ध्यानम्

आपाताल-नभः-स्थलान्त-भुवन-ब्रह्माण्डमाविस्फुरत्
ज्योतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णेन्दु-वान्तामृतैः।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम्॥
ब्रह्माण्ड-व्याप्त-देहा भसित-हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दा-कलित-शशि-कलाश्चण्ड-कोदण्ड-हस्ताः।
त्र्यक्षा रुद्राक्षमालाः प्रकटित-विभवाः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटित-विभवा नः प्रयच्छन्तु सौख्यम्॥

॥पञ्चपूजा॥
लं पृथिव्यात्मने गन्धं समर्पयामि।
हं आकाशात्मने पूष्पैः पूजयामि।
यं वाय्वात्मने धूपमाघ्रापयामि।
रं अग्न्यात्मने दीपं दर्शयामि।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि।
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥
ॐ महागणपतये॒ नमः॑॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे॥
॥ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥