रुद्रप्रश्नः

ॐ नमो भगवते॑ रुद्रा॒य॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।

अभिषेकः—सप्तमं मधुना स्नानम्

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
अ॒ꣳ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ꣳ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे॥७॥

धूपम्। दीपम्। नैवेद्यम्। कर्पूरताम्बूलम्।
नीराजनम्—
स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑॥
अनेन सप्तम-वार-जपेन भगवान् सर्वात्मकः
विजयः सुप्रीतः सुप्रसन्नो वरदो भवतु॥७॥

❀ ❀ ❀