स्तोत्रसंहिताStotraSamhita

श्रीपाद्मपुराणे माघमासमाहात्म्ये शिवरात्रिव्रतकथनम्

Śrīpādmapurāṇe Māghamāsamāhātmye Śivarātrivratakathanam

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

कथा

अथ चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४०

दिलीप उवाच

केन व्याजेन वै व्याधो निराहारोऽभवन्मुने।
कैलासं स कथं प्राप शिवरात्र्याश्च वैभवम्।
श्रोतुमिच्छाम्यशेषेण वद विस्तरतो मुने॥१॥

वसिष्ठ उवाच

शृणु राजन् प्रवक्ष्यामि शिवरात्रिव्रतं तव।
व्रतानामुत्तमं साक्षाच्छिवलोकैकसाधनम्॥२॥
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी।
शिवरात्रीति विज्ञेया सर्वपापापहारिणी॥३॥
कृतोपवासा ये तस्यां शिवमर्चन्ति जाग्रतः।
बिल्वपत्रैश्चतुर्यामं ते यान्ति शिवतुल्यताम्॥४॥
न तपोभिर्न दानैश्च न वा जप्यसमाधिभिः।
प्राप्यते तत्फलं राजन्नोपवासमखादिभिः॥५॥
गुह्याद् गुह्यतरं लोके व्रतमेतच्छिवप्रियम्।
त्वयाऽपि खलु सर्वत्र न प्रकाश्यमिदं व्रतम्॥६॥
भूधराणां यथा मेरुस्तेजसां भास्करो यथा।
द्विपदां च यथा विप्रः कपिलेव चतुष्पदाम्॥७॥
जप्यानामिव गायत्री रसानाममृतं यथा।
पुरुषाणां यथा विष्णुः स्त्रीणां यद्वदरुन्धती॥८॥
शिवरात्रिव्रतं राजन् व्रतानामुत्तमं तथा।
शिवरात्रिर्महावह्निर्भवानीशसमन्विता॥९॥
दहत्यवारितो योगाच्छुष्कार्द्रं कल्मषेन्धनम्।
एतत्ते कथितं राजञ्शिवरात्रिव्रतं महत्।
एवमेत्र पुरा देव्यै महादेवेन भाषितम्॥१०॥

दिलीप उवाच

कदा देव्या महादेवः कथं पृष्टस्तु तद् वद॥११॥

वसिष्ठ उवाच

कैलासशिखरासीनं प्रसन्नमुखपङ्कजम्।
त्रिलोचनं चतुर्बाहुं सर्वाभरणभूषितम्॥१२॥
उमाधिष्ठितवामाङ्गं नागयज्ञोपवीतिनम्।
वरदाभयहस्तं च नमज्जनवरप्रदम्॥१३॥
व्याघ्रचर्मपरीधानं चन्द्रार्धकृतशेखरम्।
गङ्गाप्लुतजटाजूटं भस्मगौरं वराननम्॥१४॥
धारयन्तं महामालां ज्योतिश्चन्द्रार्कनिर्मलाम्।
जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम्॥१५॥
महेष्वासमुदाराङ्गं कम्बुग्रीवं सुलोचनम्।
सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतिनम्॥१६॥
दृष्ट्वा प्रणम्य देवेशी प्रहर्षमतुलं गता।
त्वरमाणाऽथ सङ्गम्य देवेशं वरवर्णिनी॥१७॥
शुभां शुभावती चैत्र वदान्यां च सुमालिनीम्।
समाहूयाऽऽगता देवी भूतस्त्रीभिश्च संयुता॥१८॥
भवपादाब्जयुगले भक्त्या परमया युता।
विकीर्य पुष्पजालानि सुमालिन्याऽऽहृतानि च।
कृताञ्जलिपुटा भूत्वा पप्रच्छ शुभलोचना॥१९॥

देव्युवाच

अहोऽमृतमयी चैत्र कथा पापप्रणाशिनी।
तत्र क्रीडाभिसम्बन्धात् त्वद्वाक्यामृतसम्भवा॥२०॥
सुखावहसुखोद्गीणी दुःखक्षयविधायिनी।
नीलोत्पलदलानां च मालेवोत्तरगन्धिनी॥२१॥
नाद्यापि तृप्तिर्देवेश शृण्वत्या मम शङ्कर।
प्रार्थितार्थान्यनेकानि दानं धर्मस्तथा परे॥२२॥
यज्ञाचाऽऽयासबहुलास्तपांसि नियमानि च।
बहूनि तानि लोकेऽस्मिन् पूतानि वृषकेतन॥२३॥
व्रतानामुत्तमं देव भुक्तिमुक्तिप्रदायकम्।
यन्न कस्यचिदाख्यातं त्वया सर्वार्थसाधकम्॥२४॥
शीघ्रं निलीयते सर्वं पापं यच्छ्रवणादहो।
तदहं श्रोतुमिच्छामि कथयस्व ममाग्रतः॥२५॥

महेश्वर उवाच

शृणु देवि व्रतं गुह्यं व्रतानामुत्तमोत्तमम्।
यन कस्यचिदाख्यातं रहस्यं मुक्तिदायकम्॥२६॥
येन वै कथ्यमानेनाप्यधर्मो विलयं व्रजेत्।
तदहं कीर्तयिष्यामि शृणुष्वैकाग्रमानसा॥२७॥
माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी।
शिवरात्रिरिति ख्याता सर्वयज्ञोत्तमोत्तमा॥२८॥
दानयज्ञतपस्तीर्थव्रतकर्माणि यानि च।
शिवरात्रिव्रतस्यापि कोट्यंशेन समानि न॥२९॥
यैरिवं कलिहन्त्री च कृतान्तपथनाशिनी।
भुक्तिदा मुक्तिदा देवि दिवानिशमुपोषिता।
न ते यमपुरं यान्ति सत्यं सत्यं वरानने॥३०॥

देव्युवाच

कथं यमपुरं वन्ध्यं कथं शिवपुरं व्रजेत्।
एतदेव महाश्चर्यं प्रत्ययं कुरु मे प्रभो॥३१॥

श्रीमहेश्वर उवाच

शृणु देवि यथा वृत्तं कथां पौराणिकीं प्रिये।
कश्चिदासीत् पुराकाले निषादश्चाऽऽमिषप्रियः॥३२॥
पर्वताग्रनिवासी च भूधरासन्नचारिभिः।
समुत्पन्नैर्मृगैर्जीवन्कुटुम्ब परिपालकः॥३३॥
आपीनांसो धनुष्पाणिः श्यामाङ्गः कृष्णकञ्चकः।
बद्धगोधाङ्गुलित्राणो वामवाहौ च वर्मधृत्॥३४॥
धनुर्वामे गृहीत्वा च दक्षिणे शरमुत्तमम्।
निर्गतः स वनोद्देशान्निपादो मांसजीवकः॥३५॥
वनं गतो निरीक्षिप्यन्सोऽन्तर्दिशमितस्ततः।
वनमार्गे समन्विच्छन्नाश्रमे वनसूकरान्॥३६॥
निराशो लुब्धकोऽतिष्ठद्यावदस्तं गतो रविः।
चिन्तयञ्जनमासन्नं गतेऽर्के जीवघातक॥३७॥
करिष्ये जागरं रात्रौ निश्चिता मम जीविका।
गतोऽसौ जलमासनं तत्तीरे जालिमध्यतः॥३८॥
प्रच्छन्नं कर्तुमारब्धवाऽऽत्मनो गुप्तिकारणम्।
तत्र सन्तिष्ठते लिङ्गं स्वयम्भूतं वरानने॥३९॥
सञ्छन्नं बिल्वविटपैः सपत्रैर्जालिमध्यतः।
तानि विल्वस्य पत्राणि गृहीत्वा मार्गशोधने॥४०॥
नीतानि दक्षिणे भागे न्यपतँल्लिङ्गमूर्धनि।
न दिवा भोजनं तस्य ह्यामिषालुब्धचेतसः॥४१॥
निरीक्षतः पुनस्तस्य न निद्राऽप्युपपद्यते।
तस्य गन्धं समासाद्य लुब्धकस्य वरानने॥४२॥
न तिष्ठन्ति मृगाः सर्वे शरघातभयात् तदा।
तेन सा शर्वरी नीता ह्युदिते सूर्यमण्डले॥४३॥
गतोऽसौ गृहमार्गेण निराशो धृततोमरः।
मांसशून्यकरं दृष्ट्वा पिता पुत्रमभाषत॥४४॥

पितोवाच

नाऽऽनीतमामिषं पुत्र कथं रात्रिमुपोषितः॥४५॥

महेश्वर उवाच

ततो निषादः पितरं पृच्छन्तं प्रत्यभाषत॥४६॥

निषाद उवाच

नाssनीतमामिषं तात निराशाः शिशवो गताः।
बाधते क्षुदपर्यन्ता स्वमितो भोजनं कुरु॥४७॥

महेश्वर उवाच

भोजनं तु कृतं तेन वृद्धेन सह भार्यया।
धर्महीनो निषादस्तु धर्मवर्ती बनागतः॥४८॥
अकामाज्जागराद्रात्रौ शिवरात्र्यां वरानने।
मृतोऽसौ कालपर्यन्ते गृहीतो यमकिङ्करैः।
शिवेन प्रेषितास्तस्मै विमानगणकोटयः॥४९॥

शिव उवाच

शीघ्रमानयत गत्वा प्राप्तो हि यमकिङ्करैः।
निर्दग्धं किल्विषं तस्य शिवरात्र्यामुपोषणात्॥५०॥

महेश्वर उवाच

इति श्रुत्वा वचो दिव्यं गणास्ते गन्तुमुद्यताः।
स्तुवन्तः परमं देवं शिवं शान्तमनामयम्॥५१॥
गच्छन्तं च गणेशास्तमपश्यलुब्धकं तथा।
गृहीतं यमदूतैस्तु पाशमुद्गरधारिभिः॥५२॥
मुञ्चतैनं महात्मानमित्यूचुस्तान्गणेश्वराः।
ततोऽब्रुवन्यमभटाः कस्मादेष विमुच्यताम्॥५३॥
क्रूरासु यातना स्वेप पापिष्ठो जीवघातकः।
ततस्ते हन्तुमारब्धाः खङ्गमुद्गरपट्टिशैः॥५४॥
गृहीत्वैनं महात्मानं किङ्कराः कालचोदिताः।
प्रावर्तत महायुद्धमन्योन्यवधकाङ्क्षिणाम्॥५५॥
भिन्नमस्तककायाश्च शूलमुद्गरसायकैः।
जर्जरीकृतदेहाच क्रन्दमानाः सुदारुणम्॥५६॥
त्राहि त्राहीति गर्जन्तो गतास्ते यममन्दिरम्।
निषादोऽथ गणैर्नीतो यत्र देवो महेश्वरः॥५७॥
दृष्टमात्रः शिवेनासौ निषादः सुखतां गतः।
ततोऽसौ दिव्यदेहस्थः कुण्डलाभरणोज्ज्वलः॥५८॥
तस्मै दत्तं महेशेन विमानं सार्वगामिकम्।
अक्षमालासमाकीर्ण पुष्पमालामलम्बितम्॥५९॥
नानारत्नसमायुक्तं नानावादित्रघोषितम्।
भुङ्क्ष्व भोगान्मम पुरे यावदाभूतसम्प्लवम्॥६०॥
एवं लब्धवरो भूत्वा ह्यतिष्ठच्छिवशासने।
अथ दूता वदन्त्यग्रे धर्मराजपुरस्थिताः॥६१॥
रुधिरेणारुणाङ्गास्ते जर्जरीकृतमस्तकाः।
प्रोचुश्च धर्मराजानं कृताञ्जलिपरिग्रहाः॥६२॥

दूता ऊचुः

शृणु राजन् यथावृत्तं युद्धं शिवगणैः सह।
नीतोऽसौ पापकर्मा तु निषादो जीवघातकः॥६३॥
अस्माभिर्नीयते राजन्कालमाप्तस्त्वदाज्ञया।
एतस्मिन्नेव काले तु परमेशगणेश्वराः॥६४॥
कालाग्निरुद्रसङ्काशाः शूलटङ्कगदाधराः।
सिद्धाः सहस्रहस्ताथ त्रिनेत्राव जटाधराः॥६५॥
दृष्टिनाः सर्वतोभद्रा भस्मपाण्डुरविग्रहाः।
भुजङ्गहारवलयाः शशाङ्ककृतशेखराः॥६६॥
गम्भीरोदण्डसंरावा. ब्रुवन्तश्च मुहुर्मुहुः।
तत्राऽऽगत्य त्वरायुक्ताः प्रोचुरस्मानिदं वचः॥६७॥
मुञ्चतैनं महात्मानं तपसा दग्धकिल्विषम्।
श्रुत्वा गणेश्वरवाक्यमुक्तमस्माभिरप्ययम्॥६८॥
न मोक्तव्यो निपादो हि पापात्मा जीवघातकः।
अनेन घातिता जीवा असङ्ख्याता गणेश्वराः॥६९॥
चित्राभियतनाभिस्तु बध्योऽयं हि यमाज्ञया।
ते त्वस्मद्वचनं श्रुत्वा गणेशास्त्वतिगर्विताः॥७०॥
शूलटङ्कगदाभिश्च खड्गमुद्गरतोमरैः।
भिन्दिपालकुठारैश्च वज्रमुष्ट्युपलैस्तथा॥७१॥
वयं हता गणैस्तैस्तैर्महाबलपराक्रमैः।
वद्धस्तु विविधैः पाशैर्गृहीतो जीवघातकः।
बहुनाऽत्र किमुक्तेन पुनस्तैरेव रक्षितः॥७२॥

महेश्वर उवाच

तैरेवमुक्तः सङ्क्रुद्धो धर्मात्मा जीवितेश्वरः॥७३॥

यम उवाच

पापिष्ठो जीवघाती च निपादो निर्गुगस्त्वयम्।
कथं शिवपुरं याति चित्रगुप्त विचारय॥७४॥

चित्रगुप्त उवाच

निरीक्ष्य पुस्तकं तेन न किञ्चित्सुकृतं कृतम्।
धर्मबुद्धिर्न तस्यास्ति धर्माधर्मौ{} न विन्दति।
एतस्मिन्नखिलं ज्ञातं सत्यं सत्यं वदाम्यहम्॥७५॥

यम उवाच

इति ज्ञात्वा निषादस्य चित्रगुप्त निवेदितम्।
सोऽहं चिन्तां करोमीह जन्तूनां पापकर्मणाम्।
गत्वा निवेदयिष्यामि ह्ययोग्यं तैस्तु यत्कृतम्॥७६॥

महेश्वर उवाच

एवमुक्त्वा गतः शीघ्रं यत्राऽऽस्ते शङ्करः स्वयम्।
दृष्ट्वा तु देवदेवेशं शङ्करं स्तोतुमैरयत्॥७७॥

यम उवाच

नमस्त्रैलोक्यनाथाय महाबलपिनाकिने।
साक्षात्कालविनाशाय कालनिर्दाहिने नमः॥७८॥
शिवागमार्णवान्तस्थज्ञानरत्नप्रदायिने।
हृदि स्थिताय सर्वेषां साक्षिणे जगतां विभो॥७९॥
अज्ञानतिमिरान्धस्य तमसोऽतीतमूर्तये।
अनाश्रिताय तुष्टाय कपालाय नमोऽस्तु ते॥८०॥
अनादिमलभेत्रे च चिगुणोदयहेतवे।
गुणप्रदाय गूढार्थद्योतकाय नमोऽस्तु ते॥८१॥

महेश्वर उवाच

एवं स्तुत्वा महादेवं प्रणामो दण्डवत्कृतः॥८२॥

यम उवाच

मेरुमन्दरतुल्यानि दुष्कृतानि बहून्यपि।
नश्यन्ति तानि सर्वाणि तव पादाब्जचिन्तया॥८३॥

महेश्वर उवाच

इत्युक्त्वा दण्डमुद्रा तु पादाब्जे तु निवेदिता॥८४॥

शिव उवाच

किमर्थं दण्डमुद्राऽपि त्यक्तेयं यम सत्तम।
केनापराधिना धर्मो धर्मराज उपेक्षितः॥८५॥

धर्मराज उवाच

त्वद्गणैर्देवदेवेश जगतां पालन प्रभो।
मदीयाः किङ्करा देव घातिताः शक्तिमुद्गरैः॥८६॥
निषादो जीवघाती च सर्वकर्मवहिष्कृतः।
मांसलुब्धश्च देवेश विचचार महावने॥८७॥
न लब्धं पिशितं तेन निपादेन धनुष्मता।
जलासन्नगतो रात्र्यां गतेऽर्के जीवघातकः॥८८॥
मृगा वा न भवन्त्यस्य न निद्रा च भवत्यहो।
न कृतं भोजनं दिश्र्या शिवरात्र्यामुपोषितः॥८९॥
अपर्यन्तां क्षुत्रां प्राप्य उदिते सूर्यमण्डले।
गृहं गतोऽसौ देवेश त्वसम्प्राप्तमनोरथः॥९०॥
पापमेवाकरोत्पापी निषादो मांसविक्रयी।
अनेन सुकृतं देव न किञ्चिदुपपादितम्॥९१॥
विचित्रयातनार्हस्तु पापिष्ठो जीवघातकः।
सर्वाल्लोकान्विनिर्जित्य गणेश्वरमवाप्तवान्॥९२॥
देवदेव महादेव भक्तानामार्तिनाशन।
किं कृत्यमत्र देवेश त्वदाज्ञाकारिणा मया॥९३॥

महेश्वर उवाच

इत्युक्तो धर्मराजेन भगवान्भक्तवत्सलः।
प्राह गम्भीरया वाचा शिवरात्रिमनुस्मरन्॥९४॥

शिव उवाच

अयं हि शुद्धः शबरः पुण्यात्मा धार्मिको महान्।
तपस्वी मत्प्रियो नित्यां शिवरात्रिमुपोषितः॥९५॥
शिवरात्रिरिति ख्याता माघकृष्णचतुर्दशी।
भुक्तिमुक्तिप्रदा नित्यं सर्वपापप्रणाशिनी॥९६॥
एवं मङ्गलदाऽभीष्टप्रदा पुण्यविवर्धिनी।
यमशासनहत्री च श्रीपदायोगदायिनी॥९७॥
सम्यक्सिद्धिकरी पूज्या सौभाग्यफलदायिनी।
निर्मितं हि मया पूर्व सुजागरमनुत्तमम्॥९८॥
व्रतं तस्यां तिथौ शैवं लोकानां हितकाम्यया।
शिवरात्रिप्रभावेन कृतार्थः शवरः स्वयम्।
जीवितेश वरं ब्रूहि वरदोऽहं तवेप्सितम्॥९९॥

यम उवाच

कृपालय महादेव भक्तानामभयप्रद।
संसारसागरभ्रान्तिपरिविच्छेदिने नमः॥१००॥
नमः पिनाकहस्ताय नमस्ते कृत्तिवाससे।
तव पादाब्जयुगले भक्ति देहि महेश्वर॥१०१॥

महेश्वर उवाच

भवत्वित्याह भगवान्गच्छ त्वं नगरं प्रति॥१०२॥
इत्येवमुक्तो वृषकेतनेन
प्रहृष्टरोमावृतसर्वगात्रः।
व्रतप्रभावं शबरेण लब्धं
पश्यन् पदं स्वं भवनं जगाम॥१०३॥

॥इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघ माहात्म्ये वसिष्टदिलीपसंवादे शिवरात्रि प्रभावकथनं नाम चत्वारिंशदधिकद्विशततमोऽध्यायः॥२४०॥

अथैकचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४१

देव्युवाच

श्रुतो व्रतानुभावश्च त्वन्मुखाम्भोरुहान्मया।
चरितं शवरस्यापि जीवितेशगतिस्तथा॥१॥
नानार्थदं महादेव श्रुत्वा वाक्यामृतं च ते।
प्रीतिरस्य स्वरूपं यत्पुनर्मे वक्तुमर्हसि॥२॥

महेश्वर उवाच

जीवघाती च शबरः शिवरात्र्यामुपोषितः।
अबुद्धिपूर्व देवेशि गाणपत्यमवाप्तवान्॥३॥
श्रद्धयाऽभीप्सया प्रीत्या भीत्या च हृदयेन वा।
कृत्वा च जागरं रात्रौ मुच्यते सर्वकिल्बिषैः॥४॥
प्रभातसमये बुद्ध्वा गुरोर्गेहं समागतः।
तस्याऽऽज्ञां प्रार्थयेत्पूर्वं व्रतानुचरणाय वै॥५॥
स्नात्वा शुक्लाम्बरधरः कृतमौनो जितेन्द्रियः।
कृताहिकविधिस्तत्र गते चार्के समाहितः॥६॥
स्नात्वा वैनायकीं पूजां कल्पयेत्पुरतः शुभैः।
यजनं प्रतियामं च पाद्याघैरागमोदितैः॥७॥
कृताभ्यङ्गाभिषेकं च प्रतियामं समाचरेत्।
पञ्चगव्यादिभिश्चैव नालिकेरफलोदकैः॥८॥
अथो{}ऽन्यैरभिषेकाहैरोषधीविल्वपत्रकैः।
स्नापयेच्च महादेवं सहस्राद्यैश्व शाम्भवैः॥९॥
पिष्टामलकहारिद्रचूर्णैरुद्वर्तयेत्सुधीः।
अर्चयेद्विल्वपत्रैश्च गन्धतोयैश्व सेवयेत्॥१०॥
स्वर्णोदकै रत्नतोयैश्चाभिषेकं समाचरेत्।
तान्तवेनाथ निर्मृज्य नीराजनमथाऽऽचरेत्॥११॥
वस्त्रैर्नानाविधैश्चैव विशेषैर्धृपितैस्तथा।
संवेष्टयेयथाशोभं सौवर्णैर्भूषणैरपि॥१२॥
अलङ्कृत्य महादेवं पूजयेद्विल्वपत्रकैः।
जातीचम्पकपुन्नागपद्मोत्पलकदम्बकैः॥१३॥
कर्णिकारनवश्वेतमन्दारकुरवैस्तथा।
मल्लिकाशोकधत्तूरशम्यर्कारग्वधैस्तथा॥१४॥
करवीरयवाङ्कोलनन्द्यावर्तपलाशकैः।
तुलसीनागकोरण्टकुसुमैश्च सुपूजयेत्॥१५॥
नीलोत्पलैर्विशेषेण पूजयेल्लिङ्गमेश्वरम्।
धूपदीम्पैश्च नैवेद्यैस्ताम्बूलघृतदीपकैः॥१६॥
अशेषैर्वहुभक्षैव भोज्यैव विविधैरपि।
जागरगीतनृत्याद्यैः प्रदीपाद्युपहारकैः॥१७॥
सूर्यघाम्पैरनेकैव वीणावेणुरवैस्तथा।
स्तोत्रमङ्गलवाद्यैश्च वेदघोषैरनेकशः॥१८॥
शिवधर्मपुराणाद्यैर्मत्र महेश्वरोक्तकैः।
प्रदक्षिणनमस्कारप्रणवैश्चुलुकोदकैः॥१९॥
एवं{} प्रजागरं कुर्यात्प्रतियामं विशेषतः।
ध्यानं च श्रवणं नित्यं शिवधर्मागमेन तु॥२०॥
शिवमन्त्रजपं कृत्वा प्रभाते विमले पुनः।
दानं भक्त्या{} च भक्तानां ब्राह्मणानां विशेषतः॥२१॥
बालवृद्धातुराणां च शक्त्या च परितोषयेत्।
योगिनामन्नपानाभ्यामक्षसूत्रकमण्डलू॥२२॥
कौपीनाच्छादनं दण्डं भिक्षापात्रं च भस्म च।
ददद्वित्तानुसारेण गुरुं सम्पूजयेत्ततः॥२३॥
हेमाङ्गुलीयवस्त्राद्यैर्गन्धपूजा{}दिभिः शुभैः।
सम्पूज्य प्रार्थयेत्पश्चात्कृताञ्जलिपरिग्रहः॥२४॥
त्वदाज्ञया कृतं सर्व शिवरात्रिमहाव्रतम्।
अनुगृह्णीष्व मां नित्यमपराधं क्षमस्व मे॥२५॥
व्रतं कर्तुमशक्तश्चेश्चलचित्तश्च मानवः।
अथवाऽन्यप्रकारेण जागरं कारयेत्पुनः॥२६॥
गेयनृत्योपहारैश्व स्तोत्रमङ्गलवादनैः।
नानाश्चर्यप्रदानैर्वा नानाविधफलान्वितैः॥२७॥
शिवरात्र्यां विशेषैर्वा शिवक्षेत्रे विशेषतः।
येन केनाप्युपायेन शिवरात्र्यामुपोषितः॥२८॥
जागरं कारयेद्धीमान् पातकैः स प्रमुच्यते।
पुरुषो वाऽथ नारी वा कुमारो वाऽथ कन्यका॥२९॥
किं न विन्देत देवेशि शिवरात्रिमहोत्सवे।
भर्तृहीना च या नारी शिवराज्युपवासतः॥३०॥
तस्मातिष्ठति मङ्गल्यं सुचिरं कालमक्षयम्।
चान्द्रायणसहस्रैश्च प्राजापत्यशतैरपि॥३१॥
मासोपवासैरन्यैश्च यत्फलं लभते च सः।
ततः कोटिफलं{} लब्धं शिवरात्रिप्रजागरात्॥३२॥
सर्वयज्ञतपोदानतीर्थवेदेषु यत्फलम्।
तत्सर्वं लभते देवि शिवरात्रिमहाव्रती॥३३॥
संवत्सरं प्रतिदिनं तपसा यत्फलं भवेत्।
तत्सर्वं त्रिगुणीकृत्य शिवरात्र्यामुपोषितः॥३४॥
जन्मकोटिसहस्रैस्तु यत्फलं पूर्वसञ्चितम्।
तत्फलं तस्य देवेशि शिवरात्रिप्रजागरात्॥३५॥
ब्रह्महा गुरुघाती च वीरहा भ्रूणहा तथा।
मयपश्च तथा गोनो मातृहा पितृहा तथा॥३६॥
स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा।
मुच्यते नृपलीसक्तः शिवरात्रिप्रजागरात्॥३७॥
परदारप्रधर्षी च देवब्रह्मस्वहा तथा।
मुच्यते मित्रघाती च कृतन्नोऽपि वरानने॥३८॥
विव{}प्रच्यावकश्चैव लिङ्गप्रध्वंसकस्तथा।
मुच्यते नात्र सन्देहः शिवरात्र्यां शिवार्चनात्॥३९॥
वाचिकानि विचित्राणि मानसानि महान्ति च।
कायिकानि सहस्राणि तथा सांसर्गिकाणि च॥४०॥
भित्त्वा विमुच्यते सर्वः शिवरात्रिप्रजागरात्।
अस्थिमज्जागतं पापं सर्वजन्मान्तरैरपि॥४१॥
बुद्ध्याऽबुद्ध्या च देवेशि यदि वा वारुणीं पिवेत्।
मुच्यते नात्र सन्देहः शिवरात्रिप्रजागरात्॥४२॥
अजपित्वा हुताशी च अदाता च विमुच्यते।
यो लब्ध्वा देवि मानुष्यमल्पस्वपि च जन्मसु॥४३॥
अर्चयेदैश्वरं लिङ्गं विघ्नेशं षण्मुखं तथा।
अभीत्य शिवविद्यां च परेभ्यो न वदन्ति ये॥४४॥
विवृण्वन्ति न शृण्वन्ति तमोपहतचेतसः।
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्॥४५॥
ये निन्दन्त्यैश्वरं मार्गमाश्वर्यं धर्मदर्शनम्।
वेदांश्च शिवभक्तांश्च वैदिकाचारमेव वा॥४६॥
नश्यन्ति तानि{} पापानि शिवरात्रिप्रजागरात्।
अर्चितं शङ्करं दृष्ट्वा न नमन्त्यल्पबुद्धयः॥४७॥
येषां न राजते देवि ललाटं भस्मकैः शुभैः।
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्॥४८॥
उत्तमाङ्गे जटा येषां संसारभयनाशिनी।
प्राञ्जलि वा सदा मह्यं न नमन्ति च शोभने॥४९॥
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्।
न पश्यन्त्यैश्वरं लिङ्गं दिनं प्रत्यमरेश्वरि॥५०॥
ये तु वा नापि गच्छन्ति शिवक्षेत्रेषु मानवाः।
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्॥५१॥
ये च ब्रह्मादिभिस्तुल्यं त्वां मां लक्ष्म्या च शक्तिभिः।
गुरुं ये प्राकृतैः सार्धं संस्मरन्ति वदन्ति ये॥५२॥
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्।
पर्वमैथुन कर्तारः परदाराभिगामिनः॥५३॥
ये परित्यागसंयुक्ताः पुनः सङ्केन वाचिताः।
शिवलिङ्गं महापुण्यं ये स्पृशन्ति न ते कचित्॥५४॥
जन्मस्वनेकेषु देवि सादरं धियते न वा।
तेषां पापानि नश्यन्ति शिवरात्रिप्रजागरात्॥५५॥

वसिष्ठ उवाच

इत्येवं कथितं विप्रा{} देव्यै देवेन भाषितम्।
शिवरात्र्याश्र माहात्म्यं देवानां सन्निधौ पुरा॥५६॥
मत्पूर्वगणपाः सर्वे देवा ब्रह्मपुरःसराः।
मुनयश्च महात्मानः सनातनपुरोगमाः॥५७॥
कैलासवासिनः सर्वे मेरौ देवनिकेतने।
प्रीता बभूवुर्विप्रेन्द्राः श्रद्धां कृत्वा कुतूहलात्॥५८॥
तदाप्रभृति ब्रह्माद्याः शिवरात्रिमहाव्रतम्।
कुर्वन्ति गौरवात् सर्वे शिवस्य परमात्मनः॥५९॥
तस्मात् सर्वप्रयत्नेन कर्तव्यं तच्छिवाज्ञया।
शिवरात्रिव्रतं विप्राः{} कीर्तयेद्यः शृणोति वा॥६०॥
सर्वपापविनिर्मुक्तः शिवलोके महीयते।
यत्रेदं कीर्त्यते विप्र{} देव्या सन्निहितः शिवः॥६१॥
तत्र देवाः सगन्धर्वाः सर्किनरमहोरगाः।
तिष्ठन्त्यनुग्रहं कर्तुं शिवरात्र्यां मजागरात्॥६२॥
अस्याध्यायस्य योऽर्थज्ञः स विज्ञेयः सदाशिवः।
तं पूजयेन्महात्मानं भुक्तिमुक्तिप्रवर्तकम्॥६३॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः।
दोषैः कृतैर्न लिप्येत व्रतानुश्रवणादहो॥६४॥
कीर्तनीयमिदं सद्भिः शिवरात्र्यां विशेषतः।
सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम्॥६५॥
तत्सर्व कोटिगुणितं प्राप्नोति श्रवणादपि।
यत्पुण्यं शिवरात्र्यां वै व्याख्यानेनैव तद्भवेत्॥६६॥
यान्यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोति मानवः।
व्रतानुश्रवणादेव तत्पुण्यं लभते नरः॥६७॥

दिलीप उवाच

ऐहिकामुष्मिकाभीष्टप्रदं परमदुर्लभम्।
चतुर्थनिर्वृतेर्मार्गं चतुर्वर्गफलप्रदम्॥६८॥
शैवं व्रतं सदा शुद्धं विशेषात्पुत्रदायकम्।
तपश्चर्यापुरस्कारम् अस्माकं वद सूतज{}॥६९॥

सूत (वसिष्ठ) उवाच

व्रतानामुत्तमं विप्रा{} विशेषात्पुत्रदायकम्।
ऐहिकामुष्मिकाभीष्टमदं परमदुर्लभम्॥७०॥
शृणुध्वं{} सोमनाथस्य सौराष्ट्रपुरवासिनः।
शम्भोरुमासहायस्य सर्वमङ्गलदायिनः॥७१॥
सौराष्ट्रमिति विख्यातं नाम्ना त्रैलोक्यपूजितम्।
पुत्रकामो बहून् पुत्रान्धनमिच्छुर्धनं लभेत्॥७२॥
वन्ध्याऽपि लभते पुत्रान्कन्या सत्पतिमाप्नुयात्।
कन्यार्थी लभते कन्यां जयकामो जयं लभेत्॥७३॥
शत्रुभिर्नाभिभूयेत पुत्रपौत्रैश्च संयुतः।
पठमानो लभेत्सर्व स्वयमुद्दिश्य पठ्यते॥७४॥
नाकाले मरणं तस्य न सर्वैर्दृश्यते ततः।
न विषं क्रमते देहे जडान्धत्वं न मूकता॥७५॥
न चोत्पातभयं तस्य वृश्चिकस्य भयं तथा।
नाभिचारकृतैर्दोषैर्न लिप्येत कदाचन॥७६॥
यत्रेदं लिखितं विप्राः{} स्थापितं पूजितं यदि।
न तत्र चैकं दौर्गत्यं कदाचिदपि जायते॥७७॥

इति श्रीमहापुराणे पाद्म उत्तरखण्डे माघमाहात्म्ये वसिष्ठदिलीपसंवादे शिवरात्रिव्रताख्यानं नामैकचत्वारिंशदधिकद्विशततमोऽध्यायः॥२४१॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥