रुद्रप्रश्नः
ॐ नमो भगवते॑ रुद्रा॒य॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।
…
अभिषेकः—एकादशं गन्धतोयं द्वादशं तीर्थमुच्यते॥
…
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥ तमु॑ष्टु॒हि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑।
(ऋक्) यक्ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य॥ अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः। अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः॥
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे। तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे। मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚॥ ओं नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि। प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः। तेनान्नेना᳚ऽऽप्याय॒स्व॥ नमो रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तविꣳ॑शतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ऽष्टाविꣳ॑शतिश्च मे॒ द्वात्रिꣳ॑शच्च मे॒ षट्त्रिꣳ॑शच्च मे चत्वारि॒ꣳ॒शच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चाऽऽन्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च॥११॥
धूपम्। दीपम्। नैवेद्यम्। कर्पूरताम्बूलम्।
नीराजनम्—
ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥
अनेन एकादश-वार-जपेन भगवान् सर्वात्मकः
आदित्यात्मकः श्री-रुद्रः सुप्रीतः सुप्रसन्नो वरदो भवतु॥११॥
[ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु॥]
॥ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
स्नानानन्तरम् आचमनीयं समर्पयामि॥७॥
साक्षतजलेन तर्पणं कार्यम्॥
ॐ भवं देवं तर्पयामि। ॐ शर्वं देवं तर्पयामि। ॐ ईशानं देवं तर्पयामि। ॐ पशुपतिं देवं तर्पयामि। ॐ रुद्रं देवं तर्पयामि। ॐ उग्रं देवं तर्पयामि। ॐ भीमं देवं तर्पयामि। ॐ महान्तं देवं तर्पयामि॥
ॐ भवस्य देवस्य पत्नीं तर्पयामि। ॐ शर्वस्य देवस्य पत्नीं तर्पयामि। ॐ ईशानस्य देवस्य पत्नीं तर्पयामि। ॐ पशुपतेर्देवस्य पत्नीं तर्पयामि। ॐ रुद्रस्य देवस्य पत्नीं तर्पयामि। ॐ उग्रस्य देवस्य पत्नीं तर्पयामि। ॐ भीमस्य देवस्य पत्नीं तर्पयामि। ॐ महतो देवस्य पत्नीं तर्पयामि॥
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा अ॑दृश॒न्न॒दृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः॥ ॐ ह्रीं न॒मः शि॒वाय॑। रु॒द्राय॒ नमः॑। वस्त्रोत्तरीयं समर्पयामि॥८॥
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚। अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥ ॐ ह्रीं न॒मः शि॒वाय॑। काला॑य॒ नमः॑। यज्ञोपवीताभरणानि समर्पयामि॥९॥
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप॥ ॐ ह्रीं न॒मः शि॒वाय॑। कल॑विकरणाय॒ नमः॑। दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि अक्षतान् समर्पयामि॥१०॥
अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राक्ष॒ शते॑षुधे। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव॥ ॐ ह्रीं न॒मः शि॒वाय॑। बल॑विकरणाय॒ नमः॑। पुष्पैः पूजयामि॥११॥
ॐ भवाय देवाय नमः। ॐ शर्वाय देवाय नमः।
ॐ ईशानाय देवाय नमः। ॐ पशुपतये देवाय नमः।
ॐ रुद्राय देवाय नमः। ॐ उग्राय देवाय नमः।
ॐ भीमाय देवाय नमः। ॐ महते देवाय नमः॥
ॐ भवस्य देवस्य पत्न्यै नमः। ॐ शर्वस्य देवस्य पत्न्यै नमः।
ॐ ईशानस्य देवस्य पत्न्यै नमः। ॐ पशुपतेर्देवस्य पत्न्यै नमः।
ॐ रुद्रस्य देवस्य पत्न्यै नमः। ॐ उग्रस्य देवस्य पत्न्यै नमः।
ॐ भीमस्य देवस्य पत्न्यै नमः। ॐ महतो देवस्य पत्न्यै नमः॥