श्रीरुद्रजपः
अस्य श्री-रुद्राध्याय-प्रश्न-महामन्त्रस्य। अघोर ऋषिः।
अनुष्टुप् छन्दः। सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता॥
नमः शिवायेति बीजम्। शिवतरायेति शक्तिः।
महादेवायेति कीलकम्।
श्री-साम्बसदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः॥
॥करन्यासः॥
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः।
चातुर्मास्यात्मने मध्यमाभ्यां नमः।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः।
॥अङ्गन्यासः॥
अग्निहोत्रात्मने हॄदयाय नमः।
दर्शपूर्णमासात्मने शिरसे स्वाहा।
चातुर्मास्यात्मने शिखायै वषट्।
निरूढपशुबन्धात्मने कवचाय हुं।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट्।
सर्वक्रत्वात्मने अस्त्राय फट्।
भूर्भुवस्सुवरोमिति दिग्बन्धः।