नमस्काराः
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म्। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥१॥
अ॒स्मिन् म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑क्षे भ॒वा अधि॑। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥२॥
नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः, क्ष॑माच॒राः। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥३॥
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवꣳ॑ रु॒द्रा उप॑श्रिताः। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥४॥
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥५॥
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥६॥
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥७॥
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥८॥
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥९॥
य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे। तेषाꣳ॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि। श्री-महादेवादिभ्यो नमः॥१०॥
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां येषा॒मन्न॒मिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि। श्री-महादेवादिभ्यो नमः॥११॥
नमो॑ रु॒द्रेभ्यो॒ ये᳚ऽन्तरि॑क्षे॒ येषां॒ वात॒ इष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि। श्री-महादेवादिभ्यो नमः॥१२॥
नमो॑ रु॒द्रेभ्यो॒ ये दि॒वि येषां᳚ व॒र्॒षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि। श्री-महादेवादिभ्यो नमः॥१३॥
नमस्कारान् कृत्वा॥