रुद्रप्रश्नः
ॐ नमो भगवते॑ रुद्रा॒य॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।
…
अभिषेकः—घृतस्नानं चतुर्थकम्॥
…
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒मका᳚श्च मे नी॒वारा᳚श्च मे॥४॥
धूपम्। दीपम्। नैवेद्यम्। कर्पूरताम्बूलम्।
नीराजनम्—
वे॒दा॒न्त॒वि॒ज्ञान॒सुनि॑श्चिता॒र्थाः सन्न्या॑स यो॒गाद्यत॑यः शुद्ध॒सत्त्वाः᳚।
ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे᳚॥
अनेन चतुर्थ-वार-जपेन भगवान् सर्वात्मकः
शङ्करः सुप्रीतः सुप्रसन्नो वरदो भवतु॥४॥