श्रीलिङ्गपुराणे उमामहेश्वरसंवादे शिवरात्रिव्रतकथा
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
लिङ्गपुराणम् — मङ्गलश्लोकः
नमो रुद्राय हरये ब्रह्मणे परमात्मने।
प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
कथा
सूत उवाच
कैलासशिखरासीनं देवदेवं जगद्गुरुम्।
पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्॥१॥
पिनाकशोभितकरं खड्गखेटकधारिणम्।
कपालखट्वाङ्गधरं नीलकण्ठसुशोभितम्॥२॥
भस्माङ्गं व्यालशोभाढ्यमस्थिमालाविभूषितम्।
नीलजीमूतसङ्काशं सूर्यकोटिसमप्रभम्॥३॥
क्रीडन्तं च शिवं तत्र गणैश्च परिवारितम्।
विसृज्य देवताः सर्वास्तिष्ठन्तं परमेश्वरम्॥४॥
तं दृष्ट्वा देवदेवेशं प्रहस्योत्फुल्ललोचनम्।
पार्वती परिपप्रच्छ विनयावनता स्थिता॥५॥
पार्वत्युवाच
कथयस्व प्रसादेन यद्गोप्यं व्रतमुत्तमम्।
श्रुतास्त्वयोक्ता देवेश व्रतानां निर्णयाः शुभाः॥६॥
तथा वै दानधर्माश्च तीर्थधर्मास्त्वयोदिताः।
नास्ति मे निश्चयो देव भ्रान्ताऽहं च पुनः पुनः॥७॥
तस्माद् वदस्व मे देव ह्येकं निःसंशयं व्रतम्।
व्रतानामुत्तमं देव भुक्तिमुक्तिप्रदायकम्॥८॥
तदहं श्रोतुमिच्छामि कथयस्व मम प्रभो।
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि{} व्रतानामुत्तमं व्रतम्॥९॥
यन्न कस्यचिदाख्यातं रहस्यं मुक्तिदायकम्।
येनैव कथ्यमानेन यमोऽपि विलयं व्रजेत्॥१०॥
तदहं कथयिष्यामि शृणुष्वैकमनाः प्रिये।
माघमासे कृष्णपक्षे अमायुक्ता चतुर्दशी{}॥११॥
शिवरात्रिस्तु सा ज्ञेया सर्वयज्ञोत्तमोत्तमा।
दानैर्यज्ञैस्तपोभिश्च व्रतैश्च विविधैरपि॥१२॥
न तीर्थैस्तद् भवेत् पुण्यं यत्पुण्यं शिवरात्रितः।
शिवरात्रिसमं नास्ति व्रतानामुत्तमं व्रतम्॥१३॥
ज्ञानतोऽज्ञानतो वाऽपि कृत्वा मोक्षमवाप्नुयात्।
मृतास्ते निरयं यान्ति यैरेषा न कृता क्वचित्॥१४॥
कृता यैर्निरयं त्यक्त्वा गतास्ते शिवसन्निधौ।
सर्वमङ्गलशीला च सर्वामङ्गलनाशिनी॥१५॥
भुक्तिमुक्तिप्रदा चैषा सत्यं सत्यं वरानने।
देव्युवाच
कथं यमपुरं त्यक्त्वा शिवलोके व्रजेन्नरः॥१६॥
एतन्मे महदाश्चर्यं प्रत्यक्षं कुरु शङ्कर।
शङ्कर उवाच
शृणु देवि यथावृत्तां कथां पौराणिकीं शुभाम्॥१७॥
यमशासनहन्त्रीं च शिवस्थानप्रदायिनीम्।
कश्चिदासीत् पुरा देवि निषादो जीवघातकः{}॥१८॥
प्रत्यन्तदेशवासी च भूधरासन्नकेतनः।
सीमान्ते स सदा तिष्ठन् कुटुम्बपरिपालकः॥१९॥
तन्वा पीनो धनुर्धारी श्यामाङ्गः कृष्णकञ्चुकः।
बद्धगोधाङ्गुलित्राणः सदैव मृगयारतः॥२०॥
एवंविधो निषादोऽसौ चतुर्दश्या दिने शुभे।
व्यवहारिकैश्च द्रव्यार्थं देवागारे प्ररोधितः॥२१॥
तेनापि देवता दृष्टा जनानां वचनं श्रुतम्।
उपवासव्रतीनां च जल्पतां शिव शिवेति च॥२२॥
दिनान्ते तैस्तदा मुक्तः प्रातर्द्रव्यं प्रदीयताम्।
ततोऽसौ धनुरादाय दक्षिणेन गतः स्वयम्॥२३॥
आगच्छन् स वनोद्देशे जनहासं चकार सः।
शिव शिव किमेतद् वै कुर्वन्ति नगरे जनाः॥२४॥
वनेचरान्निरीक्षंस्तु चतुर्दिक्षु इतस्ततः।
पदं च पदमार्गं च अन्विष्यन् सूकरान् मृगान्॥२५॥
इतश्चेतश्च धावन् वै आमिषे लुब्धमानसः।
वनं च पर्वतान् सर्वान् भ्रमित्वा गिरिकन्दराः॥२६॥
सम्प्राप्तं तेन नो किञ्चिन्मृगसूकरचित्तलम्{}।
निराशो लुब्धको यावत् तावदस्तं गतो रविः॥२७॥
चिन्तयित्वा जलोपान्ते जागरं{} जीवघातनम्।
संविधास्याम्यहं रात्रौ निश्चितं मम जीवनम्॥२८॥
तडागसन्निधौ गत्वा तत्तीरे जालिमध्यतः।
आश्रमं कर्तुमारेभे आत्मनो गुप्तिकारणात्॥२९॥
जालिमध्ये महालिङ्गं स्थितं स्वायम्भुवं शुभम्।
बिल्ववृक्षो महान् दिव्यो जालिमध्ये च संस्थितः॥३०॥
गृहीत्वा तस्य पर्णानि मार्गशुद्ध्यर्थमक्षिपत्।
क्षिप्तानि दक्षिणे भागे निपेतुर्लिङ्गमूर्धनि॥३१॥
तस्य गन्धं समासाद्य लुब्धकस्य वरानने।
न तिष्ठन्ति मृगाः सर्वे शरघातभयात् तदा॥३२॥
न दिवा भोजनं जातं संरोधस्य प्रभावतः।
मृगान्निरीक्षतो रात्रौ निद्रानाशोऽप्यजायत॥३३॥
जालिमध्ये गतस्यास्य प्रथमः प्रहरो गतः।
ततो जलार्थमायाता हरिणी गर्भसंयुता॥३४॥
यौवनस्था सुरूपा च स्तनपीना सुशोभना।
निरीक्षन्ती दिशः सर्वा भृशमुत्फुल्ललोचना॥३५॥
लुब्धकेनापि सा दृष्टा बाणगोचरमागता।
कृतं च बाणसन्धानं तेनैकाग्रेण चेतसा॥३६॥
त्रोटयित्वाऽथ पत्राणि प्रक्षिप्तानि शिवोपरि।
शिवेति संस्मरन्वादं शीतेन परिपीडितः॥३७॥
एतस्मिन्नन्तरे दृष्टो हरिण्या लुब्धकस्तदा।
लुब्धकस्तु स्वरूपेण कृतान्त इव तिष्ठति॥३८॥
दृष्ट्वा तु तस्य सन्धानं यमदंष्ट्रासमप्रभम्।
मृगी सा दिव्यया वाचा लुब्धकं वाक्यमब्रवीत्॥३९॥
मृग्युवाच
स्थिरो भव महाव्याध सर्वजीवनिकृन्तन।
कथयस्व महाबाहो किमर्थं मां हनिष्यसि॥४०॥
शिव उवाच
तस्यास्तद्वचनं श्रुत्वा लुब्धकः प्राह तां मृगीम्।
लुब्धक उवाच
समातृकं कुटुम्बं मे क्षुधया पीड्यते भृशम्॥४१॥
धनं वै मद्गृहे नास्ति तेन त्वां हन्मि शोभने।
सूत उवाच
याम{}पूजाप्रभावेण जागरोपोषणेन च॥४२॥
चतुर्थांशेन पापानां विमुक्तो लुब्धकस्तदा।
लुब्धकस्तु ततो दृष्ट्वा मृगी मानुषभाषिणीम्॥४३॥
उवाच वचनं तां वै धर्मयुक्तमसंशयम्।
लुब्धक उवाच
मया हि घातिता जीवा उत्तमाधममध्यमाः॥४४॥
न श्रुता ईदृशी वाणी श्वापदानां कथञ्चन।
कस्मिन् देशे त्वमुत्पन्ना कस्मात् स्थानादिहाऽऽगता॥४५॥
कथयस्व प्रयत्नेन परं कौतूहलं हि मे।
मृग्युवाच
शृणु त्वं लुब्धकश्रेष्ठ कथयामि तवाखिलम्॥४६॥
आसं पूर्वमहं रम्भा स्वर्गे शक्रस्य चाप्सराः।
अनन्तरूपलावण्या सौभाग्येन च गर्विता॥४७॥
सौभाग्यमदपुष्टाङ्गो दानवो बलगर्वितः।
मयैव च वृतो भर्ता हिरण्याक्षो महासुरः॥४८॥
तेन सार्धं मया भुक्तं चिरकालं यथेप्सितम्।
एवं कालो गतो व्याध क्रीडन्त्या मेऽसुरेण च॥४९॥
एकदा प्रेक्षितुं नृत्यं शङ्करस्य गताग्रतः।
यावद् गच्छाम्यहं तत्र तावन्मां शङ्करोऽब्रवीत्॥५०॥
क्व गता त्वं वरारोहे केन वा सङ्गता शुभे।
किं वा सौभाग्यगर्वेण नाऽऽयाता मम मन्दिरम्॥५१॥
सत्यं कथय शीघ्रं त्वं नो वा शापं ददामि ते।
शापभीत्या मया तत्र सत्यमुक्तं शिवाग्रतः॥५२॥
शृणु देव प्रवक्ष्यामि शापानुग्रहकारक।
ममास्ति भर्ता विश्वेश दानवेन्द्रो महाबलः॥५३॥
तेन सार्धं मया देव क्रीडितं निजमन्दिरे।
तेनाहं नाऽऽगमं शीघ्रं सृष्टिसंहारकारक॥५४॥
रुद्रस्तद्वचनं श्रुत्वा सकोपो वाक्यमब्रवीत्।
मृगः कामातुरो नित्यं हिरण्याक्षो भविष्यति॥५५॥
त्वं मृगी तस्य भार्या वै भविष्यसि न संशयः।
त्यक्त्वा{} स्वर्गं तथा देवान् दानवं भोक्तुमिच्छसि॥५६॥
तस्मात् त्वं निर्जले देशे तृणाहारा भविष्यसि।
द्वादशाब्दानि भो भद्रे भविता शाप एष ते॥५७॥
परस्परस्य शोकेन शापान्तोऽपि भविष्यति।
अनुग्रहः पुनस्त्वेष शङ्करेण कृतः स्वयम्॥५८॥
कदाचिद्धि व्याधवरो मम सान्निध्यमाश्रितः।
बाणाग्रे तस्य सम्प्राप्ता पूर्वजन्म स्मरिष्यसि॥५९॥
शङ्करस्य तदा रूपं दृष्ट्वा मोक्षमवाप्स्यसि।
शङ्करो न मया दृष्टो वसन्त्यस्मिन् महावने॥६०॥
तेन दुःखमनुप्राप्ता मांसमेदोविवर्जिता।
गर्भाक्रान्ता विशेषेण न वध्या चेति निश्चितम्॥६१॥
सकुटुम्बस्य ते नूनं भोजनं न भविष्यति।
आयास्यति मृगी त्वन्या मार्गेणानेन लुब्धक॥६२॥
पीना यौवनसम्पन्ना बहुमांसा मदोद्धता।
भोजनं सकुटुम्बस्य तया सद्यो भविष्यति॥६३॥
अथवाऽन्यो मृगो व्याध पानार्थं तु जलाशये{}।
आगमिष्यति प्रत्यूषे क्षुधार्तस्य न संशयः॥६४॥
गर्भं त्यक्त्वा पुनः प्रातर्बालान् सन्दिश्य बन्धुषु।
शपथैरागमिष्यामि सन्दिश्य च सखीजनम्॥६५॥
तस्यास्तद्वचनं श्रुत्वा व्याधो विस्मयमागतः।
क्षणमेकं तथा स्थित्वा व्याधो वचनमब्रवीत्॥६६॥
नाऽऽगमिष्यति चेदन्यो जीव{}स्त्वमपि गच्छसि।
क्षुधया पीडितोऽहं वै कुटुम्बं च विशेषतः॥६७॥
प्रातस्त्वया मम गृहमागन्तव्यं यथायथम्।
शपथैश्च व्रज त्वं हि यथा मे प्रत्ययो भवेत्॥६८॥
पृथिवी वायुरादित्यः सत्ये तिष्ठन्ति देवताः।
पालनीयं ततः सत्यं लोकद्वयमभीप्सुभिः॥६९॥
तस्मात् सत्येन गन्तव्यं भवत्या स्वगृहं प्रति।
तस्य तद्वचनं श्रुत्वा गर्भार्ता सा मृगी तदा॥७०॥
चक्रे सत्यप्रतिज्ञां वै व्याधस्याग्रे पुनः पुनः।
मृग्युवाच
द्विजो भूत्वा तु यो व्याध वेदभ्रष्टोऽभिजायते॥७१॥
स्वाध्यायसन्ध्यारहितः सत्यशौचविवर्जितः।
अविक्रेयाणां विक्रेता अयाज्यानां च याजकः॥७२॥
{}तस्य पापेन लिप्यामि यद्यहं नाऽऽगमं पुनः।
दुष्टबुद्धौ तु यत्पापं धूर्ते वा ग्रामकण्टके॥७३॥
नास्तिके च विशीले च परदाररते तथा।
वेदविक्रयणे चैव शवसूतकभोजने॥७४॥
तेन पापेन लिप्यामि यद्यहं नाऽऽगमं पुनः।
मृतशय्याप्रतिग्राहे माता पित्रोरपालके॥७५॥
तेन पापेन लिप्यामि यदि नाऽऽयामि तेऽन्तिकम्।
दानं दातुं प्रवृत्तस्य योऽन्तरायकरो नरः॥७६॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
देवद्रव्यं गुरुद्रव्यं ब्रह्मद्रव्यं हरेत्तु यः॥७७॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
दीपं दीपेन यः कुर्यात्पादं पादेन धावयेत्॥७८॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
भर्तारं स्वामिनं मित्रमात्मानं बालमेव च॥७९॥
गां विप्रं च गुरुं नारीं यो मारयति दुर्मतिः।
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्॥८०॥
अवैष्णवे च यत्पापं यत्पापं दाम्भिके जने।
अजितेन्द्रियेषु यत्पापं परदोषानुकीर्तने॥८१॥
कृतघ्ने च कदर्ये च परदाररते तथा।
सदाचारविहीने च परपीडाप्रदायके॥८२॥
परपैशुन्ययुक्ते च कन्याविक्रयकारके।
हैतुके बकवृत्तौ च कूटसाक्ष्यप्रदे तथा॥८३॥
एतेषां पातकं मह्यं यदि नाऽऽयामि ते गृहम्।
यत्पापं ब्रह्महत्यायां पितृमातृवधे तथा॥८४॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
यत्पापं लुब्धकानां च यत्पापं गरदायिनाम्॥८५॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
द्विभार्यः पुरुषो यस्तु समदृष्ट्या न पश्यति॥८६॥
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
सकृद् दत्त्वा तु यः कन्यां द्वितीयाय प्रयच्छति॥८७॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
कथायां कथ्यमानायामन्तरं कुरुते नरः॥८८॥
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
पतिनिन्दापरो नित्यं वेदनिन्दापरो हि यः॥८९॥
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
यस्य सङ्ग्रहणी भार्या ब्राह्मणी च विशेषतः॥९०॥
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
प्रेतश्राद्धे तु यो भुङ्क्ते पतिते बहुयाजके॥९१॥
असच्छास्त्रार्थनिपुणज्ञपुराणार्थविवर्जिते।
मूर्खे पाखण्डनिरते क्रयविक्रयिके द्वये॥९२॥
एतेषां पातकं मह्यं यदि नाऽऽयामि ते गृहम्।
एकाकी मिष्टमश्नाति भार्यापुत्रविवर्जितः॥९३॥
आत्मजां गुणसम्पन्नां समाने सदृशे वरे।
न प्रयच्छति यः कन्यां नरो वै ज्ञानदुर्बलः॥९४॥
तेन पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
मृगीवाक्यं ततः श्रुत्वा लुब्धको हृष्टमानसः॥९५॥
संहृत्य बाणं सन्धानान्मुमोच हरिणीं तदा।
तस्या मुक्तिप्रभावेण लिङ्गस्यापि प्रपूजनात्॥९६॥
मुक्तोऽसौ पातकैः सर्वैस्तत्क्षणान्नात्र संशयः।
द्वितीये प्रहरे प्राप्ते मध्यरात्रे वरानने॥९७॥
तस्मिन्नेव क्षणे प्राप्ता कामार्ता मृगसुन्दरी।
सन्त्रस्ता भयसंविग्ना पतिमन्वेष्यती मुहुः॥९८॥
जालिमध्ये स्थितेनाथ दृष्टा सा लुब्धकेन तु।
पुनर्वृक्षस्य पत्राणि त्रोटयित्वा करेण तु॥९९॥
क्षिप्तानि दक्षिणे भागे लिङ्गोपरि दिदृक्षया।
तस्या वधार्थं तेनाथ बाणो धनुषि सन्धितः॥१००॥
तिष्ठस्तत्रैकचित्तेन कुटुम्बार्थं जिघांसया।
निरीक्ष्य लुब्धको यावद्बाणं तस्यां विमुञ्चति॥१०१॥
तावन्मृग्या स सन्दृष्टो दृष्ट्वा तं विह्वलाऽभवत्।
अद्यैव भगिनी मे हि लुब्धकेन विनाशिता॥१०२॥
मम किं जीवितव्येन तस्या दुःखेन पीडिता।
वरो मृत्युर्न शोको वै दृष्ट्वा व्याधं विशेषतः॥१०३॥
एवं सञ्चिन्त्य हरिणी लुब्धकं वाक्यमब्रवीत्।
हरिण्युवाच
धनुर्धरवर व्याध सर्वजीवनिकृन्तन॥१०४॥
देहि मे वचनं चैकं पश्चात् त्वं मां निपातय।
आयाता हरिणी चैका मार्गेणानेन लुब्धक॥१०५॥
समायाताऽथ वा नैव सत्यं कथय सुव्रत।
तच्छ्रुत्वा लुब्धकस्तत्र विस्मितः क्षणमैक्षत॥१०६॥
तस्यास्तु यादृशी वाणी अस्याश्चैव तु तादृशी।
सैवेयमागता नूनं प्रतिज्ञापालनाय च॥१०७॥
अथवाऽन्या समायाता या तया कथिता पुरा।
एवं सञ्चिन्त्य मनसा लुब्धको वाक्यमब्रवीत्॥१०८॥
लुब्धक उवाच
शृणु त्वं मृगि मे वाक्यं गता सा निजमन्दिरम्।
त्वां दत्त्वा मम नूनं हि सा भवेत् सत्यवागपि॥१०९॥
अहोरात्रं कृतं कष्टं कुटुम्बार्थे मया मृगि।
अधुना त्वां हनिष्यामि देवतास्मरणं कुरु॥११०॥
व्याधोक्तं वचनं श्रुत्वा हरिणी दुःखिता भृशम्।
व्याधं प्राह रुदित्वा वै मा मां व्याध निपातय॥१११॥
तेजो बलं तथा सर्वं निर्दग्धं विरहाग्निना।
अहं च दुर्बला नूनं मेदो मांसविवर्जिता॥११२॥
केवलं पापभाक् त्वं हि मम प्राणविमोचकः।
अहं प्राणैर्वियुज्यामि भोजनं ते न जायते॥११३॥
बलवांश्च महातेजा मेदोमांससमन्वितः।
अन्यश्च पीनगौराङ्गो मृगो ह्यत्राऽऽगमिष्यति॥११४॥
तं हत्वा ते कुटुम्बस्य तृप्तिर्नूनं भविष्यति।
अथवा त्वद्गृहं प्रातरागमिष्यामि लुब्धक॥११५॥
तयोक्तं लुब्धकः श्रुत्वा किं करोमीत्यचिन्तयत्।
सञ्चिन्त्य लुब्धकः प्राह मृगीं शोकातुरां कृशाम्॥११६॥
सत्यं वद महाभागे प्रत्ययो मे यथा भवेत्।
तस्य तद्वचनं श्रुत्वा हरिणी दुःखकर्शिता॥११७॥
चक्रे सत्यप्रतिज्ञां तु व्याधस्याग्रे पुनः पुनः।
मृग्युवाच
क्षत्रियस्तु रणं दृष्ट्वा तस्माद्यो विनिवर्तते॥११८॥
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
भेदयन्ति तडागानि वापीश्चाथ गवामपि॥११९॥
मार्गं स्थानं च ये घ्नन्ति सर्वसत्त्वभयङ्कराः।
तेषां वै पातकं मह्यं यदि नाऽऽयामि ते गृहम्॥१२०॥
एतच्छ्रुत्वा तु व्याधेन साऽपि मुक्ता मृगी तदा।
जलं पीत्वा तु बहुशो गता सद्यो यथाऽऽगतम्॥१२१॥
जालिमध्ये स्थितस्यास्य द्वितीयः प्रहरो गतः।
त्रोटित्वा बिल्वपत्राणि पुनर्देवे न्ययोजयत्॥१२२॥
पीडितोऽतीव शीतेन क्षुधया गृहचिन्तया।
शिव शिवेति जल्पन् वै न निद्रामुपलब्धवान्॥१२३॥
कृतं शिवार्चनं तेन तृतीये प्रहरेऽपि च।
वीक्षते स्म दिशः सर्वा जीवनार्थं वरानने॥१२४॥
लुब्धकेनाथ दृष्टोऽसौ हरिणश्चञ्चलेक्षणः।
विलोकयन् दिशः सर्वा मार्गमाणो मृगीपदम्॥१२५॥
सौभाग्यबलदर्पाढ्यो मदनोन्मत्तपीवरः।
तं दृष्ट्वा बाणमाकृष्य ह्याकर्णं तुष्टमानसः॥१२६॥
बाणं मुञ्चति यावद् वै तावद् दृष्टो मृगेण तु।
कालरूपं तु तं दृष्ट्वा मृगश्चिन्तितवान् भृशम्॥१२७॥
निश्चितं भविता मृत्युर्गोचरेऽस्य गतो यतः।
भार्या प्राणसमा मेऽद्य व्याधेनेह निपातिता॥१२८॥
तया विरहितस्याद्य नूनं मृत्युर्भविष्यति।
हा हा कालकृतं पापं यद्भार्यादुःखमागता॥१२९॥
भार्यया न समं सौख्यं गृहेऽपि च वनेऽपि च।
तया विना न धर्मोऽस्ति नार्थकामौ विशेषतः॥१३०॥
वृक्षमूलेऽपि दयिता यत्र तिष्ठति तद्गृहम्।
प्रासादोऽपि तया हीनः कान्तारादतिरिच्यते॥१३१॥
धर्मकामार्थकार्येषु भार्या पुंसः सहायिनी।
विदेशे च गतस्यापि सैव विश्वासकारिणी॥१३२॥
नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमं सुखम्।
नास्ति भार्यासमं लोके नरस्याऽऽर्तस्य भेषजम्॥१३३॥
यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम्॥१३४॥
एका प्राणसमा मेऽभूद् द्वितीया प्राणदा मम।
भार्याविरहितस्याद्य जीवितं मम निष्फलम्॥१३५॥
इत्येवं चिन्तयित्वा तु लुब्धकं वाक्यमब्रवीत्।
मृग उवाच
शृणु व्याध नरश्रेष्ठ ह्यामिषाहारभोजन॥१३६॥
यत्ते पृच्छाम्यहं वीर तत् सत्यं वद मे प्रभो।
आगतं हरिणीयुग्मं केन मार्गेण तद्गतम्॥१३७॥
त्वया विनाशितं वाऽथ सत्यं कथय मेऽधुना।
तस्य तद्वचनं श्रुत्वा लुब्धको विस्मयं गतः॥१३८॥
असावपि न सामान्यो देवता काऽप्यनुत्तम।
उवाच लुब्धकः सद्यस्तस्याग्रे वाक्यमुत्तमम्॥१३९॥
लुब्धक उवाच
ते गतेऽनेन मार्गेण सत्यं कृत्वा ममाग्रतः।
ताभ्यां दत्तोऽसि भुक्त्यर्थं मम त्वमधुनाऽनघ॥१४०॥
सम्प्रति त्वं हनिष्यामि नैव मोक्ष्यामि कर्हिचित्।
व्याधोक्तं हि वचः श्रुत्वा हरिणः प्राह सत्वरम्॥१४१॥
मृग उवाच
तत्सत्यं कीदृशं ताभ्यां वाक्यमुक्तं तवाग्रतः।
येन ते प्रत्ययो जातो मुक्तं तद्धरिणीद्वयम्॥१४२॥
ते गते केन मार्गेण ये मुक्ते व्याध तेऽधुना।
व्याध उवाच
ते गतेऽनेन मार्गेण स्वमाश्रमपदं प्रति॥१४३॥
व्याधेन कथितास्ताभ्यां शपथा ये कृतास्तदा।
तच्छ्रुत्वा वचनं तस्य हरिणो हृष्टमानसः॥१४४॥
व्याधं प्राह ततः शीघ्रं वचनं धर्मसंहितम्।
मृग उवाच
ताभ्यां व्याध यदुक्तं च तत्करोमि न चान्यथा॥१४५॥
प्रभाते त्वद्गृहं नूनमागमिष्यामि निश्चितम्।
भार्या ऋतुमती मेऽद्य कामार्ताऽप्यधुना भृशम्॥१४६॥
गत्वा गृहेऽथ भुक्त्वा तामापृच्छ्य च सुहृज्जनान्।
शपथैरागमिष्यामि गृहं ते नात्र संशयः॥१४७॥
न मद्देहेऽस्त्यसुङ्मांसं यत्त्वं भोक्तुमभीप्ससि।
तद्वृथा मरणं मेऽस्माद्यदि मां त्वं हनिष्यसि॥१४८॥
तन्मृगस्य वचः श्रुत्वा व्याधो वचनमब्रवीत्।
लुब्धक उवाच
असत्यं भाषसे धूर्त प्रतारयसि मां वृथा॥१४९॥
ज्ञातो मृत्युः स्फुटं यत्र तत्र गच्छति कोऽल्पधीः।
व्याधस्य वचनं श्रुत्वा हरिणो वाक्यमब्रवीत्॥१५०॥
शपथैरागमिष्यामि यथा ते प्रत्ययो भवेत्।
व्याध उवाच
मृग त्वं शपथान् ब्रूहि विश्वासो मे भवेद् यथा॥१५१॥
यथा हि प्रेषयामि त्वां स्वगृहं प्रति कामुक।
मृग उवाच
भर्तारं वञ्चयेद्या स्त्री स्वामिनं वञ्चयेन्नरः॥१५२॥
मित्रं च वञ्चयेद्यस्तु गुरुद्रोहं करोति यः।
विषमं तु{} रसं दद्यात् प्रेमभेदं करोति यः॥१५३॥
भेदयेद्यस्तडागानि प्रासादं पातयेत् तथा।
प्रवासशीलो यो विप्रः क्रयविक्रयकारकः॥१५४॥
सन्ध्यास्नानविहीनश्च वेदशास्त्रविवर्जितः।
मद्यपाः स्त्रीषु रक्ता ये परनिन्दारताश्च ये॥१५५॥
परस्त्री सेवका विप्राः परपैशून्यसूचकाः।
शूद्रान्नभोजिनो ये च भार्यापुत्रांस्त्यजन्ति ये॥१५६॥
वेदनिन्दापरा ये च वेदशास्त्रार्थनिन्दकाः।
तेषां वै पातकं मह्यं यदि नाऽऽयामि ते गृहम्॥१५७॥
भार्या सङ्ग्रहणी यस्य व्रतशौचविवर्जिता।
सर्वाशी सर्वविक्रेता द्विजानामपि निन्दकः॥१५८॥
त्रिषु वर्णेषु शुश्रूषां यः शूद्रो न करोति वै।
विप्रवाक्यं परित्यज्य पाखण्डाभिरतः सदा॥१५९॥
ब्रह्मचर्यरताः शूद्रा ये च पाखण्डसंश्रिताः।
तेषां वै पातकं मह्यं यदि नाऽऽयामि ते गृहम्॥१६०॥
तिलांस्तैलं घृतं क्षौद्रं लवणं सगुडं तथा।
लोहं लाक्षादिकं सर्वं रङ्गान्नानाविधानपि॥१६१॥
मद्यं मांसं विषं दुग्धं नीलं च वृषभं तथा।
मीनं क्षीरं सर्पकूटं चित्रातकफलानि च॥१६२॥
विक्रीणीते द्विजो यस्तु तस्य पापं भवेन्मम।
आदित्यं विष्णुमीशानं गणाध्यक्षं तु पार्वतीम्॥१६३॥
एतांस्त्यक्त्वा गृहे मूढो योऽन्यं पूजयते नरः।
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्॥१६४॥
यो गां स्पृशति पादेन ह्युदितेऽर्के च सुप्यति।
एकाकी मिष्टमश्नाति तस्य पापस्य भागहम्॥१६५॥
मातापित्रोरपोष्टा च क्रियामुद्दिश्य{} पाचकः।
कन्याशुल्कोपजीवी च देवब्राह्मणनिन्दकः॥१६६॥
गोग्रासं हन्तकारं च अतिथीनां च पूजनम्।
ये न कुर्वन्ति गृहिणस्तेषां पापं भवेन्मम॥१६७॥
वृन्ताकं च पटोलं च कलिङ्ग तुम्बिकाफलम्।
मूलकं लशुनं कन्दं कुसुम्भं कालशाककम्॥१६८॥
एतानि भक्षयेद्यस्तु नरो वै ज्ञानदुर्बलः।
न यस्य जायते शुद्धिश्चान्द्रायणशतैरपि॥१६९॥
एतस्य पातकं मह्यं यदि नाऽऽयामि ते गृहम्।
यः पठेत् स्वरहीनं च लक्षणेन विवर्जितम्॥१७०॥
रथ्यां पर्यटमानस्तु वेदानुद्गिरयेत्तु यः।
विप्रस्य पठतो यस्य शृणोति यदि चान्त्यजः॥१७१॥
वेदोपजीवको विप्रोऽतिलोभाच्छूद्रभोजनः।
तस्य पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्॥१७२॥
शूद्रान्नेषु च ये सक्ताः शूद्रसम्पर्कदूषिताः।
तेषां पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्॥१७३॥
लेखकश्चित्रकर्ता च वैद्यो नक्षत्रसूचकः।
कूटकर्ता द्विजो यश्च तस्य पापस्य भागहम्॥१७४॥
कूटसाक्षी मृषावादी परद्रव्यस्य तस्करः।
परदाराभिगामी च तथा विश्वासघातकः॥१७५॥
द्रव्ये द्रव्यं विनिक्षिप्य पानकूटं समाश्रितः।
वेश्यारताः सदा ये च दानदातुर्निवारकाः॥१७६॥
भर्तारमर्थहीनं च कुरूपं व्याधिपीडितम्।
या न पूजयते नारी रूपयौवनगर्विता॥१७७॥
एकादशीं तथा माघे कृष्णे शिवचतुर्दशीम्।
पूर्वविद्धां प्रकुर्वन्ति तेषां पापस्य भागहम्॥१७८॥
अथ किं बहुनोक्तेन भो लुब्धक तवाग्रतः।
यदि नाऽऽयामि ते गेहं ममासत्यं भवेत् तदा॥१७९॥
तेन वाक्येन सन्तुष्टो व्याधो वै वीतकल्मषः।
संहृत्य धनुषो बाणं मृगो मुक्तो गृहं प्रति॥१८०॥
जलं पीत्वा तु हरिणः प्रविष्टो गहनं प्रति।
गतोऽसौ तेन मार्गेण गतं येन मृगीद्वयम्॥१८१॥
लुब्धकेन तदा तत्र जालिमध्ये स्थितेन हि।
प्रत्यूषे बिल्वपत्राणि त्रोटयित्वोज्झितानि वै॥१८२॥
शिव शिवेति जल्पन् वै ह्याशु यातो निजाश्रमम्।
अथोदिते सूर्यबिम्बे अकामाज्जागरे कृते॥१८३॥
पापान्मुक्तोऽप्यसौ सद्यः शिवपूजाप्रभावतः।
यावद्दिशो निरीक्षेत निराशो भोजनं प्रति॥१८४॥
तावच्छशुवृता चान्या मृगी तत्र समागता।
दृष्ट्वा मृगी तदा व्याधो बाणं धनुषि योजयन्॥१८५॥
यावन्मुञ्चत्यसौ बाणं तावत् प्रोवाच तं मृगी।
मा बाणान्मुञ्च धर्मात्मन् धर्मं मा मुञ्च सुव्रत॥१८६॥
अहं न वध्या सर्वेषामिति शास्त्रविनिश्चयः।
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः॥१८७॥
न हन्तव्यो मृगो राज्ञा मृगी च शिशुना वृता।
अथवा धर्ममुत्सृज्य मां हनिष्यसि मानद॥१८८॥
बालकं स्वगृहे मुक्त्वा सखीनां च निवेद्य वै।
शपथैरागमिष्यामि शृणु व्याध वचो मम॥१८९॥
या स्वभर्तारमुत्सृज्य परे पुंसि रता सदा।
तस्याः पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्॥१९०॥
मद्यं मांसं विषं दुग्धं नीलीं कुम्भफलानि च।
एतानि विक्रयेद्यस्तु नरो मोहसमन्वितः॥१९१॥
तेषां पापेन लिप्यामि यदि नाऽऽयामि ते गृहम्।
ये कृताः शपथाः पूर्वं तवाग्रे व्याधसत्तम॥१९२॥
ते सर्वे मम सन्त्यत्र यदि नायाम्यहं पुनः।
तस्यास्तद्वचनं श्रुत्वा व्याधो विस्मयमागमत्॥१९३॥
ततो व्याधेन सा युक्ता गता वै निजमन्दिरम्।
व्याधोऽपि तत्स्थलं त्यक्त्वा जगाम स्वगृहं प्रति॥१९४॥
सर्वेषां वचनं ध्यायन्मृगाणां सत्यवादिनाम्।
एतेषां घातको नित्यमहं यास्यामि कां गतिम्॥१९५॥
एवं चिन्तयता गेहे दृष्टाः क्षुधितबालकाः।
नान्नं मांसं गृहे तस्य भोजनं येन जायते॥१९६॥
निरामिषं तु तं दृष्ट्वा निराशास्तेऽभवंस्तदा।
व्याधोऽपि च तदा तत्र तेषां वाक्यानि संस्मरन्॥१९७॥
न भोजनं न निद्रां च लभते विस्मयान्वितः।
आगमिष्यन्ति ते नूनं शपथैरतियन्त्रिताः॥१९८॥
न तानहं वधिष्यामि सतां व्रतमनुस्मरन्।
लुब्धकेन तदा मुक्तो हरिणः शपथैः कृतैः॥१९९॥
स्वमाश्रमं तु सम्प्राप्तो यत्र तद्धरिणीद्वयम्।
सद्यः प्रसूता सा चैका द्वितीया रतिलालसा॥२००॥
तृतीयाऽपि समायाता बालकैर्बहुभिर्वृता।
सर्वाः समेता एकत्र मरणे कृतनिश्चयाः॥२०१॥
परस्परं प्रजल्पन्त्यो लुब्धकस्य विचेष्टितम्।
सार्तवां हरिणीं भुक्त्वा रूपाढ्यां रतिलालसाम्॥२०२॥
कृतकृत्योऽभवत्ताभिस्ततो वाक्यमथाब्रवीत्।
युष्माभिरिह संस्थेयं कर्तव्यं प्राणरक्षणम्॥२०३॥
व्याघ्राद् द्विपाल्लुब्धकेभ्यो बालकानां प्रयत्नतः।
अहमत्र समायातः शपथैरतियन्त्रितः॥२०४॥
अस्या ऋतुप्रदानाय पुनः सन्तानहेतवे।
ऋतुमतीं तु यो भार्या न भुङ्क्ते मोहसंवृतः॥२०५॥
भ्रूणहा सन्तु विज्ञेयस्तस्य जन्म निरकर्थम्।
सन्तानात् स्वर्गमाप्नोति इह कीर्तिं च शाश्वतीम्॥२०६॥
सन्ततिर्यत्नतः पाल्या स्वर्गसौख्यप्रदायिका।
अपुत्रस्य गतिर्नास्ति इह लोके परत्र च॥२०७॥
येन केनाप्युपायेन पुत्रमुत्पादयेत्पुमान्।
मया च तत्र गन्तव्यं यत्र व्याधस्य मन्दिरम्॥२०८॥
सत्यं तु पालनीयं स्यात् सत्ये धर्मः प्रतिष्ठितः।
एतच्छ्रुत्वा तु ता नार्यो वाक्यमूचुः सुदुःखिताः॥२०९॥
वयमप्यागमिष्यामस्त्वया सार्धं मृगोत्तम।
तथा ते विप्रियं कान्त न स्मरामः कदाचन॥२१०॥
पुष्पितेषु वनान्तेषु नदीनां सङ्गमेषु च।
कन्दरेषु च शैलानां भवता रमिता वयम्॥२११॥
न कार्यमप्यतः कान्त जीवितेन त्वया विना।
नारीणां पतिहीनानां जीवितैः किं प्रयोजनम्॥२१२॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः।
अमितस्य हि दातारं भर्तारं का न पूजयेत्॥२१३॥
अपि द्रव्ययुता नारी बहुपुत्रसुहृद्वृता।
सा शोच्या बन्धुवर्गस्य पतिहीनकुलाङ्गना॥२१४॥
वैधव्यसदृशं दुःखं स्त्रीणामन्यन्न विद्यते।
धन्यास्ता योषितो यास्तु म्रियन्ते भर्तुरग्रतः॥२१५॥
नातन्त्री वाद्यते वीणा नाचक्रो भ्रमते रथः।
नापतिः सुखमाप्नोति नारी पुत्रशतैर्वृता॥२१६॥
नास्ति भर्तृसमो धर्मो नास्ति धर्मसमः सुहृत्।
नास्ति भर्तृसमो नाथः स्त्रीणां भर्ता परा गतिः॥२१७॥
एवं विलिप्य ताः सर्वा मरणे कृतनिश्चयाः।
बालकैस्तैः समायुक्ता भतृशोकेन दुःखिताः॥२१८॥
मृगस्तासां वचः श्रुत्वा हदि चिन्तापरोऽभवत्।
गन्तव्यं किं न गन्तव्यं मया व्याधस्य मन्दिरम्॥२१९॥
एकतस्तु कृतं रक्षन् कुटुम्बस्य{} क्षयो भवेत्।
तदन्तिकं न चेद्यामि मम सत्यं क्षयं व्रजेत्॥२२०॥
वरं पुत्रस्य मरणं भार्याया आत्मनस्तथा।
सत्ये त्यक्ते नरो नित्यमाकल्पं रौरवं व्रजेत्॥२२१॥
तस्मात् सत्यं पालनीयं नरैः श्रेयोर्थिभिः सदा।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः॥२२२॥
सत्येन वायवो वान्ति सत्येन वर्धते परम्।
एवं सञ्चिन्त्य हरिणी धर्मान् हृदि मनोरमान्॥२२३॥
ताभिः सहैव शनकैः क्षणात् तस्याश्रमं ययौ।
तस्मिन् सरसि स स्नात्वा कर्मन्यासं चकार ह॥२२४॥
तल्लिङ्गं प्रणिपत्याशु हृदि ध्यायन् सदाशिवम्।
भक्ष्यं पानं परित्यज्य मैथुनं भोगमेव च॥२२५॥
कामं क्रोधं तथा लोभं मायां मोक्षविनाशिनीम्।
वन्दयित्वा{} तु तं देवं लुब्धकाभिमुखं ययौ॥२२६॥
तस्य भार्याश्च पुत्राश्च मरणे कृतनिश्चयाः।
अनशनं व्रतं गृह्य पृष्ठलग्नाः समाययुः॥२२७॥
भार्यापुत्रैः परिवृतो मृगस्तं देशमागमत्।
क्षुधितैर्बालकैर्युक्तो लुब्धको यत्र तिष्ठति॥२२८॥
मृगस्तं देशमागत्य कुटुम्बेन समन्वितः।
पालयन् सर्ववाक्यानि{} लुब्धकं वाक्यमब्रवीत्॥२२९॥
मृग उवाच
हन्या मां प्रथमं व्याध पश्चाद्भार्याः क्रमेण तु।
बालकानि ततः पश्चाद्धन्यतां मा विलम्बय॥२३०॥
लुब्धकैस्तु मृगा भक्ष्या नास्ति दोषः कदाचन।
वयं यास्याम स्वर्लोकं सत्यपूता न संशयः।
तवापि सकुटुम्बस्य प्राणपुष्टिर्भविष्यति॥२३१॥
एतच्छ्रुत्वा तु वचनं मृगोक्तं लुब्धकस्तदा।
आत्मानं निन्दयित्वा तु हरिणं वाक्यमब्रवीत्॥२३२॥
व्याध उवाच
अहो मृग महासत्त्व गच्छ गच्छ स्वमाश्रमम्।
आमिषेण न मे कार्यं यद्भाव्यं तद्भविष्यति॥२३३॥
जीवानां घातने पापं बन्धने तर्जने तथा।
नैव पापं करिष्यामि कुटुम्बार्थे कदाचन॥२३४॥
त्वं गुरुर्मम धर्माणामुपदेष्टा मृगोत्तम।
गच्छ गच्छ मृगश्रेष्ठ कुटुम्बेन समन्वितः॥२३५॥
मया त्यक्तानि शस्त्राणि सत्यधर्मः समाश्रितः।
तद् व्याधवचनं श्रुत्वा हरिणः प्राह तं पुनः॥२३६॥
मृग उवाच
कर्मन्यासमहं कृत्वा त्वत्सकाशमिहागतः।
हन्यतां हन्यतां शीघ्र न ते पापं भविष्यति॥२३७॥
मया दत्ता पुरा वाक्यं तया बद्धो न याम्यहम्।
मया मम कुटुम्बेन त्यक्तो लोभं स्वजीवने॥२३८॥
एतच्छ्रुत्वा तु वचनं लुब्धको वाक्यमब्रवीत्।
लुब्धक उवाच
त्वं बन्धुस्त्वं गुरुस्त्राता त्वं मे माता पिता सुहृत्॥२३९॥
मया त्यक्तानि शस्त्राणि त्यक्तं मायादिकं बलम्।
कस्य भार्या सुताः कस्य कुटुम्बं कस्य तन्मृग॥२४०॥
तैः स्वकर्म च भोक्तव्यं मृग गच्छ यथासुखम्।
इत्युक्त्वा स तदा तूर्णं बभञ्ज सशरं धनुः॥२४१॥
मृगं प्रदक्षिणीकृत्य नमस्कृत्य क्षमापयत्।
एतस्मिन्नन्तरे नेदुर्देवदुन्दुभयो दिवि॥२४२॥
आकाशात् पुष्पवृष्टिस्तु पपात सुमनोहरा।
तदा दूतः समायातो विमानं गृह्य शोभनम्॥२४३॥
देवदूत उवाच
अहो व्याध महासत्त्व सर्वसत्त्वक्षयङ्कर।
विमानमिदमारुह्य सदेहः स्वर्गमाविश॥२४४॥
शिवरात्रिप्रभावेण पातकं ते क्षयं गतम्।
उपवासस्तु सञ्जातो निशि जागरणं कृतम्॥२४५॥
यामे यामे कृता पूजा अज्ञानेन शिवस्य च।
सर्वपापविनिर्मुक्तो गच्छ त्वं रुद्रमन्दिरम्॥२४६॥
विमानं च समारुह्य सद्यः शिवपदं व्रज।
मृगराज महासत्व भार्यापुत्रसमन्वितः॥२४७॥
भार्यात्रितयसंयुक्तो नक्षत्रपदमाप्नुहि।
तव नाम्ना तु तद् वृक्षं लोके ख्यातं भविष्यति॥२४८॥
एतच्छ्रुत्वा तु वचनं लुब्धकोऽथ मृगस्तथा।
विमानानि समारुह्य नाक्षत्रं पदमागताः॥२४९॥
हरिणीद्वयमन्वेनं पृष्ठतो मृगमेव च।
तारात्रितयसंयुक्तं मृगशीर्षं तदुच्यते॥२५०॥
बालकद्वितयं चाग्रे तृतीया पृष्ठतो मृगी।
पृष्ठतस्तत्र सम्प्राप्ता मृगशीर्षस्य सन्निधौ॥२५१॥
मृगराड् दृश्यतेऽद्यापि ऋक्षं व्योमगमुत्तमम्।
उपवासं करिष्यन्ति जागरेण समन्वितम्।
यथोक्तशास्त्रमार्गेण तेषां मोक्षो न संशयः॥२५२॥
शिवरात्रिसमं नास्ति व्रतं पापक्षयावहम्।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः॥२५३॥
अश्वमेधसहस्राणि वाजपेयशतानि च।
प्राप्नोति तत्फलं सर्वं नात्र कार्या विचारणा॥२५४॥
॥इति श्रीलिङ्गपुराणे उमामहेश्वरसंवादे शिवरात्रिव्रतकथा सम्पूर्णा॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥