रुद्रप्रश्नः
ॐ नमो भगवते॑ रुद्रा॒य॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।
…
अभिषेकः—प्रथमं गन्धतोयं च
…
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता᳚त्॥
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्धन्तु वां॒ गिरः॑। द्यु॒म्नैर्वाजे॑भि॒राग॑तम्॥
वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च मे॒ऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूꣳ॑षि च मे॒ शरी॑राणि च मे॥१॥
धूपम्। दीपम्। नैवेद्यम्। कर्पूरताम्बूलम्।
नीराजनम्—
यो दे॒वानां᳚ प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः॑।
हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ꣳ॒ स नो॑ दे॒वः शु॒भया॒ स्मृत्याः॒ संयु॑नक्तु॥
अनेन प्रथम-वार-जपेन भगवान् सर्वात्मकः
महादेवः सुप्रीतः सुप्रसन्नो वरदो भवतु॥१॥