॥
तथापि श्रोतुमिच्छेका वर्तते हृदि साम्प्रतम्।
द्वादशस्वपि मासेषु मासः श्रेष्ठतमोऽस्ति यः॥१३॥
प्रीतिकरोऽत्यन्तं सिद्धिदः सर्वकर्मणाम्।
अन्यमासे कृतं कर्म तदेवास्मिन्कृतं यदि॥१४॥
स्यादनन्तफलं देव तं मासं वक्तुमर्हसि।
तत्रत्यान्सर्वधर्माश्च लोकानुग्रहकाम्यया॥१५॥

ईश्वर उवाच

सनत्कुमार वक्ष्यामि सुगोप्यमपि सुव्रत।
शुश्रूषुत्वेन भक्त्या च प्रीतोऽस्मि विधिनन्दन॥१६॥
द्वादशस्वपि मासेषु श्रावणो मेऽतिवल्लभः।
श्रवणार्हं यन्माहात्म्यं तेनासौ श्रावणो मतः॥१७॥
श्रवण पौर्णमास्यां ततोऽपि श्रावणः स्मृतः।
यस्य श्रवणमात्रेण सिद्धिदः श्रावणोऽप्यतः॥१८॥
स्वच्छत्वाच्च नभस्तुल्यो नभा इति ततः स्मृतः।
तत्रत्यधर्मगणनां कर्तुं कः शक्नुयाद्भुवि॥१९॥
सर्वतो यत्फलं वक्तुं चतुरास्योऽभवद्विधिः।
द्रष्टुं यत्फलमाहात्म्यं सहस्त्राक्षोऽभवद् वृषा॥२०॥
अनन्तो यत्फलं वक्तुं सहस्त्रद्वयजिह्वकः।
किं बहूक्तेन कोऽप्येतद् द्रष्टुं वक्तुं च न क्षमः॥२१॥
एतत्कलामपि मुने लभन्ते नान्यमासकाः।
सर्वव्रतमयश्चैषः सर्वधर्ममयस्तथा॥२२॥
नैकोऽपि वासरो यत्र व्रतशून्यः प्रदृश्यते।
प्रायेण तिथयश्चापि व्रतवत्योऽत्र मासि वै॥२३॥
अत्रोच्यते मया यद्यदर्थवादो न सोऽत्र हि।
आर्तैर्जिज्ञासुभिर्भक्तैस्तथार्थार्थिमुमुक्षुभिः॥२४॥
चतुर्विधैरपि जनैः सेव्यः स्वस्वेष्टकाङ्क्षिभिः।

सनत्कुमार उवाच

भगवन् यत्त्वया प्रोक्तं व्रतशून्यो न वासरः।
प्रायेण तिथिरप्यत्र तन्ममाचक्ष्व सत्तम॥२५॥
कस्यां तिथौ किं व्रतं स्यात्कस्मिन्वारे च किं व्रतम्।
तत्र तत्राधिकारी कः किं फलं कीदृशो विधिः॥२६॥
केन केनापि चाचीर्णमुद्यापनविधिश्च कः।
प्रधानं पूजनं कुत्र जागणश्चापि तद्विधिः॥२७॥
को देवः कुत्र पूज्यः स्यात्सामग्री पूजनस्य का।
कस्य व्रतस्य कः कालस्तत्सर्वं कथय प्रभो॥२८॥
त्वत्प्रियश्च कथं मासः पवित्रः केन हेतुना।
मासेऽस्मिन्नवतारः कः श्रेष्ठश्चायं कुतोऽभवत्॥२९॥
अस्मिन्मासे च के धर्मा अनुष्ठेया वद प्रभो।
प्रश्नेऽपि च कियज्ज्ञानं ममाज्ञस्य तवाग्रतः॥३०॥
अशेषेण समाचक्ष्व पृष्टादन्यच्च यद्भवेत्।
जनानां तारणार्थाय कृपालो कृपया वद॥३१॥
रवौ सोमे भौमवारे बुधे सुरगुरौ कवौ।
शनैश्चरदिने वापि तत्सर्वं वद मे विभो॥३२॥
सर्वेषामादिभूतस्त्वमादिदेवस्ततः स्मृतः।
एकस्य विधिबाधाभ्यामन्यबाधाविधी यथा॥३३॥
अन्येषामल्पदेवत्वान्महादेवस्ततः स्मृतः।
देवत्रयाश्रयेऽश्वत्थे उपर्यास्ते स्थितिस्तव॥३४॥
शिवस्त्वं शुभरूपत्वादघौघहरणाद्धरः।
तव चैवादिदेवत्वे प्रमाणं शुक्लवर्णकः॥३५॥
प्रकृतौ शुक्लवर्णेऽन्ये वर्णाः स्युर्विकृतिं गताः।
यतः कर्पूरगौरस्त्वमादिदेवस्ततो ह्यसि॥३६॥
गणपत्याधारभूतान्मूलाधाराच्चतुर्दलात्।
स्वाधिष्ठानाभिधात्पद्मात्षद्दलाद् ब्रह्मदैवतात्॥३७॥
मणिपूराद्दशदलान्मण्डलाद्विष्ण्वधिष्ठितात्।
ब्रह्मविष्णूपरिस्थस्त्वं वदतीदं च मुख्यताम्॥३८॥
एकस्य तेऽर्चनाद्देव पञ्चायतनपूजनम्।
जायतेऽन्यसुरे चैव सम्भवेन्न हि सर्वथा॥३९॥
स्वयं शिवस्त्वं वामोरौ शक्तिर्गणपतिस्तथा।
दक्षिणोरावक्ष्णि सूर्यो हृदये भक्तराड्ढरिः॥४०॥
अन्नस्य ब्रह्मरूपत्वाद्रसात्मत्वाद्धरेरपि।
भोक्तृत्वाच्च तवेशान श्रेष्ठत्वे कस्य संशयः॥४१॥
विरक्तत्वं शिक्षयिष्यन् श्मशाने पर्वते स्थितिः।
उतामृतत्वस्येशानो मन्त्रलिङ्गेन सूक्तके।
पौरुषे प्रतिपाद्योऽसि इति प्राहुर्महर्षयः॥४२॥
जगत्संहारकं हालाहलं केन धृतं गले।
महाप्रलयकालाग्निं भाले धर्तुं च कः क्षमः॥४३॥
भवान्धकूपपतने हेतुः केन हतः स्मरः।
किं वर्ण्यं भागधेयं ते यद्वक्तुं हीदृशो भवान्॥४४॥
त्वां स्तोतुं जन्मकोट्यापि वराकोऽहं न च क्षमः।
कृत्वा मयि कृपामेव मत्प्रश्नान्वक्तुमर्हसि॥४५॥

॥इति श्रीस्कन्दपुराणे ईश्वरसनत्कुमारसंवादे श्रावणमासमाहात्म्ये प्रथमोऽध्यायः॥१॥