कलशेषु साम्बपरमेश्वर ध्यानम्
ध्यायेन्निरामयं वस्तुं सर्गस्थितिलयादिकम्।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम्॥१॥
गङ्गाधरं शशिधरं जटामकुटशोभितम्।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम्॥२॥
लोचनत्रयसम्पन्नं स्वर्णकुण्डलशोभितम्।
स्मेराननं चतुर्बाहुं मुक्ताहारोपशोभितम्॥३॥
अक्षमालां सुधाकुम्भं चिन्मयीं मुद्रिकामपि।
पुस्तकं च भुजैर्दिव्यैर्दधानं पार्वतीपतिम्॥४॥
श्वेताम्बरधरं श्वेतं रत्नसिंहासनस्थितम्।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम्॥५॥
वामाङ्कसंस्थितां गौरीं बालार्कायुतसन्निभाम्।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम्।
सुवर्णरत्नखचितमकुटेन विराजिताम्॥६॥
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम्।
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणाम्॥७॥
सन्तप्तहेमखचित-ताटङ्काभरणान्विताम्।
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम्॥८॥
पताकाभरणोपेतां मुक्ताहारोपशोभिताम्।
स्वर्णकङ्कणसंयुक्तैश्चतुर्भिर्बाहुभिर्युताम्॥९॥
सुवर्णरत्नखचित-काञ्चीदामविराजिताम्।
कदलीललितस्तम्भ-सन्निभोरुयुगान्विताम्॥१०॥
श्रिया विराजितपदां भक्तत्राणपरायणाम्।
अन्योन्याश्लिष्टहृद्बाहू गौरीशङ्करसंज्ञकम्॥११॥
सनातनं परं ब्रह्म परमात्मानमव्ययम्।
आवाहयामि जगतामीश्वरं परमेश्वरम्॥१२॥
मङ्गलायतनं देवं युवानमति सुन्दरम्।
ध्यायेत्कल्पतरोर्मूले सुखासीनं सहोमया॥१३॥
आगच्छाऽऽगच्छ भगवन् देवेश परमेश्वर।
सच्चिदानन्द भूतेश पार्वतीश नमोऽस्तु ते॥१४॥
❀ ❀ ❀